अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

उभयलिङ्गाधिकरणम्

सर्वा­भि­र­व­स्था­भि­र­लि­प्त­स्त्व­मर्थ इति विचा­र्या­पा­द­स­मा­प्ते­स्त­त्प­दार्थ निरूपयितुकामः प्रथमं तस्य निर्विशेषत्वमाह -
न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ।

उद्दे­श्य­त्व­म्प­दा­र्थ­जि­ज्ञा­सो­प­र­मा­न­न्तरं तत्स्व­रू­प­ब्र­ह्म­वि­चा­र­स्या­व­स­र­सं­ग­ति­माह -
येनेति ।
निर्वि­शे­ष­त्वं­स­वि­शे­षत्वं चेत्युभयं लिङ्ग्यते ज्ञाप्यते याभिस्ता उभयलिङ्गाः श्रुतयः संशयबीजत्वेन सन्तीत्यर्थः । यथा विरु­द्ध­सु­षु­प्ति­म­र­णो­भ­य­रूपं मुग्धत्वं तथा श्रुति­प्रा­मा­ण्या­दु­भ­य­रूपं ब्रह्म ध्येयमिति दृष्टान्तेन पूर्वपक्षः ।

निर्वि­शे­ष­मे­क­रू­प­मेव ज्ञेयमिति सिद्धान्तयति -
एवमिति ।

किमुभयरूपत्वं स्वतः, उत स्वतो निर्गुणस्य सर्व­ग­न्ध­त्वा­दि­वि­शेष उपाधितः सत्यः, आहोस्वित्स्वतः सविशेषमेव ब्रह्मेति । तत्राद्य निरस्य द्वितीयमनूद्य दूषयति -
अस्तु तर्हीति ।
स्थानमुपाधिः । ब्रह्मणि विशेषः कल्पितः, औपा­धि­क­त्वा­त्स्फ­टि­क­लौ­हि­त्य­व­दि­त्यर्थः ।

उपाधेः सत्यत्वेऽपि तत्कृतं मिथ्येति दृष्टं ब्रह्मणि तूपाधीनां मिथ्या­त्वा­त्त­त्कृतो विशेषो मिथ्येति किमु वाच्यमित्याह -
उपाधीनामिति ।

तृतीयं निरस्यति -
अतश्चेति ।
सर्वस्य विशेषस्य कल्पि­त­त्वा­दे­वे­त्यर्थः ।

निषे­ध­श्रु­ते­श्चै­व­मि­त्याह -
सर्वत्र हीति ॥११॥

भिद्यत इति भेदो विशेषः, निर्वि­शे­ष­त्व­श्रु­ता­वपि विशेषस्यापि श्रुते­रु­भ­य­रू­पत्वं स्यादिति शङ्कां व्याचष्टे -
अथापि स्यादिति ।

पूर्वोक्तं विरोधं स्मारयति -
ननूक्तमिति ।
भेद­श्रु­ति­प्रा­मा­ण्या­र्थ­मौ­पा­धि­क­रू­प­भे­द­स्वी­का­रा­द­वि­रोध इति समाध्यर्थः ।

किमुपाधिगत एव रूपभेदो ब्रह्म­ण्यु­प­च­र्यते ध्याना­र्थ­मु­तो­पा­धि­यो­गा­त्स­त्य­वि­रु­द्ध­रू­प­व­त्तया ब्रह्मणो भेदो भवतीति । आद्येऽ­स्मा­दि­ष्ट­सिद्धिः, द्विती­य­म­भे­द­श्रुत्या दूषयति -
नेति ब्रूम इति ॥१२॥

द्वैत­नि­न्दा­पू­र्व­क­म­द्वै­तो­क्तेश्च निर्विशेषं तत्त्वमिति सूत्रार्थमाह -
अपि चेति ।
भोक्ता जीवो भोग्यं शब्दादि तयोः प्रेरि­ता­र­मी­श्वरं च मत्वा विचार्य मे मम प्रोक्तं तत्सर्वं त्रिविधं ब्रह्मैवेति जानीयादित्यर्थः ॥१३॥

द्विविधश्रुतिषु सतीषु निर्विशेषत्वे किं नियामकमिति शङ्कते -
कथं पुनरिति ।

तत्प­रा­त­त्प­र­वि­रोधे तत्परं बलवदिति न्यायो नियामक इत्याह -
अरूपवदेवेति ।

उपा­स­ना­प­र­वा­क्येषु आकारे तात्प­र्या­भा­वेऽपि देव­ता­वि­ग्र­हा­दि­व­दा­का­र­सि­द्धि­मा­शङ्क्य निष्प्र­प­ञ्च­प­र­श्रु­ति­वि­रो­धा­न्मै­व­मि­त्याह -
तेष्वसतीति ॥१४॥

कल्पितद्वैते सावकाशत्वाच्च सप्र­प­ञ्च­त्व­श्रु­तयो दुर्बला इत्याह -
प्रकाशवच्चेति ।

नन्वा­का­र­वा­क्या­ना­मु­पा­धि­क­ल्पि­त­स­र्व­ग­न्ध­त्वा­दि­ना­र्थ­वत्त्वं किमिति वर्ण्यते वैय­र्थ्य­मे­वो­च्य­ताम्, तत्राह -
न हि वेदवाक्यानामिति ।

नन्वेवमपीति ।
उक्त­री­त्यो­भ­य­रू­प­त्वा­ङ्गी­का­रेण श्रुतीनां व्यव­स्थि­त­त्वेऽ­पी­त्यर्थः ।

उपाधीनां कल्पि­त­त्वा­दौ­पा­धि­कस्य सत्य­त्वा­दु­प­प­त्तेर्न सत्य­मु­भ­य­रू­प­त्व­मिति पूर्वमुक्तं, संप्रति सत्यं निर्विशेषत्वं मिथ्या सवि­शे­ष­त्व­मि­त्यु­च्यत इत्यु­भ­य­रू­प­त्वा­ङ्गी­का­रेऽपि न पूर्वापरविरोध इत्याह -
नेति ब्रूम इति ।

द्वैतस्य मिथ्यात्वे ज्ञानेन बाधा­दु­पा­स­ना­दि­व्य­व­हारो न स्यादि­त्या­शङ्क्य बाधात्प्रागेव स इत्याह -
सत्यमिति ॥१५॥

यतः श्रुति­श्चि­न्मा­त्र­मा­हा­तश्च विशेषो मिथ्येति सूत्रार्थमाह -
आह चेति ।
सैन्धवघनो लवणपिण्डः ॥१६॥

किञ्च श्रुतिस्मृत्योः परनिषेधेन ब्रह्मो­प­दे­शा­न्नि­ष्प्र­पञ्चं ब्रह्मेत्याह -
दर्शयति चेति ।
अथ द्वैतो­क्त्य­न­न्तरं ज्ञान­हे­तु­त्वा­न्नेति नेति उपदेशः क्रियत इत्यर्थः । अधि अन्यत्पुनः पुनरधीहि भो इति निर्बन्धकारिणं तं द्वितीये तृतीये च प्रश्ने तूष्णीं भावं त्यक्त्वोवाच । उपशान्तो निरस्तद्वैतः । अतस्तस्य तूष्णींभाव एवोत्तरमिति सौत्रश्च अतो­श­ब्द­स्त­था­र्थकः आदिमत्कार्यं तन्न भवतीत्यनादिमत् । सत् इन्द्रियवेद्यम् । असत् परोक्षं च न स्वप्र­का­श­त्वा­दि­त्यर्थः । सर्व­भू­त­गु­णै­र्दि­व्य­ग­न्धा­दि­भि­र्युक्तं मां मूर्तिमन्तं पश्यसीति यत्सा माया, अत एव सद्वैतो भगवानिति मां द्रष्टुं नार्हसि वस्तुतो द्वैता­ती­त­त्वा­दि­त्यर्थः ॥१७॥

किञ्च यथा जला­द्यु­पा­धि­क­ल्पितः सूर्य­च­न्द्रा­दे­र्भे­द­च­ल­ना­दि­र्धर्म एवमात्मन इति दृष्टा­न्त­श्रु­तेश्च निर्विशेषं तत्त्वमित्याह -
अत एव चोपमेति ।
जल­स्थ­प्र­ति­बि­म्ब­त्वा­का­रेण सूर्य­स्या­भा­स­त्व­द्यो­त­नाय सूर्यकेति कप्रत्ययः । यथायं ज्योतिर्मयो विवस्वान्स्वत एकोऽपि घटभेदेन भिन्नाः अपोऽनुगच्छन् बहुधा क्रियते एवमजोऽयमात्मा देवः स्वप्रकाश एकोऽप्युपाधिना मायया क्षेत्रे­ष्व­नु­ग­च्छन् भेदरूपः क्रियत इति योजना ॥१८॥

इहा­त्म­न्यु­क्त­दृ­ष्टा­न्त­वै­ष­म्य­श­ङ्का­सू­त्रम् -
अम्बुवदिति ।
आत्मनो नीरू­प­त्वा­द्दू­र­स्थो­पा­ध्य­भा­वाच्च मायया बुद्ध्यादिषु प्रतिबिम्बभेदो न युक्त इत्यर्थः ॥१९॥

उपा­ध्य­न्त­र्भा­वेन तत्क­ल्पि­त­ध­र्म­व­त्त्व­मत्र विव­क्षि­तां­श­स्तेन साम्येन समाधानसूत्रम् -
वृद्धिहासेति ।

दृष्टा­न्त­सा­म्येऽपि नीरूपात्मनः प्रतिबिम्बं स्वबुद्ध्या कथं कल्प्यत इत्यत आह -
न चेदमिति ।
श्रूयते न कल्प्यत इत्यर्थः ।

श्रुत­दृ­ष्टा­न्तस्य 'सूर्य­का­दि­वत्' इत्युपन्यासेन किं फलमित्यत आह -
शास्त्रेति ।
आत्मनो निर्विशेषत्वं फलमित्यर्थः । अविरोध इति न वैषम्यमित्यर्थः । आत्मा प्रति­बि­म्ब­शून्यः, नीरू­प­द्र­व्य­त्वात्, वायु­व­दि­त्य­नु­माने आकाशे व्यभिचारः । अल्प­ज­लेऽ­वि­दू­रा­का­श­प्र­ति­बि­म्ब­द­र्श­ना­दु­पा­धि­दू­र­स्थ­त्व­मपि क्वचि­द­न­पे­क्षि­त­मिति भावः ॥२०॥

प्रवे­श­श्रु­ते­श्चो­क्ता­नु­मा­न­बाध इत्याह सूत्रकारः -
दर्शनाच्चेति ।
द्विपदः पुरो मनु­ष्या­दि­दे­हां­श्चक्रे चतुष्पदः पुरः पशून्कृत्वा पुर­श्च­क्षु­रा­द्य­भि­व्यक्तेः पुरस्तात्स ईश्वरः पक्षी लिङ्गशरीरी भूत्वा पुर उक्तानि शरीराण्याविशत्, स च प्रविष्टोऽपि पुरुषः पूर्ण एवेत्यर्थः । तैत्तिरीयके लिङ्गस्य पक्षाद्युक्तेः पक्षित्वं मन्तव्यम् ।

एवं प्रतिबिम्बभावेन भेदादेः कल्पि­त­त्वा­त्नि­र्वि­शेषं ब्रह्मेति स्वमतमुपसंहरति -
तस्मादिति ।

एक­दे­शि­व्या­ख्या­मु­त्था­प­यति -
अत्रेति ।
न स्थान­तोऽ­पी­त्या­द्ये­क­म­धि­क­रणं, तत्र ब्रह्मणो निष्प्रपञ्चत्वे स्थिते किंलक्षणं ब्रह्मेति संदेहे प्रका­श­व­च्चे­त्या­दि­द्वि­ती­य­म­धि­क­रणं प्रवृत्तं, न सद्रूपमेव ब्रह्म किन्तु प्रकाशवच्च चिद्रूपं च । कुतःवैयर्थ्यात् । सत्यं ज्ञानं सदेव सोम्ये­त्यु­भ­य­श्रु­ते­र्द्वि­रूपे ब्रह्म­ण्य­र्थ­व­त्त्वा­दिति पूर्वपक्षे सिद्धान्तः आह च तन्मात्रम् । सन्मात्रं ब्रह्म श्रुतिराह, 'ज्ञानस्य सत्ता­न­ति­रे­कात्' इति ।

इदं द्वितीयाधिकरणं दूषयति -
अत्र वयमिति ।

द्विती­या­धि­क­र­णस्य किं ब्रह्म­णोऽ­ने­क­रू­प­त्व­नि­रासः फलम्, उत बोधरूपत्वनिरास आहो­स्वि­त्स­त्ता­नि­रास इति विकल्प्य सर्व­था­प्या­न­र्थक्यं प्रप­ञ्च­य­न्नाद्ये गतार्थतामाह -
यदि तावदिति ।

न हि द्वितीय इत्याह -
न चेति ।

ब्रह्मणो बोधरूपत्वनिरासे जड­त्वा­ज्जी­वा­भे­द­श्रु­ति­बा­धश्च स्यादित्याह -
कथं वेति ।

न तृतीय इत्याह -
नापीति ।

सत्तानिरासे बोधस्य तुच्छत्वं च स्यादित्याह -
कथमिति ।
न च बोधस्य सत्तानतिरेकान्न तुच्छतेति वाच्यम् । सद्बो­ध­प­द­यो­र्वा­च्या­न­ति­रेके पर्या­य­त्व­प्र­स­ङ्गात् ।

एवं सिद्धान्तं फलाभावेन दूषयित्वा पूर्वपक्षं दूषयति -
नापीति ।

प्रसङ्गमेवाह -
सत्तेति ।
व्यावृत्तत्वं भिन्नत्वम् । निष्प्र­प­ञ्चै­क­रू­प­त्व­सि­द्धा­न्त­वि­रो­धा­त्भि­न्नो­भ­य­रू­प­त्व­पू­र्व­प­क्षा­नु­त्था­न­मि­त्यर्थः ।

उभ­य­श्रु­ति­ब­ला­दु­त्था­न­मिति शङ्कते -
श्रुतत्वादिति ।

मेरु­वि­न्ध्य­व­त्प­र­स्परं भिन्न­स­त्ता­बो­ध­यो­रे­क­ब्र­ह्मा­भे­द­शङ्का श्रुतिशतेनापि न युक्तेत्याह -
नेति ।

सद्बो­ध­यो­र्भे­दोऽस्ति न वा । आद्ये श्रुतेरपि विरु­द्धा­र्थ­त्वा­नु­प­प­त्तेर्न पूर्व­प­क्षो­त्था­न­मि­त्यु­क्तम् । संप्रति द्वितीयं शङ्कते -
अथ सत्तैवेति ।
सद्बो­ध­प­द­यो­र्वा­च्य­भे­देऽपि लक्ष्यै­क्यो­प­प­त्ति­र­ख­ण्डा­र्थ­स्वी­का­रा­दि­त्यर्थः । अखण्डार्थस्य पूर्वपक्षत्वं न स्यात्सि­द्धा­न्त­त्वात् ।

किञ्चात्र संशयोऽप्ययुक्त इत्याह -
तथापीति ।

एकाधिकरणपक्षे सूत्राणि कथं नेयानीत्यत आह -
सूत्राणीति ।

स्वपक्षे सूत्रसामञ्चस्यं चेत्याह -
अपि चेति ।
अव­श्या­पे­क्षि­त­ग­त्य­र्थ­त्वे­नो­त्त­र­सू­त्राणां पूर्वै­क­वा­क्य­त्वा­न्ना­धि­क­र­ण­भेद इति भावः । आकारश्रुतीनां कल्पिताकारो गतिरिति स्वमतमुक्तं, प्रप­ञ्च­वि­ल­य­वा­दि­नस्तु 'मनोमयः प्राणशरीरः सत्यकामः' इत्या­द्या­का­र­श्रु­तीनां तदि­त­रा­का­र­प्र­वि­लयो गतिरित्याहुः । मनोमय इति कोऽर्थः, मनोऽ­ति­रि­क्तो­पा­धि­शून्य इत्यर्थः ।

एवं प्राणशरीरपदेन प्राणा­ति­रि­क्तो­पा­धि­नि­षे­धा­न्म­न­सोऽ­प्य­भा­व­सिद्धिः, एवं सर्वे शब्दा अनाकारब्रह्मपरा एवेति तन्मतमनूद्य दूषयति -
यदपीत्यादिना ।

किं ज्ञेय­ब्र­ह्म­प्र­क­र­ण­स्था­ना­मा­का­र­श­ब्दानां निषे­ध­प­र­त्व­मु­तो­पा­स­ना­प्र­क­र­ण­स्था­ना­मपि । तत्रा­द्य­म­ङ्गी­क­रोति -
ये हीति ।

अस्य जीवभावं प्राप्त­स्ये­श्व­रस्य दश हरयो विषया हर­णा­द्द­शे­न्द्रि­याणि प्राणि­भे­दा­पे­क्षया शतानि सहस्राणि च तेषा­मी­श्व­रा­द्भे­द­मा­श­ङ्क्याह -
अयमिति ।
ईश्वर एव हरय इत्यर्थः ।

द्वितीयं दूषयति -
ये पुनरिति ।

मनो­म­या­दि­श­ब्दानां मुख्यवृत्त्या गुणपरत्वसंभवे निषेधलक्षणापि न युक्तेत्याह -
श्रुत्या चेति ।

किं चाका­रा­ना­का­र­श्रु­ति­द्वै­विध्ये सति ब्रह्मा­ना­का­र­मे­वे­त्यत्र किं विनिगमकमिति शङ्को­त्था­ना­द­स्थू­ला­दि­श्रु­तीनां निरा­का­र­ता­त्पर्यं नियामकमिति कथनार्थमिदं सूत्र­म­र्थ­व­द्भ­वति । सर्वश्रुतीनां निषेधार्थत्वे तु शङ्का­नु­त्था­ना­न्नि­या­म­क­सूत्रं व्यर्थं स्यादित्याह -
सर्वेषां चेति ।

ननू­पा­स­नाऽ­र्थ­क­वा­क्यानां स्वार्थे फला­भा­वा­त्स­फ­ल­नि­षे­ध­वा­क्य­शे­ष­त्व­मि­त्या­शङ्क्य फलस्य श्रुत­त्वा­न्ना­न्य­शे­ष­ते­त्याह -
फलमपीति ।

अर्थै­क्या­भा­वाच्च नैकवाक्यतेत्याह -
कथं चेति ।

अर्थैक्यं शङ्कते -
एकेति ।
यथा फल­व­त्प­र­मा­पू­र्वा­ख्य­नि­यो­गै­क्या­द­ङ्ग­प्र­धा­न­वा­क्या­ना­मे­क­वा­क्यता तथा तत्त्वा­व­बो­ध­का­मस्य प्रप­ञ्च­प्र­वि­ल­य­वि­ष­यक एको नियो­ग­रू­पोऽ­र्थोऽ­स्ती­त्या­का­रा­ना­का­र­वा­क्यानां सर्वे­षा­मे­क­वा­क्य­ते­त्यर्थः ।

नियोगासिद्ध्या दूषयति -
नेति ।

विषयं शङ्कते -
ननु द्वैतेति ।
प्रत्यनीकं प्रतिबन्धकम् ।

ननु प्रपञ्चविलये ब्रह्मलयः स्यादभेदादित्यत आह -
ब्रह्मस्वभावो हि प्रपञ्च इति ।
कारणं हि कार्यस्य स्वरूपमतः कार्यनाशेऽपि कारणस्य न लयः, घटनाशेऽपि मृद्द­र्श­ना­दि­त्यर्थः ।

प्रपञ्चस्य सत्यस्य कल्पितस्य वा लये विधिरिति विकल्प्याद्यं दूषयति -
तत्र यदि तावदिति ।
सत्यस्य ज्ञानादध्वस्तेः मुसलादिना च कृत्स्न­द्वै­त­ध्वं­सा­यो­गात् नभो­ग्र­स­न­वि­धि­व­द­श­क्य­वि­ष­योऽयं विधिः, किञ्च शुकादिमुक्त्या सर्वमुक्तिः स्यादित्यर्थः ।

द्वितीयमनूद्य दूषयति -
अथेत्यादिना ।
उप­दे­श­ज­न्य­ज्ञा­ना­दे­वा­वि­द्या­त­ज्ज­प्र­प­ञ्च­ल­य­सि­द्धे­र्नि­योगो वृथैवेत्यर्थः ।

किञ्च ब्रह्मज्ञानादौ विधिः किं ब्रह्मण्यज्ञाते ज्ञाते वा । नाद्यः, अश­क्य­त्वा­दि­त्याह -
अनावेदिते त्विति ।

द्वितीयं शङ्कते -
नन्विति ।

उपदेशादेव ज्ञाते ब्रह्मणि साक्षा­त्का­र­द्वै­त­बा­धयोः सिद्धे­र्वि­धि­वै­यर्थ्यं सिद्धस्य विधिना कर्तु­म­यो­गा­दि­त्याह -
नेति ।

एवं­वि­ष­या­भा­वा­न्नि­यो­गा­भा­व­मुक्त्वा नियो­ज्या­भा­वा­त्त­द­भा­व­माह -
नियोज्योऽपि चेति ।
प्रप­ञ्चा­न्त­र्भूतो ब्रह्म वेत्यर्थः ।

आद्ये जीव­ना­शा­द्वि­ध्य­योगः, द्वितीये नियो­ज्या­सि­द्धिः,तर्हि ज्ञाने विधिप्रत्ययानां का गतिरित्यत आह -
द्रष्ट­व्या­दि­शब्दा इति ।

ननु श्रुतं ज्ञानं त्यक्त्वा तत्सा­ध­न­व्या­पा­र­विधिः किमिति कल्प्यत इत्याशङ्क्य ज्ञानस्य पुरु­ष­कृ­त्य­सा­ध्य­त्वा­दि­त्याह -
ज्ञेया­भि­मु­ख­स्या­पीति ।

किञ्च ज्ञानविधिवादिना ज्ञेयं ब्रह्मावश्यं वेदा­न्तै­र्ज्ञा­प­नीयं विषयानवबोधे विधिबोधायोगात् । तथाच वेदान्तैरेव ज्ञाने­त्प­त्ते­र्वि­ध्या­न­र्थ­क्य­मि­त्याह -
तस्मादिति ।
तं ज्ञानार्थिनं प्रतीत्यर्थः ।

ननूत्पन्नं ज्ञान­म­न्य­था­कर्तुं विधिरर्थवानिति, नेत्याह -
न चेति ।

नन्व­न­ग्नि­र्यो­षि­दिति प्रत्य­क्ष­प्र­मा­णा­दु­त्प­न्न­मपि ज्ञानं तामग्निं ध्यायेदिति । विधिनान्यथाकृतं दृश्यत इत्यत आह -
यदीति ।
अन्यथाधीः कृतिसाध्या चेत्क्रियैव, कृतिं विनैव चेद्भ्रा­न्ति­रे­वातो मानं विना विधितो ज्ञाना­सि­द्धे­र्मा­न­व­स्तु­तन्त्रे ज्ञाने विधि­र्मृ­षे­त्यर्थः ।

वेदान्तेषु विधि­वा­दि­नोऽ­न्यच्च दूषणमस्तीत्याह -
किञ्चान्यदिति ।

ब्रह्मा­त्मै­क्ये­नि­योगे च वेदान्तवाक्यस्य प्रामा­ण्य­मा­श­ङ्क्या­र्थ­भे­दा­द्वा­क्य­भेदो विरु­द्धा­र्थ­त्वा­द­प्रा­माण्यं चेति दूषयति -
अथेत्यादिना ।

किञ्च श्रुतं ब्रह्म न श्रुतो विधि­र्वे­दा­न्तेषु तत्कल्पने च कर्म­ज­न्य­त्वा­न्मो­क्ष­स्या­नि­त्य­त्व­सा­ति­श­य­त्वा­दि­प्र­सङ्ग इत्याह -
नियोगपरतायां चेति ।

फलितमाह -
अतश्चेति ।

इदानीं प्रौढवादेन नियोगमङ्गीकृत्य तदेकत्वं खण्डयति -
अभ्यु­प­ग­म्य­मा­नेऽ­पीति ।
भिन्न­क्रि­या­वा­चि­शब्दः शब्दान्तरं यथा यजति ददातीति तथेहापि वेदोपासीतेति शब्दभेदः । निर्गु­ण­स­गु­ण­रू­प­भे­दः­प्र­क­र­ण­भेदः मुक्त्य­भ्यु­द­य­फ­ल­भेद इत्येतैः प्रमा­णै­र्नि­र्गु­ण­ज्ञा­न­स­गु­णो­पा­स­ना­वि­ष­य­क­नि­यो­ग­भेद इत्यर्थः ।

कथं तर्ह्य­ङ्गा­ङ्गि­वा­क्येषु नियोगैक्यं, तत्राह -
प्रयाजेति ।
एकस्यैव स्वर्गकामस्य साङ्ग­प्र­धा­ना­धि­का­रा­त्त­त्सा­ध्य­फ­ला­पू­र्वै­क्या­दे­क­वा­क्य­ते­त्यर्थः ।

इहापि निर्गु­ण­स­गु­ण­वि­द्य­यो­रे­का­धि­का­रा­त्नि­यो­गै­क्य­मस्तु, नेत्याह -
न त्विहेति ।
मुक्त्य­भ्यु­द­या­र्थि­भे­दा­न्मिथो विरु­द्धा­र्थ­वि­द्य­यो­र­ङ्गा­ङ्गि­त्वा­यो­गाच्च न वियोगैक्यम् ।

न च निर्गु­ण­वि­द्या­नि­योग एक एव सगु­ण­वि­द्या­न­ङ्गी­का­रा­दिति वाच्यम् । अहो विपरीतं पाण्डि­त्य­मा­यु­ष्मतः, विघ्न्य­यो­ग्य­वि­द्यायां विधि­र्वि­धि­यो­ग्या­या­म­वि­धि­रिति, तस्मा­त्सा­का­र­वा­क्या­ना­मा­का­र­ल­य­द्वारा निर्गु­ण­वा­क्यै­क­वा­क्य­ता­ग­ति­र­स­द्ग­ति­रेव, किन्तु तेषां कल्पिताकारो गति­स्त­दु­पा­स­न­या­भ्यु­द­य­सिद्धेः, निर्गु­ण­वा­क्यानां तु पर­मा­र्था­ल­म्ब­न­त्व­मि­त्य­स्म­दुक्त एव विभागः साधी­या­नि­त्यु­प­सं­ह­रति -
तस्मादिति ॥२१॥