अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

आप्रायणाधिकरणम्

आप्रायणात् ।

व्यवहितेनास्य सम्बन्धमाह -
आवृत्तिरिति ।
अनियोज्ये ब्रह्म­ण्या­त्म­त्व­प्र­ति­प­त्ति­र्यस्य तस्य विदुष इत्यर्थः ।

अह­ङ्ग्र­हो­पा­स­ने­ष्व­नु­ष्ठा­न­स्यो­भ­य­था­दृष्टेः संशयमाह -
यानि पुनरिति ।
यथा दिगा­दि­नि­य­म­स्या­वि­धे­र­ना­द­र­स्त­द्व­दा­म­र­ण­मु­पा­स्या­वृ­त्ते­र­वि­धा­ना­दि­नि­यम इति पूर्वपक्षः ।

मर­ण­प­र्य­न्त­मा­वृ­त्ति­रिति सिद्धान्तयति -
एवमिति ।

उपास्तीनां कर्मणां चान्त्यकाले प्राप्त­व्य­फ­ल­स्फू­र्ति­द्वारा फलहेतुत्वे मानमाह -
सविज्ञान इति ।
भावनामयं विज्ञानं फलस्फुरणं तेन सहितः सविज्ञानो विज्ञा­न­स्फु­रि­त­फलं विज्ञा­न­मि­त्यर्थः । यस्मिंल्लोके चित्तं सङ्कल्पोऽस्येति यच्चित्तस्तेन सङ्कल्पितेन लोकेन सह फल­स्फू­र्त्य­न­न्तरं मनः प्राणे लीयते इति यावत् । तेज उदानः । आत्मा जीवः । जलौ­का­दृ­ष्टा­न्त­श्रु­तेश्च भावि­फ­ल­स्फू­र्ति­र­स्ती­त्यर्थः ।

अस्त्वि­द­म­न्त्य­फलं विज्ञानं कर्म­णा­मि­वा­दृ­ष्ट­द्वा­रो­पा­स्तीनां ततः कुत आम­र­ण­मा­वृ­त्ति­रि­त्यत आह -
प्रत्य­या­स्त्विति ।
उपा­स्ति­प्र­त्य­यानां धारावाहिकतया स्वरू­पा­नि­वृ­त्ति­रे­वान्त्यं विज्ञानम् , न त्वदृ­ष्ट­द्वा­र­क­म­न्य­द­पे­क्षितं सर्वभावानामेव स्वसा­मा­न­जा­ती­य­द्वा­रा­न­पे­क्ष­तया प्रत्ययानां प्रत्य­या­न्त­रा­पे­क्षा­यो­गात्, कर्मणां तु दृष्ट­द्वा­रा­न्त्य­धी­फ­ल­त्वा­नु­प­पत्तेः अदृ­ष्ट­द्वा­र­क­ल्प­नेति भावः । क्रतुर्ध्यानम् । उपासक एतत्त्रयम् 'अक्षि­त­मसि', 'अच्यु­त­मसि', 'प्राण­सं­शि­त­मसि' इति मन्त्रत्रयं मरणकालेऽपि स्मरेदित्यर्थः ॥१२॥