अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

उपसंहारदर्शनाधिकरणम्

उपसंहारदर्शनात् ।
अस­हा­या­द्ब्र­ह्मणो जगत्सर्गं ब्रुवन् समन्वयो विषयः ।

स किं यदसहायं तन्न कारणमिति लौकिकन्यायेन विरुध्यते न वेति सन्देहे पूर्व­मौ­पा­धि­क­जी­व­भे­दा­द्ब्र­ह्मणि जीवदोषा न प्रसज्यन्त इत्युक्तम् , सम्प्रति उपाधितोऽपि विभक्तं ब्रह्मणः प्रेरकादिकं सहकारि नास्ति ईश­ना­ना­त्वा­भा­वा­दिति प्रत्युदाहरणेन पूर्व­प­क्ष­सू­त्रांशं व्याचष्टे -
चेतनमित्यादिना ।
फलं पूर्ववत् । कार­का­णा­मु­प­सं­हारो मेलनम् ।

उक्तन्यायस्य क्षीरादौ व्यभिचार इति सिद्धान्तयति -
नैष दोष इति ।
शुद्धस्य ब्रह्म­णोऽ­का­र­ण­त्व­मि­ष्ट­मेव ।

विशि­ष्ट­स्ये­श्व­रस्य तु मायैव सहाय इति भावेनाह -
बाह्यमिति ।

क्षीर­स्या­प्या­त­ञ्च­ना­दि­स­हा­योऽ­स्ती­त्य­स­हा­य­त्व­हे­तोर्न व्यभिचार इत्याशङ्क्य सहायाभावेऽपि यस्य कस्य­चि­त्प­रि­णा­मस्य क्षीरे दर्श­ना­द्व्य­भि­चा­र­ता­द­व­स्थ्य­मि­त्याह -
नन्वित्यादिना ।

तर्हि सहायो व्यर्थः, तत्राह -
त्वार्यत इति ।

ननु त्वार्यते क्षीरं दधिभावाय शैघ्र्यं कार्यत इति किमर्थं कल्प्यते, स्वतोऽशक्तं क्षीरं सहायेन शक्तं क्रियत इति किं न स्यात् , तत्राह -
यदि चेति ।

शक्तस्य सहायसम्पदा किं कार्यमित्यत्राह -
साधनेति ।
सहायविशेषाभावे कश्चिद्विकारः क्षीरस्य भवति, तत्र आत­ञ्च­न­प्र­क्षे­पौ­ष्ण्याभ्यां तूत्त­म­द­धि­भा­व­सा­मर्थ्यं व्यज्यत इत्यर्थः ।

तर्हि शक्ति­व्य­ञ्ज­कोऽपि सहायो ब्रह्मणो वाच्यः, तत्राह -
परिपूर्णेति ।
निर­पे­क्ष­मा­या­श­क्ति­क­मि­त्यर्थः ।

तादृशशक्तौ मानमाह -
श्रुतिश्चेति ॥२४॥

ननु ब्रह्म न कारणं चेतनत्वे सत्य­स­हा­य­त्वा­न्मृ­दा­दि­शू­न्य­कु­ला­ला­दि­व­दिति न क्षीरादौ व्यभिचार इति सूत्र­व्या­वर्त्यां शङ्कामाह -
स्यदेतदिति ।

तस्यापि हेतोर्देवादौ व्यभिचार इत्याह -
देवादिवदिति ।
लोक्यते ज्ञाय­तेऽ­र्थोऽ­ने­नेति लोको मन्त्रा­र्थ­वा­दा­दि­शास्त्रं वृद्धव्यवहारश्च । अभिध्यानं सङ्कल्पः ।

ननु देवा­द्यू­र्ण­ना­भा­न्त­दृ­ष्टा­न्तेषु शरीरेषु चेतनत्वं नास्ति, बला­का­प­द्मि­नी­चे­त­न­यो­र्ग­र्भ­प्र­स्था­न­क­र्तृत्वे मेघशब्दः शरीरं च सहायोऽस्ति, अतो विशिष्टहेतोर्न व्यभिचार इति शङ्कते -
स यदि ब्रूया­दि­त्या­दिना ।

व्यभि­चा­रोऽ­स्तीति परिहरति -
तं प्रति ब्रूयादिति ।
अयं दोषः दृष्टा­न्त­वै­ष­म्याख्यः । अत्र हि हेतौ चेत­न­त्व­म­ह­न्धी­वि­ष­य­त्व­रूपं चित्ता­दा­त्म्या­प­न्न­दे­ह­सा­धा­रणं ग्राह्यं न तु मुख्यात्मत्वम् , तव कुलालदृष्टान्ते साध­न­वै­क­ल्या­पत्तेः । असहायत्वं च चेतनस्य स्वाति­रि­क्त­हे­तु­शू­न्य­त्वम् , तदुभयं देवादिष्वस्तीति व्यभिचारः, देहस्य स्वान्तः­पा­ति­त्वेन स्वाति­रि­क्त­त्वा­भा­वात् । तथा च कुलालवैलक्षण्यं देवादीनां घटादिकार्ये स्वाति­रि­क्ता­न­पे­क्ष­त्वात् । देववैलक्षण्यं ब्रह्मणः देह­स्या­प्य­न­पे­क्ष­णात् । नरदेवादीनां कार्यारम्भे नास्त्येकरूपा सामग्री । श्रूयते हि महाभारते श्रीकृष्णस्य सङ्कल्पमात्रेण द्रौपद्याः पट­प­र­म्प­रो­त्पत्तिः । अतः सिद्ध­म­स­हा­य­स्यापि ब्रह्मणः कारणत्वम् ॥२५॥