भाष्यरत्नप्रभाव्याख्या
ब्रह्मदृष्ट्यधिकरणम्
ब्रह्मदृष्टिरुत्कर्षात् ।
एकविषयत्वं सङ्गतिः ।
प्रश्नपूर्वकं संशयबीजमाह -
कुत इत्यादिना ।
सामानाधिकरण्यं श्रुतं तन्न तावन्मुख्यम् , ब्रह्मविकारयोर्गवाश्वयोरिवाभेदायोगात् । नापि प्रकृतिविकारभावनिबन्धनम् , वाक्यस्य विकारबाधेन ब्रह्मपरत्वापातात् । न चेष्टापत्तिः । नाम ब्रह्मेत्युपासीतेति विधिश्रुतिविरोधात्, परिमितनामग्रहणानर्थक्यापाताच्च । ब्रह्मपरत्वे सर्वं ब्रह्मेति वक्तव्यत्वात् । अतः परिशेषादध्यास एव सामानाधिकरण्यकारणम् , अध्यासे च नियामकाभावात्संशय इत्यर्थः ।
उत्कृष्टनिकृष्टयोर्निकृष्टमप्युपास्यं फलवत्त्वादिति न्यायो नियामक इत्यरुचेराह -
अथवेति ।
अत्र विकारदृष्टिभिर्ब्रह्मोपास्तिसिद्धिः फलम् , सिद्धान्ते तु विकारदृष्ट्या ब्रह्मण उपास्यत्वे निकर्षप्राप्तौ सत्यां फलवत्त्वासिद्धेर्विकारा एवोत्कृष्टब्रह्मदृष्ट्योपास्या इति फलम् ।
किञ्च लौकिकन्यायाविरुद्धार्थसम्भवे विरुद्धार्थो न ग्राह्यः प्रत्यवायप्रसङ्गात् । किञ्च प्रथमश्रुतानामादित्यादिपदानामसञ्जातविरोधितया मुख्यार्थत्वग्रहो न्याय्यः, ब्रह्मशब्दे च दृष्टिलक्षणाग्रहः, तथा चादित्यादयो ब्रह्मदृष्ट्योपास्या इत्येव वाक्यार्थ इत्याह -
प्राथम्याच्चेति ।
ब्रह्मशब्दस्यैव दृष्ट्यर्थत्वे हेत्वन्तरमाह -
इतिपरत्वादिति ।
इतिशब्दशिरस्कः शब्दः समभिव्याहृतक्रियालक्षक इति लोके प्रसिद्धमित्यर्थः ।
द्वितीयाश्रुतेश्चादित्यादीनामेवोपास्तिकर्मत्वमित्याह -
वाक्यशेषोऽपीति ।
उत्कृष्टमेवोपास्यमिति न्यायमुक्तमनुवदति -
यत्तूक्तमिति ।
द्वितीयेतिश्रुतिभ्यां लौकिकन्यायाच्चोक्तन्यायबाध इत्याह -
तदिति ।
ब्रह्मणोऽनुपास्यत्वे कथं फलदातृत्वम् , तत्राह -
फलं त्विति ।
किञ्च यद्दृष्ट्या विकारस्योत्कर्षः तस्य ब्रह्मणो विशेषणत्वेऽप्युपास्यत्वं चास्तीत्याह -
ईदृशं चेति ॥५॥