भाष्यरत्नप्रभाव्याख्या
समन्वयाधिकरणम्
वेदान्ताः सिद्धब्रह्मपरा उत कार्यपरा इति निष्फलत्वसापेक्षत्वयोः प्रसङ्गाप्रसङ्गाभ्यां संशये पूर्वसूत्रे द्वितीयवर्णकेनाक्षेपसङ्गत्या पूर्वपक्षमाह
कथं पुनरित्यादिना ।
‘सदेव सोम्य’ इत्यादीनां सर्वात्मत्वादिस्पष्टब्रह्मलिङ्गानां ब्रह्मणि समन्वयोक्तेः, श्रुत्यादिसङ्गतयः । पूर्वपक्षे वेदान्तेषु मुमुक्षुप्रवृत्त्यसिद्धिः, सिद्धान्ते तत्सिद्धिरिति विवेकः ।
कथमित्याक्षेपे हेतुः -
यावतेति ।
यतो जैमिनिसूत्रेण शास्त्रस्य वेदस्य क्रियापरत्वं दर्शितमतोऽक्रियार्थत्वाद्वेदान्तनामानर्थक्यं फलवदर्थशून्यत्वं प्राप्तमित्यन्वयः । सूत्रस्यायमर्थः - प्रथमसूत्रे तावद्वेदस्याध्ययनकरणकभावनाविधिभाव्यस्य फलवदर्थपरत्वमुक्तम् । ‘चोदनालक्षणोऽर्थो धर्मः’ इति द्वितीयसूत्रे धर्मे कार्ये चोदना प्रमाणमिति वेदप्रामाण्यव्यापकं कार्यपरत्वमवसितम् । तत्र ‘वायुर्वै क्षेपिष्ठा’ इत्याद्यर्थवादानां धर्मे प्रामाण्यमस्ति न वेति संशये आम्नायप्रामाण्यस्य क्रियार्थत्वेन व्याप्तत्वात् , अर्थवादेषु धर्मस्याप्रतीतेः अक्रियार्थानां तेषामानर्थक्यं निष्फलार्थत्वम् ।
न चाध्ययनविध्युपात्तानां निष्फले सिद्धेऽर्थे प्रामाण्यं युक्तम् , तस्मादनित्यमेषां प्रामाण्यमुच्यते । व्यापकाभावाद्व्याप्यं प्रामाण्यं नास्त्येवेति यावत् । एवं पूर्वपक्षेऽपि ‘विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः’ इति सूत्रेण सिद्धान्तमाह -
क्रियापरत्वमिति ।
अनित्यमिति प्राप्ते दर्शितमित्यर्थः । वायुर्वै क्षिप्रतमगामिनी देवता तद्देवताकं कर्म क्षिप्रमेव फलं दास्यति, इत्येवं विधेयार्थानां स्तुतिरूपार्थेन द्वारेण ‘वायव्यं श्वेतमालभेत’ इत्यादिविधिवाक्येनैकवाक्यत्वादर्थवादाः सफलाः स्युः । स्तुतिलक्षणया सफलकार्यपरत्वात्प्रमाणमर्थवादा इति यावत् ।
नन्वध्ययनविधिगृहीतानां वेदान्तानामानर्थक्यं न युक्तमित्यत आह -
कर्त्रिति ।
न वयं वेदान्तानामानर्थक्यं साधयामः किन्तु लोके सिद्धस्य मानान्तरवेद्यत्वान्निष्फलत्वाच्च सिद्धब्रह्मपरत्वे तेषां मानान्तरसापेक्षत्वनिष्फलत्वयोः प्रसङ्गादप्रामाण्यापातात् , कार्यशेषकर्तृदेवताफलानां प्रकाशनद्वारा कार्यपरत्वं वक्तव्यमिति ब्रूमः । तत्र त्वन्तत्पदार्थवाक्यानां कर्तृदेवतास्तावकत्वम् , विविदिषादिवाक्यानां फलस्तावकत्वम् ।
ननु कर्मविशेषमनारभ्य प्रकरणान्तराधीतानां वेदान्तानां कथं तच्छेषत्वम् , मानाभावादित्यरुच्या पक्षान्तरमाह -
उपासनेति ।
मोक्षकामोऽसद्ब्रह्माभेदमारोप्य अहं ब्रह्मास्मीत्युपासीत इत्युपासनाविधिः, आदिशब्दाच्छ्रवणादयः । तत्कार्यपरत्वं वा वक्तव्यमित्यर्थः ।
ननु श्रुतं ब्रह्म विहायाश्रुतं कार्यपरत्वं किमर्थं वक्तव्यमिति तत्राह -
नहीति ।
परितः समन्तान्निश्चयेन स्थितं परिनिष्ठितं कृत्यनपेक्षम् । सिद्धमिति यावत् । तस्य प्रतिपादनमज्ञातस्य वेदेन ज्ञापनम् , तन्न सम्भवति, मानन्तरयोग्येऽर्थे वाक्यस्य संवादे सत्यनुवादकत्वात् , ‘अग्निर्हिमस्य भेषजम्’ इति वाक्यवत् । विसंवादे च बोधकत्वात् , ‘आदित्यो यूपः’ इति वाक्यवदित्यर्थः ।
सिद्धो न वेदार्थः, मानान्तरयोग्यत्वाद्घटवदित्युक्त्वा निष्फलत्वाच्च तथेत्याह -
तदिति ।
सिद्धज्ञापने हेयोपादेयागोचरे फलाभावाच्च तन्न सम्भवतीत्यर्थः । फलं हि सुखाव्याप्तिर्दुःखहानिश्च । तच्च प्रवृत्ति निवृत्तिभ्यां साध्यम् । ते चोपादेयस्य प्रवृत्तिप्रयत्नकार्यस्य हेयस्य निवृत्तिप्रयत्नकार्यस्य ज्ञानाभ्यां जायेते, न सिद्धज्ञानादिति भावः ।
तर्हि सिद्धबोधिवेदवादानां साफल्यं कथमित्याशङ्क्य ‘आम्नायस्य’ इत्यादिसङ्ग्रहवाक्यं विवृणोति -
अत एवेति ।
सिद्धवस्तुज्ञानात्फलाभावादेवेत्यर्थः । ‘देवैर्निरुद्धः सोऽग्निररोदीत्’ इति वाक्यस्याश्रुजत्वेन रजतस्य निन्दाद्वारा ‘बर्हिषि न देयं’ इति सफलनिषेधशेषत्ववत् वेदान्तानां विध्यादिशेषत्वं वाच्यमित्यर्थः ।
ननु तेषां मन्त्रवत्स्वातन्त्र्यमस्तु नार्थवादवद्विध्येकवाक्यत्वमित्याशङ्क्य दृष्टान्तासिद्धिमाह -
मन्त्राणां चेति ।
प्रथमाध्याये प्रमाणलक्षणेऽर्थवादचिन्तानन्तरं मन्त्रचिन्ता कृता ‘इषे त्वा’ इति मन्त्रे ‘छिनद्मि’ इत्यध्याहाराच्छाखाच्छेदनक्रियाप्रतीतेः, ‘अग्निर्मूर्धा’ इत्यादौ च क्रियासाधनदेवतादिप्रतीतेः मन्त्राः श्रुत्यादिभिः क्रतौ विनियुक्ताः, ते किमुच्चारणमात्रेणादृष्टं कुर्वन्तः क्रतावुपकुर्वन्ति उत दृष्टेनैवार्थस्मरणेनेति सन्देहे चिन्तादिनाप्यध्ययनकालावगतमन्त्रार्थस्य स्मृतिसम्भवाददृष्टार्था मन्त्रा इति प्राप्ते सिद्धान्तः - ‘अविशिष्टस्तु वाक्यार्थः’ इति लोकवेदयोर्वाक्यार्थस्याविशेषान्मन्त्रवाक्यानां दृष्टेनैव स्वार्थप्रकाशनेन क्रतूपकारकत्वसम्भवात् , दृष्टे सम्भवति अदृष्टकल्पनानुपपत्तेः, फलवदनुष्ठानापेक्षितेन क्रियातत्साधनस्मरणेन द्वारेण मन्त्राणां कर्माङ्गत्वम् । ‘मन्त्रैरेवार्थः स्मर्तव्यः’ इति नियमस्त्वदृष्टार्थ इति । तथा चार्थवादानां स्तुतिपदार्थद्वारा पदैकवाक्यत्वं विधिभिः, मन्त्राणां तु वाक्यार्थज्ञानद्वारा तैर्वाक्यैकवाक्यत्वमिति विभागः ।
नन्वस्तु कर्मप्रकरणस्थवाक्यानां विध्येकवाक्यत्वम् , वेदान्तानां तु सिद्धे प्रामाण्यं किं न स्यादिति तत्राह -
न क्वचिदिति ।
वेदान्ता विध्येकवाक्यत्वेनैवार्थवन्तः, सिद्धार्थावेदकत्वात् , मन्त्रार्थवादादिवदित्यर्थः ।
अन्यत्रादृष्टापि वेदान्तेषु कल्प्यतामिति तत्राह -
उपपन्ना वेति ।
नेत्यनुषङ्गः । सिद्धे फलाभावास्योक्तत्वादिति भावः ।
तर्हि ब्रह्मण्येव स्वार्थे विधिः कल्प्यतां कृतं वेदान्तानां विध्यन्तरशेषत्वेनेत्यत आह -
न चेति ।
ननु ‘दध्ना जुहोति’ इति सिद्धे दधनि विधिर्दृष्टस्तत्राह -
क्रियेति ।
दध्नः क्रियासाधनस्य प्रयुज्यमानतया साध्यत्वाद्विधेयता, निष्क्रियब्रह्मणः कथमप्यसाध्यत्वान्न विधेयत्वमित्यर्थः ।
भाट्टमतमुपसंहरति -
तस्मादिति ।
स्वयमेवारुचिं वदन्पक्षान्तरमाह -
अथेति ।
सिद्धान्तसूत्रं व्याचष्टे -
तुशब्द इति ।
तद्ब्रह्म वेदान्तप्रमाणकमिति प्रतिज्ञातेऽर्थे हेतुं पृच्छति -
कथमिति ।
हेतुमाह -
समिति ।
अन्वयतात्पर्यविषयत्वं तस्मादित्येव हेतुः । तात्पर्यस्य सम्यक्त्वमखण्डार्थविषयकत्वं सूचयितुं सम् - पदं प्रतिज्ञान्तर्गतमेव । तथा चाखण्डं ब्रह्म वेदान्तजप्रमाविषयः, वेदान्ततात्पर्यविषयत्वात् , यो यद्वाक्यतात्पर्यविषयः स तद्वाक्यप्रमेयः, यथा कर्मवाक्यप्रमेयो धर्म इति प्रयोगः । वाक्यार्थस्याखण्डत्वं - असंसृष्टत्वम् । वाक्यस्य चाखण्डार्थकत्वं - स्वपदोपस्थिता ये पदार्थास्तेषां यः संसर्गस्तद्गोचरप्रमाजनकत्वम् । न चेदमप्रसिद्धम् । प्रकृष्टप्रकाशश्चन्द्र इत्यादि लक्षणवाक्यानां लोके लक्षणया चन्द्रादिव्यक्तिमात्रप्रमाहेतुत्वात् । सर्वपदलक्षणा चाविरुद्धा सर्वैरर्थवादपदैरेकस्याः स्तुतेर्लक्ष्यत्वाङ्गीकारात् । तथा सत्यज्ञानादिपदैरखण्डं ब्रह्म भातीति न पक्षासिद्धिः । नापि हेत्वसिद्धिः, उपक्रमादिलिङ्गैर्वेदान्तानामद्वितीयाखण्डब्रह्मणि तात्पर्यनिर्णयात् ।
तत्र छान्दोग्यषष्ठे उपक्रमं दर्शयति -
सदेवेति ।
उद्दालकः पुत्रमुवाच - हे सोम्य प्रियदर्शन, इदं सर्वं जगत् , अग्रे उत्पत्तेः प्राक्काले सदबाधितं ब्रह्मैवासीत् । एवकारेण जगतः पृथक्सत्ता निषिध्यते । सजातीयविजातीयस्वगतभेदनिरासार्थं ‘एकमेवाद्वितीयम्’ इति पदत्रयम् । एवमद्वितीयं ब्रह्मोपक्रम्य ‘ऐतदात्म्यमिदं सर्वम्’ इत्युपसंहरति । इदमुपक्रमोपसंहारैकरूप्यं तात्पर्यलिङ्गम् , यथा ‘तत्त्वमसि’ इति नवकृत्वोऽभ्यासः । रूपादिहीनाद्वितीयब्रह्मणो मानान्तरायोग्यत्वादपूर्वत्वमुक्तम् - ‘अत्र वाव किल सत्सोम्य न निभालयसे’ इति । सङ्घाते स्थितं प्रत्यग्ब्रह्म न जानासीत्यर्थः । ‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये’ इति ब्रह्मज्ञानात्फलमुक्तं विदुषः । तस्य यावत्कालं देहो न विमोक्ष्यते तावदेव देहपातपर्यन्तो विलम्बः । अथ देहपातानन्तरं विद्वान् ब्रह्म सम्पत्स्यते । विदेहकैवल्यमनुभवतीत्यर्थः । ‘अनेन जीवेनात्मनानुप्रविश्य’ इत्याद्यद्वितीयज्ञानार्थोऽर्थवादः । मृदादिदृष्टान्तैः प्रकृत्यतिरेकेण विकारो नास्तीत्युपपत्तिरुक्ता ।
एवं षङ्विधानि तात्पर्यलिङ्गानि व्यस्तानि समस्तानि वा प्रतिवेदान्तं दृश्यन्त इत्यैतरेयोपक्रमवाक्यं पठति -
आत्मा वा इति ।
बृहदारण्यके मधुकाण्डोपसंहारवाक्यं सदात्मनो निर्विशेषत्वार्थमाह -
तदेतदिति ।
मायाभिर्बहुरूपं तद्ब्रह्म । एतदपरोक्षम् । अपूर्वं कारणशून्यम् । अनपरं कार्यरहितम् । अनन्तरं जात्यन्तरमस्य नास्तीत्यनन्तरम् । एकरसमित्यर्थः । अबाह्यमद्वितीयम् ।
तस्यापरोक्षत्वमुपपादयति -
अयमिति ।
सर्वमनुभवतीति सर्वानुभूः । चिन्मात्रमित्यर्थः ।
ऋग्यजुःसामवाक्यानुक्त्वा आथर्वणवाक्यमाह -
ब्रह्मैवेदमिति ।
यत्पुरस्तात्पूर्वदिग्वस्तुजातमिदमब्रह्मेव विदुषां भाति तदमृतं ब्रह्मैव वस्तु इत्यर्थः । आदिपदेन ‘सत्यं ज्ञानम्’ इत्यादिवाक्यानि गृह्यन्ते ।
नन्वस्तु ब्रह्मणस्तात्पर्यविषयत्वम् , वेदान्तानां कार्यमेवार्थः किं न स्यादिति तत्राह -
न चेति ।
वेदान्तानां ब्रह्मणि तात्पर्ये निश्चीयमाने कार्यार्थत्वं न युक्तं ‘यत्परः शब्दः स शब्दार्थः’ इति न्यायादित्यर्थः ।
यदुक्तमर्थवादन्यायेन वेदान्तानां कर्त्रादिस्तावकत्वमिति तत्राह -
न च तेषामिति ।
तेषां कर्मशेषस्तावकत्वं न भाति किन्तु ज्ञानद्वारा कर्म तत्साधननाशकत्वमेव । तत्तत्र विद्याकाले कः कर्ता केन करणेन कं विषयं पश्येत् इति श्रुतेरित्यर्थः । अर्थवादानां तु स्वार्थे फलाभावात्स्तुतिलक्षणतेति भावः ।
यदुक्तं सिद्धत्वेन मानान्तरवेद्यं ब्रह्म न वेदार्थ इति तत्राह -
न च परीति ।
’तत्त्वमसि’ इति शास्त्रमन्तरेणेति सम्बन्धः । धर्मो न वेदार्थः, साध्यत्वेन पाकवन्मानान्तरवेद्यत्वात् । यदि वेदं विना धर्मस्यानिर्णयान्न मानान्तरवेद्यता तदा ब्रह्मण्यपि तुल्यम् ।
यच्चोक्तं निष्फलत्वाद्ब्रह्म न वेदार्थ इति तदनूद्य परिहरति -
यत्त्वित्यादिना ।
रहितत्वाद्भिन्नत्वात् । ब्रह्मण इति शेषः ।
यदप्युक्तम् - ‘उपासनापरत्वं वेदान्तानाम्’ इति तत्र किं प्राणपञ्चाग्न्यादिवाक्यानामुत सर्वेषामिति । तत्राद्यमङ्गीकरोति -
देवतादीति ।
ज्येष्ठत्वादिगुणः फलं चादिशब्दार्थः । न द्वितीयः, विधिशून्यानां ‘सत्यं ज्ञानम्’ इत्यादीनां स्वार्थे फलवतामुपासनापरत्वकल्पनायोगात् ।
किञ्च तदर्थस्य ब्रह्मणस्तच्छेषत्वं ज्ञानात्प्रागूर्ध्वं वा । आद्ये, अध्यस्तगुणवतस्तस्य तच्छेषत्वेऽपि न द्वितीय इत्याह -
न तु तथेति ।
प्राणादिदेवतावदित्यर्थः ।
‘अहं ब्रह्मास्मि’ इत्येकत्वे ज्ञाते सति हेयोपादेयशून्यतया ब्रह्मात्मनः फलाभावात् , उपास्योपासकद्वैतज्ञानस्य कारणस्य नाशाच्च नोपासनाशेषत्वमित्याह -
एकत्व इति ।
द्वैतज्ञानस्य संस्कारबलात्पुनरुदये विधानमिति नेत्याह -
नहीति ।
दृढस्येति शेषः । भ्रान्तित्वानिश्चयो दार्ढ्यम् , संस्कारोत्थं तु भ्रान्तित्वेन निश्चितं न विधिनिमित्तम् ।
येनेति ।
उपासनायां कारणस्य सत्वेनेत्यर्थः ।
वेदप्रामाण्यस्य व्यापकं क्रीयार्थकत्वमनुवदति -
यद्यपीति ।
कर्मकाण्डेऽर्थवादादीनामित्यर्थः । तथा च व्यापकाभावाद्वेदान्तेषु व्याप्याभावानुमानमिति भावः ।
वेदान्ता न स्वार्थे मानम् , अक्रियार्थत्वात् ‘सोऽरोदीत्’ इत्यादिवदित्यनुमाने निष्फलार्थकत्वमुपाधिरित्याह -
तथापीति ।
अर्थवादानां निष्फलस्वार्थामानत्वेऽपीत्यर्थः । तद्विषयस्य तत्करणस्य । स्वार्थे ब्रह्मात्मनीति शेषः । सफलज्ञानकरणत्वेन वेदान्तानां स्वार्थे मानत्वसिद्धेर्न क्रियार्थकत्वं तद्व्यापकमिति भावः ।
ननु माभूद्वेदप्रामाण्यस्य व्यापकं क्रियार्थकत्वम् , व्याप्यं तु भविष्यति, तदभावाद्वेदान्तानां प्रामाण्यं दुर्ज्ञानमिति, नेत्याह -
न चेति ।
येन वेदप्रामाण्यं स्वस्यानुमानगम्यत्वेनान्यत्र क्वचिद्दृष्टं दृष्टान्तमपेक्षेत तदेव नास्तीत्यर्थः । चक्षुरादिवद्वेदस्य स्वतःप्रामाण्यज्ञानान्न तद्व्याप्तिलिङ्गाद्यपेक्षा । प्रामाण्यसंशये तु फलवदज्ञाताबाधितार्थतात्पर्यात्प्रामाण्यनिश्चयो न क्रियार्थत्वेन । कूपे पतेदिति वाक्ये व्यभिचारादिति भावः ।
वर्णकार्थमुपसंहरति -
तस्मादिति ।
समन्वयादित्यर्थः ।
विधिवाक्यानामपि फलवदज्ञातार्थत्वेन प्रामाण्यं तत्तुल्यं वेदान्तानामपीति स्थितम् । एवं पदानां सिद्धेऽर्थे व्युत्पत्तिमिच्छतां ब्रह्मनास्तिकानां मतम् , ब्रह्मणो मानान्तरायोग्यत्वात् , सफलत्वाच्च वेदान्तैकमेयत्वमित्युक्त्या निरस्तम् । सम्प्रति सर्वेषां पदानां कार्यान्वितार्थे शक्तिमिच्छतां विधिशेषत्वेन प्रत्यग्ब्रह्म वेदान्तैर्बोध्यते न स्वातन्त्र्येणेति वदतां वृत्तिकाराणां मतनिरासाय सूत्रस्य वर्णकान्तरमारभ्यते । तत्र वेदान्ताः किमुपासनाविधिशेषत्वेन ब्रह्म बोधयन्ति उत स्वातन्त्र्येणेति सिद्धे व्युत्पत्त्यभावभावाभ्यां संशये पूर्वपक्षमाह -
अत्रापर इति ।
ब्रह्मणो वेदान्तवेद्यत्वोक्तौ वृत्तिकाराः पूर्वपक्षयन्तीत्यर्थः । उपासनातो मुक्तिः पूर्वपक्षे, तत्त्वज्ञानादेवेति सिद्धान्ते फलम् । विधिर्नियोगः तस्य विषयः प्रतिपत्तिरुपासना ।
अस्याः को विषय इत्याकाङ्क्षायां सत्यादिवाक्यैर्विधिपरैरेव ब्रह्मसमर्प्यत इत्याह -
प्रतिपत्तीति ।
विधिविषयप्रतिपत्तिविषयतयेत्यर्थः ।
विधिपराद्वाक्यात्तच्छेषलाभे दृष्टान्तमाह -
यथेति ।
‘यूपे पशुं बध्नाति’ ‘आहवनीये जुहोति’ ‘इन्द्रं यजेत’ इति विधिषु के यूपादय इत्याकाङ्क्षायां ‘यूपं तक्षति, अष्टाश्रीकरोति’ इति तक्षणादिसंस्कृतं दारु यूपः । ‘अग्नीनादधीत’ इत्याधानसंस्कृतोऽग्निराहवनीयः । ‘वज्रहस्तः पुरन्दरः’ इति विधिपरैरेव वाक्यैः समर्प्यन्ते तद्वद्ब्रह्मेत्यर्थः । विधिपरवाक्यस्यापि अन्यार्थबोधित्वे वाक्यभेदः स्यादिति शङ्कानिरासार्थमपिशब्दः । मानान्तराज्ञातान्यपि शेषतयोच्यन्ते न प्रधानत्वेनेति न वाक्यभेदः । प्रधानार्थभेदस्यैव वाक्यभेदकत्वादिति भावः ।
ननूक्तषड्विधलिङ्गैस्तात्पर्यविषयस्य ब्रह्मणः कुतो विधिशेषत्वमिति शङ्कते -
कुत इति ।
वृद्धव्यवहारेण हि शास्त्रतात्पर्यनिश्चयः । वृद्धव्यवहारे च श्रोतुः प्रवृत्तिनिवृत्ती उद्दिश्यापूर्वप्रयोगो दृश्यते । अतः शास्त्रस्यापि ते एव प्रयोजने । ते च कार्यज्ञानजन्ये इति कार्यपरत्वं शास्त्रस्य । ततः कार्यशेषत्वं ब्रह्मण इत्याह -
प्रवृत्तीति ।
शास्त्रस्य नियोगपरत्वे वृद्धसम्मतिमाह -
न तथाहीत्यादिना ।
क्रिया, कार्यम् , नियोगो, विधिः धर्मोऽपूर्वमित्यनर्थान्तरम् ।
को वेदार्थ इत्याकाङ्क्षायां शाबरभाष्यकृतोक्तम् -
दृष्टो हीति ।
तस्य वेदस्य ।
कार्यं वेदार्थ इत्यत्र चोदनासूत्रस्थं भाष्यमाह -
चोदनेति ।
क्रियाया नियोगस्य ज्ञानद्वारा प्रवर्तकं वाक्यं चोदनेत्युच्यत इत्यर्थः ।
शबरस्वामिसम्मतिमुक्त्वा जैमिनिसम्मतिमाह -
तस्य ज्ञानमिति ।
तस्य धर्मस्य ज्ञापकमपौरुषेयविधिवाक्यमुपदेशः । तस्य धर्मेणाव्यतिरेकादित्यर्थः ।
पदानां कार्यान्वितार्थे शक्तिरित्यत्र सूत्रं पठति -
तद्भूतानामिति ।
तत्तत्र वेदे भूतानां सिद्धार्थनिष्ठानां पदानां क्रियार्थेन कार्यवाचिना लिङादिपदेन समाम्नायः सहोच्चारणं कर्तव्यम् । पदार्थज्ञानस्य वाक्यार्थरूपकार्यधीनिमित्तत्वादित्यर्थः । कार्यान्वितार्थे शक्तानि पदानि कार्यवाचिपदेन सह पदार्थस्मृतिद्वारा कार्यमेव वाक्यार्थं बोधयन्तीति भावः ।
फलितमाह -
अत इति ।
यतो वृद्धा एवमाहुः, अतो विधिनिषेधवाक्यमेव शास्त्रम् । अर्थवादादिकं तु तच्छेषतयोपक्षीणम् । तेन कर्मशास्त्रेण सामान्यं शास्त्रत्वम् । तस्माद्वेदान्तानां कार्यपरत्वेनैव अर्थवत्वं स्यादित्यर्थः ।
ननु वेदान्तेषु नियोज्यस्य विधेयस्य चादर्शनात्कथं कार्यधीरिति । तत्राह -
सति चेति ।
ननु धर्मब्रह्मजिज्ञासासूत्रकाराभ्यामिह काण्डद्वयेऽर्थभेद उक्तः, एककार्यार्थत्वे शास्त्रभेदानुपपत्तेः । तत्र काण्डद्वये जिज्ञास्यभेदे सति फलवैलक्षण्यं वाच्यम् । तथा च न मुक्तिफलाय ज्ञानस्य विधेयता, मुक्तेर्विधेयक्रियाजन्यत्वे कर्मफलादविशेषप्रसङ्गादविशेषे जिज्ञास्यभेदासिद्धेः । अतः कर्मफलविलक्षणत्वान्नित्यसिद्धमुक्तेस्तद्व्यञ्जकज्ञानविधिरयुक्त इत्याशङ्कते -
नन्विहेति ।
मुक्तेः कर्मफलाद्वैलक्षण्यमसिद्धमिति तदर्थं ज्ञानं विधेयम् ।
न च तर्हि सफलं कार्यमेव वेदान्तेष्वपि जिज्ञास्यमिति तद्भेदासिद्धिरिति वाच्यम् , इष्टत्वात् । न च ब्रह्मणो जिज्ञास्यत्वसूत्रविरोधः, ज्ञानविधिशेषत्वेन सूत्रकृता ब्रह्मप्रतिपादनादिति परिहरति -
नेति ।
ब्रह्मणो विधिप्रयुक्तत्वं स्फुटयति -
आत्मा वा इति ।
‘ब्रह्म वेद’ इत्यत्र ब्रह्मभावकामो ब्रह्मवेदनं कुर्यादिति विधिः परिणम्यत इति द्रष्टव्यम् । लोकं ज्ञानस्वरूपम् ।
वेदान्तानेवार्थतो दर्शयति -
नित्य इति ।
ननु किं विधिफलमिति तदाह -
तदुपासनादिति ।
प्रत्यग्ब्रह्मोपासनात् ‘ब्रह्मविदाप्नोति परम्’ इति शास्त्रोक्तो मोक्षः स्वर्गवल्लोकाप्रसिद्धः फलमित्यर्थः ।
ब्रह्मणः कर्तव्योपासनाविषयकविधिशेषत्वानङ्गीकारे बाधकमाह -
कर्तव्येति ।
विध्यसम्बद्धसिद्धबोधे प्रवृत्त्यादिफलाभावाद्वेदान्तानां वैफल्यं स्यादित्यर्थः । नन्विति शङ्का स्पष्टार्था ।
दृष्टान्तवैषम्येण परिहरति -
स्यादिति ।
एतदर्थवत्वमेवंचेत्स्यादित्यर्थः ।
एवं शब्दार्थमाह -
यदिति ।
किञ्च यदि ज्ञानादेव मुक्तिस्तदा श्रवणजन्यज्ञानानन्तरं मननादिविधिर्न स्यात् , तद्विधेश्च कार्यसाध्या मुक्तिरित्याह -
श्रोतव्य इति ।
शब्दानां कार्यान्वितशक्तेः, प्रवृत्त्यादिफलस्यैव शास्त्रत्वात् , सिद्धे फलाभावात् , मननादिविधेश्च कार्यपरा वेदान्ता इति पूर्वपक्षमुपसंहरति -
तस्मादिति ।
वेदान्ता न विधिपराः स्वार्थे फलवत्वे सति नियोज्यविधुरत्वात् , नायं सर्प इति वाक्यवत् ।
‘सोऽरोदीत्’ ‘स्वर्गकामो यजेत’ इति वाक्ययोर्निरासाय हेतौ विशेषणद्वयमिति सिद्धान्तयति -
अत्रेति ।
यदुक्तं मोक्षकामस्य नियोज्यस्य ज्ञानं विधेयमिति, तन्नेत्याह -
नेति ।
मोक्षो न विधिजन्यः, कर्मफलविलक्षणत्वात् , आत्मवदित्यर्थः ।
उक्तहेतुज्ञानाय कर्मतत्फले प्रपञ्चयति -
शारीरमित्यादिना वर्णितं संसाररूपमनुवदति इत्यन्तेन ।
अथ वेदाध्ययनानन्तरम् , अतो - वेदस्य फलवदर्थपरत्वात् , धर्मनिर्णयाय कर्मवाक्यविचारः कर्तव्य इति सूत्रार्थः ।
न केवलं धर्माख्यं कर्म किन्तु अधर्मोऽपीत्याह -
अधर्मोऽपीति ।
निषेधवाक्यप्रमाणत्वादित्यर्थः ।
कर्मोक्त्वा फलमाह -
तयोरिति ।
मोक्षस्तु अतीन्द्रियो विशोकः शरीराद्यभोग्यो विषयाद्यजन्योऽनात्मवित्स्वप्रसिद्ध इति वैलक्षण्यज्ञानाय प्रत्यक्षादीनि विशेषणानि ।
सामान्येन कर्मफलमुक्त्वा धर्मफलं पृथक्प्रपञ्चयति -
मनुष्यत्वादीति ।
‘स एको मानुष आनन्दः’ ततः शतगुणो गन्धर्वादीनामिति श्रुतेरनुभवानुसारित्वमनुशब्दार्थः ।
ततश्च ।
सुखतारतम्यादित्यर्थः । मोक्षस्तु निरतिशयः, तत्साधनं च तत्वज्ञानमेकरूपमिति वैलक्षण्यम् ।
किं च साधनचतुष्टयसम्पन्न एकरूप एव मोक्षविद्याधिकारी, कर्मणि तु नानाविध इति वैलक्षण्यमाह -
धर्मेति ।
गम्यते न केवलं किं तु प्रसिद्धं चेत्यर्थः । अर्थित्वं फलकामित्वम् । सामर्थ्यं लौकिकं पुत्रादि । आदिपदाद्विद्वत्त्वं शास्त्रानिन्दितत्वं च ।
किं च कर्मफलं मार्गप्राप्यम् , मोक्षस्तु नित्याप्त इति भेदमाह -
तथेति ।
उपासनायां चित्तस्थैर्यप्रकर्षादर्चिरादिमार्गेण ब्रह्मलोकगमनं ‘तेऽर्चिषम्’ इत्यादिना श्रूयत इत्यर्थः ।
‘अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम् ।
आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते ॥
वापीकूपतडागादि देवतायतनानि च ।
अन्नप्रदानमारामः पूर्तमित्यभिधीयते ॥
शरणागतसन्त्राणं भूतानां चाप्यहिंसनम् ।
बहिर्वेदि च यद्दानं दत्तमित्यभिधीयते ॥ ’
तत्रापि ।
चन्द्रलोकेऽपीत्यर्थः । सम्पतति गच्छति अस्माल्लोकादमुं लोकमनेनेति सम्पातः कर्म । यावत्कर्म भोक्तव्यं तावत्स्थित्वा पुनरायान्तीत्यर्थः ।
मनुष्यत्वादूर्ध्वङ्गतेषु सुखस्य तारतम्यमुक्त्वा अधोगतेषु तदाह -
तथेति ।
इदानीं दुःखतद्धेतुतदनुष्ठायिनां तारतम्यं वदन्नधर्मफलं प्रपञ्चयति -
तथोर्ध्वमिति ।
द्विविधं कर्मफलं मोक्षस्य तद्वैवलक्षण्यज्ञानाय प्रपञ्चितमुपसंहरति -
एवमिति ।
अस्मिताकामक्रोधभयान्यादिशब्दार्थः । ‘ते तं मुक्त्वा स्वर्गलोकं विशालम्’ इत्याद्या स्मृतिः । काष्ठोपचयाज्ज्वालोपचयदर्शनात् , फलतारतम्येन साधनतारतम्यानुमानं न्यायः ।
श्रुतिमाह -
तथाचेति ।
मोक्षो न कर्मफलम् , कर्मफलविरुद्धातीन्द्रियत्वविशोकत्वशरीराद्यभोग्यत्वादिधर्मवत्वात् , व्यतिरेकेण स्वर्गादिवदिति न्यायानुग्राह्यां श्रुतिमाह -
अशरीरमिति ।
वावेत्यवधारणे । तत्त्वतो विदेहं सन्तमात्मानं वैषयिके सुखदुःखे नैव स्पृशत इत्यर्थः ।
मोक्षश्चेदुपासनारूपधर्मफलम् , तदेव प्रियमस्तीति तन्निषेधायोग इत्याह -
धर्मकार्यत्वे हीति ।
ननु प्रियं नाम वैषयिकं सुखं तन्निषिध्यते, मोक्षस्तु धर्मफलमेव, कर्मणां विचित्रदानसामर्थ्यादिति शङ्कते -
अशरीरत्वमेवेति ।
आत्मनो देहासङ्गित्वमशरीरत्वम् , तस्यानादित्वान्न कर्मसाध्यतेत्याह -
नेति ।
अशरीरं स्थूलदेहशून्यम् , देहेष्वनेकेषु अनित्येषु एकं नित्यमवस्थितम् , महान्तं व्यापिनम् ।
आपेक्षिकमहत्त्वं वारयति -
विभुमिति ।
तमात्मानं ज्ञात्वा धीरः सन् शोकोपलक्षितं संसारं नानुभवतीत्यर्थः ।
सूक्ष्मदेहाभावे श्रुतिमाह -
अप्राण इति ।
प्राणमनसोः क्रियाज्ञानशक्त्योर्निषेधात् , तदधीनानां कर्मज्ञानेन्द्रियाणां निषेधो हि यतः, अतः शुद्ध इत्यर्थः । देहद्वयाभावे श्रुतिः ‘असङ्गो हि’ इति ।
निर्देहात्मस्वरूपमोक्षस्यानादिभावत्वे सिद्धे फलितमाह -
अत एवेति ।
नित्यत्वेऽपि परिणामितया धर्मकार्यत्वं मोक्षस्येत्याशङ्क्य नित्यं द्वेधा विभजते -
तत्र किञ्चिदिति ।
नित्यवस्तुमध्य इत्यर्थः । परिणामि च तन्नित्यं चेति परिणामिनित्यम् ।
आत्मा तु कूटस्थनित्य इति न कर्मसाध्य इत्याह -
इदं त्विति ।
परिणामिनो नित्यत्वं प्रत्यभिज्ञाकल्पितं मिथ्यैव । कूटस्थस्य तु नाशकाभावान्नित्यत्वं पारमार्थिकम् ।
कूटस्थत्वसिध्यर्थं परिस्पन्दाभावमाह -
व्योमवदिति ।
परिणामाभावमाह -
सर्वविक्रियारहितमिति ।
फलानपेक्षित्वान्न फलार्थापि क्रियेत्याह -
नित्यतृप्तमिति ।
तृप्तिरनपेक्षत्वम् , विशोकं सुखं वा । निरवयवत्वान्न क्रिया । तस्य भानार्थमपि न क्रिया, स्वयञ्ज्योतिष्ट्वात् । अतः कूटस्थत्वान्न कर्मसाध्यो मोक्ष इत्युक्तम् ।
कर्मतत्कार्यासङ्गित्वाच्च तथेत्याह -
यत्रेति ।
कालानवच्छिन्नत्वाच्चेत्याह -
कालेति ।
कालत्रयं च नोपावर्तत इति योग्यतया सम्बन्धनीयम् ।
धर्माद्यनवच्छेदे मानमाह -
अन्यत्रेति ।
अन्यदित्यर्थः । कृतात्कार्यात् , अकृताच्च कारणात् , भूताद्भव्याच्च, चकाराद्वर्तमानाच्च अन्यद्यत्पश्यसि तद्वदेत्यर्थः ।
ननु उक्ताः श्रुतयो ब्रह्मणः कूटस्थासङ्गित्वं वदन्तु, मोक्षस्य नियोगफलत्वं किं न स्यादिति, तत्राह -
अत इति ।
तत्कैवल्यं ब्रह्मैव । कर्मफलविलक्षणत्वादित्यर्थः । ब्रह्माभेदान्मोक्षस्य कूटस्थत्वं धर्माद्यसङ्गित्वं चेति भावः । यद्वा तज्जिज्ञास्यं तद्ब्रह्म अतः पृथग्जिज्ञास्यत्वाद्धर्माद्यस्पृष्टमित्यर्थः । अतः शब्दाभावपाठेऽप्ययमेवार्थः । ब्रह्मणो विधिस्पर्शो शास्त्रपृथक्त्वं न स्यात् , कार्यविलक्षणानधिगतविषयलाभात् । नहि ब्रह्मात्मैक्यं भेदप्रमाणे जाग्रति विधिपरवाक्याल्लब्धुं शक्यम् । न वा तद्विना विधेरनुपपत्तिः । योषिदग्न्यैक्योपास्तिविधिदर्शनादिति भावः ।
अथवा मोक्षस्य नियोगासाध्यत्वे फलितं सूत्रार्थमाह -
अत इति ।
यदत्र जिज्ञास्यं ब्रह्म तत्स्वतन्त्रमेव वेदान्तैरुपदिश्यते । समन्वयादित्यर्थः ।
विपक्षे दण्डं पातयति -
तद्यदीति ।
तत्रैवं सतीति ।
मोक्षे साध्यत्वेनानित्ये सतीत्यर्थः ।
अत इति ।
मुक्तेर्नियोगासाध्यत्वेन नियोज्यालाभात् । कर्तव्यनियोगाभावादित्यर्थः ।
प्रदीपात्तमोनिवृत्तिवज्ज्ञानादज्ञाननिवृत्तिरूपमोक्षस्य दृष्टफलत्वाच्च न नियोगसाध्यत्वमित्याह -
अपिचेति ।
यो ब्रह्माहमिति वेद स ब्रह्मैव भवति । परं कारणमवरं कार्यं तद्रूपे तदधिष्ठाने तस्मिन्दृष्टे सति अस्य द्रष्टुरनारब्धफलानि कर्माणि नश्यन्ति । ब्रह्मणः स्वरूपमानन्दं विद्वान्निर्भयो भवति, द्वितीयाभावात् । अभयं ब्रह्म प्राप्तोऽसि, अज्ञानहानात्तज्जीवाख्यं ब्रह्म गुरूपदेशादात्मानमेव अहं ब्रह्मास्मीत्यवेत् विदितवत् । तस्माद्वेदनात्तद्ब्रह्म पूर्णमभवत् । परिच्छेदभ्रान्तिहानादेकत्वम् , अहं ब्रह्म इत्यनुभवतस्तत्रानुभवकाले मोहशोकौ न स्त इति श्रुतीनामर्थः ।
तासां तात्पर्यमाह -
ब्रह्मेति ।
विद्यातत्फलयोर्मध्य इत्यर्थः । मोक्षस्य विधिफलत्वे स्वर्गादिवत्कालान्तरभावित्वं स्यात् , तथा च श्रुतिबाध इति भावः ।
इतश्च मोक्षो वैधो नेत्याह -
तथेति ।
तद्ब्रह्मैतत्प्रत्यगस्मीति पश्यन् तस्माज्ज्ञानात् वामदेवो मुनीन्द्रः शुद्धं ब्रह्म प्रतिपेदे ह तत्र ज्ञाने तिष्ठन् दृष्टवानात्ममन्त्रान् स्वस्य सर्वात्मत्वप्रकाशकान् ‘अहं मनुः’ इत्यादीन्ददर्शेत्यर्थः ।
यद्यपि स्थितिर्गानक्रियाया लक्षणम् , ब्रह्मदर्शनं तु ब्रह्मप्रतिपत्तिक्रियाया हेतुरिति वैषम्यमस्ति तथापि ‘लक्षणहेत्वोः क्रियायाः’ इति सूत्रेण क्रियां प्रति लक्षणहेत्वोरर्थयोर्वर्तमानाद्धातोः परस्य लटः शतृशानचावादेशौ भवत इति विहितशतृप्रत्ययसामर्थ्यात्तिष्ठन्गायति इत्युक्ते तत्कर्तृकं कार्यान्तरं मध्ये न भातीत्येतावता पश्यन् प्रतिपेदे इत्यस्य दृष्टान्तमाह -
यथेति ।
किं च ज्ञानादज्ञाननिवृत्तिः श्रूयते । ज्ञानस्य विधेयत्वे कर्मत्वादविद्यानिवर्तकत्वं न युक्तम् , अतो बोधका एव वेदान्ता न विधायका इत्याह -
त्वं हीति ।
भारद्वाजादयः षडृषयः पिप्पलादं गुरुं पादयोः प्रणम्य ऊचिरे - त्वं खल्वस्माकं पिता । यस्त्वमविद्यामहोदधेः परं पुनरावृत्तिशून्यं पारं ब्रह्म विद्याप्लवेनास्मांस्तारयसि प्रापयसि । ज्ञानेनाज्ञानं नाशयसीति यावत् ।
प्रश्नवाक्यमुक्त्वा छान्दोग्यमाह -
श्रुतमिति ।
अत्र ‘तारयतु’ इत्यन्तमुपक्रमस्थम् , शेषमुपसंहारस्थमिति भेदः । आत्मविच्छोकं तरतीति भगवत्तुल्येभ्यो मया श्रुतमेव हि न दृष्टम् , सोऽहमज्ञत्वात् हे भगवः, शोचामि, तं शोचन्तं मां भगवानेव ज्ञानप्लवेन शोकसागरस्य परं पारं प्रापयत्विति नारदेनोक्तः सनत्कुमारस्तस्मै तपसा दग्धकिल्बिषाय नारदाय तमसः शोकनिदानाज्ञानस्य ज्ञानेन निवृत्तिरूपं पारं ब्रह्म दर्शितवानित्यर्थः । ‘एतद्यो वेदसोऽविद्याग्रन्थिं विकिरति’ इति वाक्यमादिशब्दार्थः ।
एवं श्रुतेस्तत्त्वप्रमा मुक्तिहेतुर्न कर्मेत्युक्तम् । तत्राक्षपादगौतममुनिसंमतिमाह -
तथा चेति ।
गौरोऽहमिति मिथ्याज्ञानस्यापाये रागद्वेषमोहादिदोषाणां नाशः, दोषापायाद्धर्माधर्मस्वरूपप्रवृत्तेरपायः, प्रवृत्यपायात्पुनर्देहप्राप्तिरूपजन्मापायः, एवं पाठक्रमेणोत्तरोत्तरस्य हेतुनाशान्नाशे सति तस्य प्रवृत्तिरूपहेतोरनन्तरस्य कार्यस्य जन्मनोऽपायाद्दुःखध्वंसरूपोऽपवर्गो भवतीत्यर्थः ।
ननु पूर्वसूत्रे ‘तत्त्वज्ञानान्निःश्रेयसाधिगमः’ इत्युक्ते सतीतरपदार्थभिन्नात्मतत्त्वज्ञानं कथं मोक्षं साधयतीत्याकाङ्क्षायां मिथ्याज्ञाननिवृत्तिद्वारेणेति वक्तुमिदं सूत्रं प्रवृत्तम् । तथा च भिन्नात्मज्ञानान्मुक्तिं वदत्सूत्रं सम्मतं चेत्परमतानुज्ञा स्यादित्यत आह -
मिथ्येति ।
तत्त्वज्ञानान्मुक्तिरित्यंशे सम्मतिरुक्ता भेदज्ञानं तु ‘यत्र हि द्वैतमिव भवति’ इति श्रुत्या भ्रान्तित्वात् ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ इति श्रुत्या अनर्थहेतुत्वाच्च न मुक्तिहेतुरिति भावः ।
ननु ब्रह्मात्मैकत्वविज्ञानमपि भेदज्ञानवन्न प्रमा, सम्पदादिरूपत्वेन भ्रान्तित्वादित्यत आह -
न चेदमित्यादिना ।
अल्पालम्बनतिरस्कारेणोत्कृष्टवस्त्वभेदध्यानं सम्पत् , यथा मनःस्ववृत्त्यानन्त्यादनन्तम् , तत उत्कृष्टा विश्वेदेवा अप्यनन्ता इत्यनन्तत्वसाम्यात् विश्वेदेवा एव मन इति सम्पत्तयानन्तफलप्राप्तिर्भवति तथा चेतनत्वसाम्याज्जीवे ब्रह्माभेदः सम्पदिति न चेत्यर्थः ।
आलम्बनस्य प्राधान्येन ध्यानं प्रतीकोपास्तिरध्यासः । यथा ब्रह्मदृष्ट्या मनस आदित्यस्य वा । तथा अहं ब्रह्मेति ज्ञानमध्यासो नेत्याह -
न चेति ।
आदेश उपदेशः ।
क्रियाविशेषो विशिष्टक्रिया तथा योगो निमित्तं यस्य ध्यानस्य तत्तथा । यथा प्रलयकाले वायुरग्न्यादीन्संवृणोति संहरतीति संवर्गः, स्वापकाले प्राणो वागादीन्संहरतीति संहारक्रियायोगात्संवर्ग इति ध्यानं छान्दोग्ये विहितम् , तथा वृद्धिक्रियायोगाज्जीवो ब्रह्मेति ज्ञानमिति नेत्याह -
नापीति ।
यथा ‘पत्न्यवेक्षितमाज्यं भवति’ इति उपांशुयाजाद्यङ्गस्याज्यस्य संस्कारकमवेक्षणं विहितं तथा कर्मणि कर्तृत्वेनाङ्गस्यात्मनः संस्कारार्थं ब्रह्मज्ञानं नेत्याह -
नाप्याज्येति ।
प्रतिज्ञाचतुष्टये हेतुमाह -
सम्पदादीति ।
उपक्रमादिलिङ्गैर्ब्रह्मात्मैकत्ववस्तुनि प्रमितिहेतुर्यः समानाधिकरणवाक्यानां पदनिष्ठः समन्वयस्तात्पर्यं निश्चितं तत्पीड्येत । किं च एकत्वज्ञानादाज्ञानिकहृदयस्यान्तःकरणस्य यो रागादिग्रन्थिश्चिन्मयस्तादात्म्यरूपाहङ्कारग्रन्थिर्वा नश्यतीत्यज्ञाननिवृत्तिफलवाक्यबाधः स्यात् , सम्पदादिज्ञानस्याप्रमात्वेनाज्ञानानिवर्तकत्वात् । किञ्च जीवस्य ब्रह्मत्वसम्पदा कथं तद्भावः । पूर्वरूपे स्थिते नष्टे वान्यस्यान्यात्मतायोगात् । तस्मान्न सम्पदादिरूपमित्यर्थः ।
सम्पदादिरूपत्वाभावे फलितमाह -
अत इति ।
प्रमात्वान्न कृतिसाध्या किं तर्हि नित्यैव । न प्रमाणसाध्येत्यर्थः ।
उक्तरीत्या सिद्धब्रह्मरूपमोक्षस्य कार्यसाध्यत्वं तज्ज्ञानस्य नियोगविषयत्वं च कल्पयितुमशक्यं कृत्यसाध्यत्वादित्याह -
एवंभूतस्येति ।
ननु ब्रह्म कार्याङ्गम् , कारकत्वात्पत्न्यवेक्षणकर्मकारकाज्यवदिति चेत् , किं ज्ञाने ब्रह्मणः कर्मकारकत्वमुतोपासनायाम् । नाद्य इत्याह -
न चेति ।
शाब्दज्ञानं विदिक्रियाशब्दार्थः - विदितं कार्यमविदितं कारणं तस्मादधि अन्यदित्यर्थः । येनात्मना इदं सर्वं दृश्यं लोको जानाति तं केन करणेन जानीयात् । तस्मादविषय आत्मेत्यर्थः ।
न द्वितीय इत्याह -
तथेति ।
‘यन्मनसा न मनुते’ इति श्रुत्या लोको मनसा यद्ब्रह्म न जानातीत्यविषयत्वमुक्त्वा तदेवावेद्यं ब्रह्म त्वं विद्धि । तत्तूपाधिविशिष्टं देवतादिकमित्युपासते जना नेदं ब्रह्मेत्यर्थः ।
ब्रह्मणः शाब्दबोधाविषयत्वे प्रतिज्ञाहानिरिति शङ्कते -
अविषयत्व इति ।
वेदान्तजन्यवृत्तिकृताविद्यानिवृत्तिफलशालितया शास्त्रप्रमाणकत्वं वृत्तिविषयत्वेऽपि स्वप्रकाशब्रह्मणो वृत्त्यभिव्यक्तस्फुरणाविषयत्वादप्रमेयत्वमिति परिहरति -
नेति ।
परत्वात्फलत्वादित्यर्थः । निवृत्तिरूपब्रह्मतात्पर्यादिति वार्थः ।
उक्तं विवृणोति -
नहीति ।
चिद्विषयत्वमिदन्त्वम् । अविषयता अनिदन्तया ।
अदृश्यत्वे श्रुतिमाह -
तथा चेति ।
यस्य ब्रह्मामतं चैतन्यविषय इति निश्चयस्तेन सम्यगवगतम् । यस्य त्वज्ञस्य ब्रह्म चैतन्यविषय इति मतं स न वेद ।
उक्तमेव दार्ढ्यार्थमनुवदति -
अविज्ञातमिति ।
अविषयतया ब्रह्म विजानतामविज्ञातमदृश्यमिति पक्षः । अज्ञानां तु ब्रह्म विज्ञातं दृश्यमिति पक्ष इत्यर्थः ।
दृष्टेर्द्रष्टारं चाक्षुषमनोवृत्तेः साक्षिणम् , अनया दृश्यया दृष्ट्या न पश्येर्विज्ञातेर्बुद्धिवृत्तेर्निश्चयरूपायाः साक्षिणं तथा न विषयीकुर्यादित्याह -
नेति ।
नन्वविद्यादिनिवर्तकत्वेन शास्त्रस्य प्रामाण्येऽपि निवृत्तेरागन्तुकत्वान्मोक्षस्यानित्यत्वं स्यादिति नेत्याह -
अत इति ।
तत्त्वज्ञानादित्यर्थः । ध्वंसस्य नित्यत्वादात्मरूपत्वाच्च नानित्यत्वप्रसङ्ग इत्यर्थः ।
उत्पत्तिविकाराप्तिसंस्काररूपं चतुर्विधमेव क्रियाफलं तद्भिन्नत्वान्मोक्षस्य नोपासनासाध्यत्वमित्याह -
यस्य तु इत्यादिना तस्माज्ज्ञानमेकं मुक्त्वा इत्यन्तेन ।
तथा उत्पाद्यत्ववत्विकार्यत्वे चापेक्षत इति युक्तमित्यन्वयः ।
दूषयति -
तयोरिति ।
स्थितस्यावस्थान्तरं विकारः ।
नन्वनित्यत्वनिरासाय क्रियया स्थितस्यैव ब्रह्मणो ग्रामवदाप्तिरस्तु, नेत्याह -
न चेति ।
ब्रह्म जीवाभिन्नं न वा । उभयथाप्याप्तत्वान्न क्रियापेक्षेत्याह -
स्वात्मेत्यादिना ।
यथा व्रीहीणां संस्कार्यत्वेन प्रोक्षणापेक्षा तथा मोक्षस्य नेत्याह -
नापीत्यादिना ।
गुणाधानं व्रीहिषु प्रोक्षणादिना, क्षालनादिना वस्त्रादौ मलापनयः ।
शङ्कते -
स्वात्मधर्म इति ।
ब्रह्मात्मस्वरूप एव मोक्षोऽनाद्यविद्यामलावृत उपासनया मले नष्टेऽभिव्यज्यत इत्यत्र दृष्टान्तः -
यथेति ।
संस्कारो मलनाशः । किमात्मनि मलः सत्यः कल्पितो वा । द्वितीये ज्ञानादेव तन्नाशो न क्रियया । आद्ये क्रिया किमात्मनिष्ठा अन्यनिष्ठा वा । नाद्य इत्याह -
न, क्रियेति ।
अनुपपत्तिं स्फुटयति -
यदिति ।
क्रिया हि स्वाश्रये संयोगादिविकारमकुर्वती न जायत इत्यर्थः । तच्च वाक्यबाधनम् ।
न द्वितीय इत्याह -
अन्येति ।
अविषयत्वात् । क्रियाश्रयद्रव्यासंयोगित्वादिति यावत् । दर्पणं तु सावयवं क्रियाश्रयेष्टकाचूर्णादिद्रव्यसंयोगित्वात्संस्क्रियत इति भावः ।
अन्यक्रिययान्यो न संस्क्रियत इत्यत्र व्यभिचारं शङ्कते -
नन्विति ।
आत्मनो मूलाविद्याप्रतिबिम्बितत्वेन गृहीतस्य नरोऽहमिति भ्रान्त्या देहतादात्म्यमापन्नस्य क्रियाश्रयत्वभ्रान्त्या संस्कार्यत्वभ्रमान्न व्यभिचार इत्याह -
नेति ।
कश्चिदिति ।
अनिश्चितब्रह्मस्वरूप इत्यर्थः । यत्रात्मनि विषये आरोग्यबुद्धिरुत्पद्यते तस्य देहसंहतस्यैवारोग्यफलमित्यन्वयः ।
ननु देहाभिन्नस्य कथं संस्कारः, तस्यामुष्मिकफलभोक्तृत्वायोगादित्यत आह -
तेनेति ।
देहसंहतेनैवान्तःकरणप्रतिबिम्बात्मना कर्ताहमिति भासमानेन प्रत्ययाः कामादयो मनस्तादात्म्यादस्य सन्तीति प्रत्ययिना क्रियाफलं भुज्यत इत्यर्थः । मनोविशिष्टस्यामुष्मिकभोक्तुः संस्कारो युक्त इति भावः ।
विशिष्टस्य भोक्तृत्वं न केवलस्य साक्षिण इत्यत्र मानमाह -
तयोरिति ।
प्रमातृसाक्षिणोर्मध्ये सत्त्वसंसर्गमात्रेण कल्पितकर्तृत्वादिमान् प्रमाता पिप्पलं कर्मफलं भुङ्क्ते, स एव शोधितत्वेनान्यः साक्षितया प्रकाशत इत्यर्थः । आत्मा देहः । देहादियुक्तं प्रमात्रात्मानमित्यर्थः ।
एवं सोपाधिकस्य चिद्धातोर्मिथ्यासंस्कार्यत्वमुक्त्वा निरुपाधिकस्यासंस्कार्यत्वे मानमाह -
एक इति ।
सर्वभूतेष्वद्वितीय एको देवः स्वप्रकाशः ।
तथापि मायावृतत्वान्न प्रकाशत इत्याह -
गूढ इति ।
ननु जीवेनासम्बन्धाद्भिन्नत्वाद्वा देवस्याभानं न तु मायागूहनादिति, नेत्याह -
सर्वव्यापी सर्वभूतान्तरात्मेति ।
देवस्य विभुत्वात्सर्वप्राणिप्रत्यक्त्वाच्चावरणादेवाभानमित्यर्थः । प्रत्यक्त्वे कर्तृत्वं स्यादिति चेन्न, कर्माध्यक्षः । क्रियासाक्षीत्यर्थः । तर्हि साक्ष्यमस्तीति द्वैतापत्तिः । न सर्वभूतानामधिष्ठानं भूत्वा साक्षी भवति । साक्ष्यमधिष्ठाने साक्षिणि कल्पितमिति भावः ।
साक्षिशब्दार्थमाह -
चेता केवल इति ।
बोद्धृत्वे सति अकर्ता साक्षीति लोकप्रसिद्धम् । चकारो दोषाभावसमुच्चयार्थः । निर्गुणत्वान्निर्दोषत्वाच्च गुणो दोषनाशो वा संस्कारो नेत्यर्थः । ‘सः’ इत्युपक्रमाच्छुक्रादिशब्दाः पुंस्त्वेन वाच्याः । स एव आत्मा परि सर्वमगात् व्याप्तः, शुक्रो दीप्तिमान् , अकायो लिङ्गशून्यः, अव्रणोऽक्षतः, अस्नाविरः शिराविधुरः अनश्वर इति वा । आभ्यां पदाभ्यां स्थूलदेहशून्यत्वमुक्तम् । शुद्धो रागादिमलशून्यः । अपापविद्धः पुण्यपापाभ्यामसंस्पृष्ट इत्यर्थः ।
अत इति ।
उत्पत्त्याप्तिविकारसंस्कारेभ्योऽन्यत्पञ्चमं क्रियाफलं नास्ति, यन्मोक्षस्य क्रियासाध्यत्वे द्वारं भवेदित्यर्थः ।
ननु मोक्षस्यासाध्यत्वे शास्त्रारम्भो वृथा । न । ज्ञानार्थत्वादित्याह -
तस्मादिति ।
द्वाराभावादित्यर्थः ।
व्याघातं शङ्कते -
नन्विति ।
तथा च मोक्षे क्रियानुप्रवेशो नास्तीति व्याहतमिति भावः ।
मानसमपि ज्ञानं न विधियोग्या क्रिया, वस्तुतन्त्रत्वात् , कृत्यसाध्यत्वाच्चेत्याह -
नेति ।
वैलक्षण्यं प्रपञ्चयति -
क्रिया हीति ।
यत्र विषये तदनपेक्षयैव या चोद्यते तत्र सा हि क्रियेति योजना ।
विषयवस्त्वनपेक्षा, कृतिसाध्या च क्रियेत्यत्र दृष्टान्तमाह -
यथेति ।
गृहीतमध्वर्युणेति शेषः । वषट्करिष्यन्होता, सन्ध्यां देवतामिति चैवमादिवाक्येषु यथा यादृशी ध्यानक्रिया वस्त्वनपेक्षा पुन्तन्त्रा च चोद्यते तादृशी क्रियेत्यर्थः ।
ध्यानमपि मानसत्वाज्ज्ञानवन्न क्रियेत्यत आह -
ध्यानमित्यादिना ।
तथापि क्रियैवेति शेषः । कृत्यसाध्यत्वमुपाधिरिति भावः ।
ध्यानक्रियामुक्त्वा ततो वैलक्षण्यं ज्ञानस्य स्फुटयति -
ज्ञानं त्विति ।
अतः प्रमात्वान्न चोदनातन्त्रं न विधेर्विषयः । पुरुषः कृतिद्वारा तन्त्रं हेतुर्यस्य तत्पुरुषतन्त्रम् , तस्माद्वस्त्वव्यभिचारादपुन्तन्त्रत्वाच्च ध्यानाज्ज्ञानस्य महान्भेद इत्यर्थः ।
भेदमेव दृष्टान्तान्तरेणाह -
यथा चेति ।
अभेदसत्त्वेऽपि विधितो ध्यानं कर्तुं शक्यम् , न ज्ञानमित्यर्थः ।
ननु प्रत्यक्षज्ञानस्य विषयजन्यतया तत्तन्त्रत्वेऽपि शाब्दबोधस्य तदभावाद्विधेयक्रियात्वमिति नेत्याह -
एवं सर्वेति ।
शब्दानुमानाद्यर्थेष्वपि ज्ञानमविधेयक्रियात्वेन ज्ञातव्यम् । तत्रापि मानादेव ज्ञानस्य प्राप्तेर्विध्ययोगादित्यर्थः ।
तत्रैवं सति ।
लोके ज्ञानस्याविधेयत्वे सतीत्यर्थः । यथाभूतत्वमबाधितत्वम् ।
ननु ‘आत्मानं पश्येत्’ ‘ब्रह्म त्वं विद्धि’ ‘आत्मा द्रष्टव्यः’ इति विज्ञाने लिङ्लोट्तव्यप्रत्यया विधायकाः श्रूयन्ते, अतो ज्ञानं विधेयमित्यत आह -
तद्विषय इति ।
तस्मिन् ज्ञानरूपविषये विधयः पुरुषं प्रवर्तयितुमशक्ता भवन्ति । अनियोज्यं कृत्यसाध्यं नियोज्यशून्यं वा ज्ञानं तद्विषयकत्वादित्यर्थः । ममायं नियोग इति बोद्धा नियोज्यो विषयश्च विधेर्नास्तीति भावः ।
तर्हि ज्ञेयं ब्रह्म विधीयताम् , नेत्याह -
अहेयेति ।
वस्तुस्वरूपो विषयस्तत्त्वात् । ब्रह्मणो निरतिशयस्यासाध्यत्वान्न विधेयत्वमित्यर्थः । उदासीनवस्तुविषयकत्वाच्च ज्ञानं न विधेयम् , प्रवृत्यादिफलाभावादित्यर्थः ।
विधिपदानां गतिं पृच्छति -
किमर्थानीति ।
विधिच्छायानि प्रसिद्धयागादिविधितुल्यानीत्यर्थः ।
विधिप्रत्ययैरात्मज्ञानं परमपुरुषार्थसाधनमिति स्तूयते । स्तुत्या आत्यन्तिकेष्टहेतुत्वभ्रान्त्या या विषयेषु प्रवृत्तिरात्मश्रवणादिप्रतिबन्धिका तन्निवृत्तिफलानि विधिपदानीत्याह -
स्वाभाविकेति ।
विवृणोति -
यो हीत्यादिना ।
तत्र विषयेषु । सङ्घातस्य या प्रवृत्तिः तद्गोचराच्छब्दादेरित्यर्थः । स्रोतश्चित्तवृत्तिप्रवाहः । प्रवृत्तयन्ति ज्ञानसाधनश्रवणादाविति शेषः ।
श्रवणस्वरूपमाह -
तस्येति ।
अन्वेषणं ज्ञानम् । यदिदं जगत्तत्सर्वमात्मैवेत्यनात्मबाधेनात्मा बोध्यते । अद्वितीयादृश्यात्मबोधे विधिस्तपस्वी द्वैतवनोपजीवनः क्व स्थास्यतीति भावः ।
आत्मज्ञानिनः कर्तव्याभावे मानमाह -
तथा चेति ।
अयं स्वयं परमानन्दः परमात्माहमस्मि इति यदि कश्चित्पुरुष आत्मानं जानीयात्तदा किं फलमिच्छन् , कस्य वा भोक्तुः प्रीतये, शरीरं तप्यमानमनुसञ्ज्वरेत्तप्येत । भोक्तृभोग्यद्वैताभावात्कृतकृत्य आत्मविदित्यभिप्रायः । ज्ञानदौर्लभ्यार्थश्चेच्छब्दः । एतद्गुह्यतमं तत्त्वम् ।
वृत्तिकारमतनिरासमुपसंहरति -
तस्मादिति ।
प्राभाकरोक्तमुपन्यस्यति -
यदपि केचिदिति ।
कर्तात्मा लोकसिद्धत्वान्न वेदान्तार्थः । तदन्यद्ब्रह्म नास्त्येव, वेदस्य कार्यपरत्वेन मानाभावादित्यर्थः ।
मानाभावेऽसिद्ध इत्याह -
तन्नेति ।
अज्ञातस्य फलस्वरूपस्यात्मन उपनिषदेकवेद्यस्याकार्यशेषत्वात्कृत्स्नवेदस्य कार्यपरत्वमसिद्धम् । न च प्रवृत्तिनिवृत्तिलिङ्गाभ्यां श्रोतुस्तद्धेतुं कार्यबोधमनुमाय वक्तृवाक्यस्य कार्यपरत्वं निश्चित्य वाक्यस्थपदानां कार्यान्विते शक्तिग्रहान्न सिद्धस्यापदार्थस्य वाक्यार्थत्वमिति वाच्यम् , पुत्रस्ते जात इति वाक्यश्रोतुः पितुर्हर्षलिङ्गेनेष्टं पुत्रजन्मानुमाय पुत्रादिपदानां सिद्धे सङ्गतिग्रहात् , कार्यान्वितापेक्षयान्वितार्थे शक्तिरित्यङ्गीकारे लाघवात् , सिद्धस्यापि वाक्यार्थत्वादित्यलम् ।
किञ्च ब्रह्मणो नास्तित्वादेव कृत्स्नवेदस्य कार्यपरत्वमुत वेदान्तेषु तस्याभानात् , अथ वा कार्यशेषत्वात् , किं वा लोकसिद्धत्वादाहोस्वित् मानान्तरविरोधात् । तत्राद्यं पक्षत्रयं निराचष्टे -
योऽसाविति ।
अनन्यशेषत्वार्थम् ‘असंसारी’ इत्यादि विशेषणम् ।
नास्तित्वाभावे हेतुं वेदान्तमानसिद्धत्वमुक्त्वा हेत्वन्तरमात्मत्वमाह -
स एष इति ।
इतिरिदमर्थे । इदं न इदं न इति सर्वदृश्यनिषेधेन य आत्मा उपदिष्टः स एष इत्यर्थः ।
चतुर्थं शङ्कते -
नन्वात्माहमिति ।
आत्मनोऽहङ्कारादिसाक्षित्वेनाहन्धीविषयत्वस्य निरस्तत्वान्न लोकसिद्धतेत्याह -
नेति ।
यं तीर्थकारा अपि न जानन्ति तस्यालौकिकत्वं किमु वाच्यमित्याह -
नहीति ।
समस्तारतम्यवर्जितः । तत्तन्मते आत्मानधिगतिद्योतकानि विशेषणानि ।
पञ्चमं निरस्यति -
अत इति ।
केनचिद्वादिना प्रमाणेन युक्त्या वेत्यर्थः । अगम्यत्वान्न मानान्तरविरोध इति भावः ।
साक्षी कर्माङ्गम् , चेतनत्वात् , कर्तृवदिति, तत्राह -
विधीति ।
अज्ञातसाक्षिणोऽनुपयोगाज्ज्ञातस्य व्याघातकत्वान्न कर्मशेषत्वमित्यर्थः ।
साक्षिणः सर्वशेषित्वादहेयानुपादेयत्वाच्च न कर्मशेषत्वमित्याह -
आत्मत्वादिति ।
अनित्यत्वेनात्मनो हेयत्वमाशङ्क्याह -
सर्वं हीति ।
परिणामित्वेन हेयतां निराचष्टे -
विक्रियेति ।
उपादेयत्वं निराचष्टे -
अत एवेति ।
निर्विकारित्वादित्यर्थः । उपादेयत्वं हि साध्यस्य न त्वात्मनः । नित्यसिद्धत्वादित्यर्थः ।
परप्राप्त्यर्थमात्मा हेय इत्यत आह -
तस्मात् , पुरुषान्न परं किञ्चिदिति ।
काष्ठा सर्वस्यावधिः ।
एवमात्मनोऽनन्यशेषत्वात् , अबाध्यत्वात् , अपूर्वत्वात् , वेदान्तेषु स्फुटभानाच्च वेदान्तैकवेद्यत्वमुक्तम् । तत्र श्रुतिमाह -
तं त्वेति ।
तं सकारणसूत्रस्याधिष्ठानं पुरुषं पूर्णं हे शाकल्य, त्वा त्वां पृच्छामीत्यर्थः ।
अत इति ।
उक्तलिङ्गैः श्रुत्या च वेदान्तानामात्मवस्तुपरत्वनिश्चयादित्यर्थः ।
पूर्वोक्तमनुवदति -
यदपीति ।
वेदस्य नैरर्थक्ये शङ्किते तस्यार्थवत्तापरमिदं भाष्यम् -
दृष्टो हीति ।
तत्र ‘फलवदर्थावबोधनम्’ इति वक्तव्ये धर्मविचारप्रक्रमात् ‘कर्मावबोधनम्’ इत्युक्तं नैतावता वेदान्तानां ब्रह्मपरत्वनिरासः । अत एव ‘अनुपलब्धेऽर्थे तत्प्रमाणम्’ इति सूत्रकारो धर्मस्य फलवदज्ञातत्वेनैव वेदार्थतां दर्शयति । तच्चावशिष्टं ब्रह्मण इति न वृद्धवाक्यैर्विरोध इत्याह -
तद्धर्मेति ।
निषेधशास्त्रस्यापि निवृत्तिकार्यपरत्वमस्ति, तत्सूत्रभाष्यवाक्यजातं कर्मकाण्डस्य कार्यपरत्वाभिप्रायमित्यर्थः । वस्तुतस्तु लिङर्थे कर्मकाण्डस्य तात्पर्यम् , लिङर्थश्च, लोके प्रवर्तकज्ञानगोचरत्वेन कॢप्तं यागादिक्रियागतमिष्टसाधनत्वमेव न क्रियातोऽतिरिक्तं कार्यं तस्य कूर्मलोमवदप्रसिद्धत्वादिति तस्यापि पराभिमतकार्यविलक्षणे सिद्धे प्रामाण्यं किमुत ज्ञानकाण्डस्येति मन्तव्यम् ।
किं च वेदान्ताः सिद्धवस्तुपराः, फलवद्भूतशब्दत्वात् , दध्यादिशब्दवदित्याह -
अपि चेति ।
किमक्रियार्थकशब्दानामानर्थक्यमभिधेयाभावः, फलाभावो वा । आद्य आह -
आम्नायस्येति ।
इति न्यायेन एतदभिधेयराहित्यं नियमेनाङ्गीकुर्वतां ‘सोमेन यजेत’ ‘दध्ना जुहोति’ इत्यादि वाक्येषु दधिसोमादिशब्दानामर्थशून्यत्वं स्यादित्यर्थः ।
ननु केनोक्तमभिधेयराहित्यमित्याशङ्क्याह -
प्रवृत्तीति ।
कार्यातिरेकेण भव्यार्थत्वेन कार्यशेषत्वेन दध्यादिशब्दो भूतं वक्ति चेत् , तर्हि सत्यादिशब्दः कूटस्थं न वक्तीत्यत्र को हेतुः, किं कूटस्थस्याक्रियत्वादुताक्रियाशेषत्वाद्वेति प्रश्नः ।
ननु दध्यादेः कार्यान्वयित्वेन कार्यत्वादुपदेशः, न कूटस्थस्याकार्यत्वादित्याद्यमाशङ्क्य निरस्यति -
नहीति ।
दध्यादेः कार्यत्वे कार्यशेषत्वहानिः । अतो भूतस्य कार्याद्भिन्नस्य दध्यादेः शब्दार्थत्वं लब्धमिति भावः ।
द्वितीयं शङ्कते -
अक्रियात्वेऽपीति ।
क्रियार्थः कार्यशेषपरः । कूटस्थस्य त्वकार्यशेषत्वान्नोपदेश इति भावः ।
भूतस्य कार्यशेषत्वं शब्दार्थत्वाय फलाय वा, नाद्य इत्याह -
नैष दोष इति ।
दध्यादेः कार्यशेषत्वे सत्यपि शब्देन वस्तुमात्रमेवोपदिष्टं न कार्यान्वयी शब्दार्थः । अन्वितार्थमात्रे शब्दानां शक्तिरित्यर्थः ।
द्वितीयमङ्गीकरोति -
क्रियार्थत्वं त्विति ।
तस्य भूतविशेषस्य दध्यादेः क्रियाशेषत्वं फलमुद्दिश्याङ्गीक्रियत इत्यर्थः । न तु ब्रह्मण इति तुशब्दार्थः ।
ननु भूतस्य कार्यशेषत्वाङ्गीकारे स्वातन्त्र्येण कथं शब्दार्थतेति, तत्राह -
न चेति ।
फलार्थं शेषत्वाङ्गीकारमात्रेण शब्दार्थत्वभङ्गो नास्ति शेषत्वस्य शब्दार्थतायामप्रवेशादित्यर्थः ।
आनर्थक्यं फलाभाव इति पक्षं शङ्कते -
यदीति ।
यद्यपि दध्यादि स्वतो निष्फलमपि क्रियाद्वारा सफलत्वादुपदिष्टं तथापि कूटस्थब्रह्मवादिनः क्रियाद्वाराभावात्तेन दृष्टान्तेन किं फलं स्यादित्यर्थः ।
भूतस्य साफल्ये क्रियैव द्वारमिति न नियमः, रज्ज्वाः ज्ञानमात्रेण साफल्यदर्शनादित्याह -
उच्यत इति ।
तथैव ।
दध्यादिवदेवेत्यर्थः । दध्यादेः क्रियाद्वारा साफल्यं ब्रह्मणस्तु स्वत इति विशेषे सत्यपि वेदान्तानां सफलभूतार्थकत्वमात्रेण दध्याद्युपदेशसाम्यमित्यनवद्यम् ।
इदानीं वेदान्तानां निषेधवाक्यवत्सिद्धार्थपरत्वमित्याह -
अपि चेति ।
नञः प्रकृत्यर्थेन सम्बन्धात् हननाभावो नञर्थः, इष्टसाधनत्वं तव्यादिप्रत्ययार्थः, इष्टश्चात्र नरकदुःखाभावः, तत्परिपालको हननाभाव इति निषेधवाक्यार्थः । हननाभावो दुःखाभावहेतुरित्युक्तावर्थाद्धननस्य दुःखसाधनत्वधिया पुरुषो निवर्तते । नात्र नियोगः कश्चिदिति, तस्य क्रियातत्साधनदध्यादिविषयत्वात् । न च हननाभावरूपा नञ्वाच्या निवृत्तिः क्रिया, अभावत्वात् । नापि क्रियासाधनम् । अभावस्य भावार्थाहेतुत्वाद्भावार्थासत्त्वाच्चेत्यर्थः । अतो निषेधशास्त्रस्य सिद्धार्थे प्रामाण्यमिति भावः ।
विपक्षे दण्डमाह -
अक्रियेति ।
ननु स्वभावतो रागतः प्राप्तेन हन्त्यर्थेनानुरागेण नञ्सम्बन्धेन हेतुना हननविरोधिनी सङ्कल्पक्रीया बोध्यते, सा च नञर्थरूपा तत्राप्राप्तत्वाद्विधीयते, अहननं कुर्यादिति । तथा च कार्यार्थकमिदं वाक्यमित्याशङ्क्य निषेधति -
न चेति ।
औदासीन्यं पुरुषस्य स्वरूपं तच्च हननक्रियानिवृत्त्युपलक्षितं निवृत्त्यौदासीन्यं हननाभाव इति यावत् । तद्व्यतिरेकेण नञः क्रियार्थत्वं कल्पयितुं न च शक्यमिति योजना । मुख्यार्थस्याभावस्य नञर्थत्वसम्भवे तद्विरोधिक्रियालक्षणाया अन्याय्यत्वात् निषेधवाक्यस्यापि कार्यार्थकत्वे विधिनिषेधभेदविप्लवापत्तेश्चेति भावः ।
ननु तदभाववत्तदन्यतद्विरुद्धयोरपि नञः शक्तिः किं न स्यात् , अब्राह्मणः अधर्म इति प्रयोगदर्शनादिति चेन्न, अनेकार्थत्वस्यान्याय्यत्वादित्याह -
नञश्चेति ।
गवादिशब्दानां तु अगत्या नानार्थकत्वम् , स्वर्गेषुवाग्वज्रादीनां शक्यपशुसम्बन्धाभावेन लक्षणानवतारात् । अन्यविरुद्धयोस्तु लक्ष्यत्वं युक्तम् , शक्यसम्बन्धात् । ब्राह्मणादन्यस्मिन् क्षत्रियादौ, धर्मविरुद्धे वा पापे ब्राह्मणाद्यभावस्य नञ्शक्यस्य सम्बन्धात् । प्रकृते च आख्यातयोगान्नञ्प्रसज्यप्रतिषेधक एव न पर्युदासलक्षकः इति मन्तव्यम् । यद्वा नञः प्रकृत्या न सम्बन्धः प्रकृतेः प्रत्ययार्थोपसर्जनत्वात् , प्रधानसम्बन्धाच्चाप्रधानानां किन्तु प्रकृत्यर्थनिष्ठेन प्रत्ययार्थेनेष्टसाधनत्वेन सम्बन्धो नञः, इष्टं च स्वापेक्षया बलवदनिष्टाननुबन्धि यत्तदेव न तात्कालिकसुखमात्रम् , विषसंयुक्तान्नभोगस्यापि इष्टत्वापत्तेः । तथा च ‘न हन्तव्यः’ हननं बलवदनिष्टासाधनत्वे सति इष्टसाधनं न भवतीत्यर्थः । अत्र च ‘हन्तव्यः’ इति हनने विशिष्टेष्टसाधनत्वं भ्रान्तिप्राप्तमनूद्य नेत्यभावबोधने बलवदनिष्टसाधनं हननमिति बुद्धिर्भवति, हनने तात्कालिकेष्टसाधनत्वरूपविशेष्यसत्वेन विशिष्टाभावाबुद्धेर्विशेषणाभावपर्यवसानात् । विशेषणं बलवदनिष्टासाधनत्वमिति तदभावो बलवदनिष्टसाधनत्वं नञर्थ इति पर्यवसन्नम् ।
तद्बुद्धिरौदासीन्यपरिपालिकेत्याह -
अभावेति ।
चोऽप्यर्थः पक्षान्तरद्योती । प्रकृत्यर्थाभावबुद्धिवत्प्रत्ययार्थाभावबुद्धिरपीत्यर्थः ।
बुद्धेः क्षणिकत्वात्तदभावे सत्यौदासीन्यात्प्रच्युतिरूपा हननादौ प्रवृत्तिः स्यादिति, अत्राह -
सा चेति ।
यथाग्निरिन्धनं दग्ध्वा शाम्यति एवं सा नञर्थाभावबुद्धिः हननादाविष्टसाधनत्वभ्रान्तिमूलं रागेन्धनं दग्ध्वैव शाम्यतीत्यक्षरार्थः । रागनाशे कृते प्रच्युतिरिति भावः । यद्वा रागतः प्राप्ता सा क्रिया रागनाशे स्वयमेव शाम्यतीत्यर्थः ।
परपक्षे तु हननविरोधिक्रिया कार्येत्युक्तेऽपि हननस्येष्टसाधनत्वभ्रान्त्यनिरासात्प्रच्युतिर्दुर्वारा । तस्मात्तदभाव एव नञर्थ इत्युपसंहरति -
तस्मादिति ।
भावार्थाभावेन तद्विषयककृत्यभावात्कार्याभावस्तच्छब्दार्थः । यद्वेत्युक्तपक्षे निवृत्त्युपलक्षितमौदासीन्यं यस्माद्विशिष्टाभावायत्तमेवेति व्याख्येयम् । स्वतःसिद्धस्यौदासीन्यस्य नञर्थसाध्यत्वोपपादनार्थं निवृत्त्युपलक्षितत्वमिति ध्येयम् । ‘तस्य बटोर्व्रतम्’ इत्यनुष्ठेयक्रियावाचिव्रतशब्देन कार्यमुपक्रम्य ‘नेक्षेतोद्यन्तमादित्यम्’ इति प्रजापतिव्रतमुक्तम् । अत उपक्रमबलात्तत्र नञ ईक्षणविरोधिसङ्कल्पक्रियालक्षणाङ्गीकृता । एवमगौरसुरा अधर्म इत्यादौ नामधात्वर्थयुक्तस्य नञः प्रतिषेधवाचित्वायोगात् अन्यविरुद्धलक्षकत्वम् । एतेभ्यः प्रजापतिव्रतादिभ्योऽन्यत्राभावमेव नञर्थं मन्यामह इत्यर्थः । दुःखाभावफलके नञर्थे सिद्धे निषेधशास्त्रमानत्ववद्वेदान्तानां ब्रह्मणि मानत्वमिति भावः ।
तर्ह्यक्रियार्थानामानर्थक्यमिति सूत्रं किंविषयमिति, तत्राह -
तस्मादिति ।
वेदान्तानां स्वार्थे फलवत्वाद्व्यर्थकथाविषयं तदित्यर्थः । यदपीत्यादि स्पष्टार्थम् ।
श्रवणज्ञानमात्रात्संसारानिवृत्तावपि साक्षात्काराज्जीवत एव मुक्तिर्दुरपह्नवेति सदृष्टान्तमाह -
अत्रोच्यत इत्यादिना ।
ब्रह्माहमिति साक्षात्कारविरोधादित्यर्थः ।
तत्त्वविदो जीवन्मुक्तौ मानमाह -
तदुक्तं श्रुत्येति ।
जीवतोऽशरीरत्वं विरुद्धमिति शङ्कते -
शरीर इति ।
आत्मनो देहसम्बन्धस्य भ्रान्तिप्रयुक्तत्वात्तत्त्वधिया तन्नाशरूपमशरीरत्वं जीवतो युक्तमित्याह -
नेत्यादिना ।
असङ्गात्मरूपं त्वशरीरत्वं तत्त्वधिया जीवतो व्यज्यत इत्याह -
नित्यमिति ।
देहात्मनोः सम्बन्धः सत्य इति शङ्कते -
तत्कृतेति ।
तन्नाशार्थं कार्यापेक्षेति भावः ।
आत्मनः शरीरसम्बन्धे जाते धर्माधर्मोत्पत्तिः, तस्यां सत्यां सम्बन्धजन्मेत्यन्योन्याश्रयादेकस्यासिद्ध्या द्वितीयस्याप्यसिद्धिः स्यादिति परिहरति -
नेत्यादिना ।
नन्वेतद्देहजन्यधर्माधर्मकर्मण एतद्देहसम्बन्धहेतुत्वे स्यादन्योन्याश्रयः । पूर्वदेहकर्मण एतद्देहसम्बन्धोत्पत्तिः, पूर्वदेहश्च तत्पूर्वदेहकृतकर्मण इति बीजाङ्कुरवदनादित्वान्नायं दोष इत्यत आह -
अन्धेति ।
अप्रामाणिकीत्यर्थः । न हि बीजादङ्कुरः ततो बीजान्तरं च यथा प्रत्यक्षेण दृश्यते तद्वदात्मनो देहसम्बन्धः पूर्वकर्मकृतः प्रत्यक्षः । नाप्यस्ति कश्चिदागमः । प्रत्युत ‘असङ्गो हि’ इत्यादिश्रुतिः सर्वकर्तृत्वं वारयतीति भावः ।
तत्र युक्तिमाह -
क्रियेति ।
कूटस्थस्य कृत्ययोगान्न कर्तृत्वमित्यर्थः ।
स्वतो निष्क्रियस्यापि कारकसन्निधिना कर्तृत्वमिति शङ्कां दृष्टान्तवैषम्येण निरस्यति -
नेति ।
राजादीनां स्वक्रीतभृत्यकार्ये कर्तृत्वं युक्तं नात्मन इत्यर्थः ।
देहकर्मणोरविद्याभूमौ बीजाङ्कुरवदावर्तमानयोरात्मना सम्बन्धो भ्रान्तिकृत एवेत्याह -
मिथ्येति ।
ननु ‘यजेत’ इति विध्यनुपपत्त्यात्मनः कर्तृत्वमेष्टव्यमिति, तत्राह -
एतेनेति ।
भ्रान्तिकृतेन देहादिसम्बन्धेन यागादिकर्तृत्वमाब्रह्मबोधाद्व्याख्यातमित्यर्थः ।
अत्राहुः ।
प्राभाकरा इत्यर्थः । भ्रान्त्यभावाद्देहसम्बन्धादिकं सत्यमिति भावः ।
भेदज्ञानाभावान्न गौण इत्याह -
नेति ।
प्रसिद्धो ज्ञातो वस्तुनोर्भेदो येन तस्य गौणमुख्यज्ञानाश्रयत्व प्रसिद्धेरित्यर्थः । यस्य तस्य पुंसो गौणौ भवत इत्यन्वयः । शौर्यादिगुणविषयावित्यर्थः ।
तस्य त्विति ।
भेदज्ञानशून्यस्य पुंस इत्यर्थः ।
शब्दप्रत्ययाविति ।
शब्दः शाब्दबोधश्चेत्यर्थः ।
संशयमूलौ तावुदाहरति -
यथा मन्देति ।
यदा संशयमूलयोर्न गौणत्वं तदा भ्रान्तिमूलयोः किं वाच्यमित्याह -
यथा वेति ।
अकस्मादिति ।
अतर्कितादृष्टादिना संस्कारोद्बोधे सतीत्यर्थः । निरुपचारेण गुणज्ञानं विनेत्यर्थः ।
देहादिव्यतिरिक्तात्मवादिनामिति ।
देहात्मवादिनां तु प्रमेत्यभिमान इति भावः ।
जीवन्मुक्तौ प्रमाणमाह -
तथा चेति ।
तत्तत्र जीवन्मुक्तस्य देहे । यथा दृष्टान्तः अहिनिर्ल्वयनी सर्पत्वक् वल्मीकादौ प्रत्यस्ता निक्षिप्ता मृता सर्पेण त्यक्ताभिमाना वर्तते, एवमेवेदं विदुषा त्यक्ताभिमानं शरीरं तिष्ठति । अथ तथा त्वचा निर्मुक्तसर्पवदेवायं देहस्थोऽशरीरः विदुषो देहे सर्पस्य त्वचीवाभिमानाभावादशरीरत्वादमृतः प्राणितीति प्राणो जीवन्नपि ब्रह्मैव, किं तद्ब्रह्म तेजः स्वयञ्ज्योतिरानन्द एवेत्यर्थः । वस्तुतोऽचक्षुरपि बाधितचक्षुराद्यनिवृत्या सचक्षुरिवेत्यादि योज्यम् ।
इत्यनवद्यमिति ।
ब्रह्मात्मज्ञानान्मुक्तिलाभात्सिद्धं वेदान्तानां प्रामाण्यम् , हितशासनाच्छास्त्रत्वं च निर्दोषतया स्थितमित्यर्थः ।
ब्रह्मज्ञानमुद्दिश्य श्रवणवन्मनननिदिध्यासनयोरप्यवान्तरवाक्यभेदेन विध्यङ्गीकारान्न ब्रह्मणो विधिशेषत्वमुद्देश्यज्ञानलभ्यतया प्राधान्यादित्याह -
नेति ।
श्रवणं ज्ञानकरणवेदान्तगोचरत्वात्प्रधानम् , मनननिदिध्यासनयोः प्रमेयगोचरत्वात्तदङ्गत्वम् , नियमादृष्टस्य ज्ञान उपयोगः सर्वापेक्षान्यायादिति मन्तव्यम् ।
तर्हि ज्ञाने विधिः किमिति त्यक्तः, तत्राह -
यदि हीति ।
यदि ज्ञाने विधिमङ्गीकृत्य वेदान्तैरवगतं ब्रह्म विधेयज्ञाने कर्मकारकत्वेन विनियुज्येत तदा विधिशेषत्वं स्यात् । न त्ववगतस्य विनियुक्तत्वमस्ति, प्राप्तावगत्या फललाभे विध्ययोगादित्यर्थः ।
तस्मात्
विध्यसम्भवात् । अतः शेषत्वासम्भवात् । सत्यादिवाक्यैर्लब्धज्ञानेनाज्ञाननिवृत्तिरूपफललाभे सतीत्यर्थः ।
सूत्रं योजयति -
स्वतन्त्रमिति ।
एवं च सतीति ।
चोऽवधारणे । उक्तरीत्या ब्रह्मणः स्वातन्त्र्ये सत्येव भगवतो व्यासस्य पृथक्शास्त्रकृतिर्युक्ता, धर्मविलक्षणप्रमेयलाभात् । वेदान्तानां कार्यपरत्वे तु प्रमेयाभेदान्न युक्तेत्यर्थः ।
ननु मानसधर्मविचारार्थं पृथगारम्भ इत्याशङ्क्याह -
आरभ्यमाणं चेति ।
अथ बाह्यसाधनधर्मविचारानन्तरम् । अतो बाह्यधर्मस्य शुद्धिद्वारा मानसोपासनाधर्महेतुत्वात्परिशिष्टो मानसधर्मो जिज्ञास्य इति सूत्रं स्यादिति ।
अत्र दृष्टान्तमाह -
अथेति ।
तृतीयाध्याये श्रुत्यादिभिः शेषशेषित्वनिर्णयानन्तरं शेषिणा शेषस्य प्रयोगसम्भवात्कः क्रतुशेषः को वा पुरुषशेषः इति विज्ञास्यत इत्यर्थः ।
एवमारभ्येत ।
नत्वारब्धम् , तस्मादवान्तरधर्मार्थमारम्भ इत्ययुक्तमिति भावः ।
स्वमते सूत्रानुगुण्यमस्तीत्याह -
ब्रह्मेति ।
जैमिनिना ब्रह्म न विचारितमिति तज्जिज्ञास्यत्वसूत्रणं युक्तमित्यर्थः ।
वेदान्तार्थश्चेदद्वैतं तर्हि द्वैतसापेक्षविध्यादीनां का गतिरित्याशङ्क्य ज्ञानात्प्रागेव तेषां प्रामाण्यं न पश्चादित्याह -
तस्मादिति ।
ज्ञानस्य प्रमेयप्रमातृबाधकत्वादित्यर्थः ।
ब्रह्म न कार्यशेषः, तद्बोधात्प्रागेव सर्वव्यवहार इत्यत्र ब्रह्मविदां गाथामुदाहरति -
अपिचेति ।
सदबाधितं ब्रह्म पूर्वमात्मा विषयानादत्त इति सर्वसाक्ष्यहमित्येवंबोधे जाते सति पुत्रदेहादेः सत्ताबाधनात् मायामात्रत्वनिश्चयात्पुत्रदारादिभिरहमिति स्वीयदुःखसुखभावत्वगुणयोगाद्गौणात्माभिमानस्य नरोऽहं कर्ता मूढ इति मिथ्यात्माभिमानस्य च सर्वव्यवहारहेतोरसत्वे कार्यं विधिनिषेधादिव्यवहारः कथं भवेत् , हेत्वभावान्न कथञ्चिद्भवेदित्यर्थः ।
नन्वहं ब्रह्मेति बोधो बाधितः, अहमर्थस्य प्रमातुः ब्रह्मत्वायोगादित्याशङ्क्य प्रमातृत्वस्याज्ञानविलसितान्तःकरणतादात्म्यकृतत्वान्न बाध इत्याह -
अन्वेष्टव्येति ।
‘य आत्मापहतपाप्मा विजरो विमृत्युर्विशोकः सोऽन्वेष्टव्य’ इति श्रुतेः ज्ञातव्यपरमात्मविज्ञानात्प्रागेवाज्ञानाच्चिद्धातोरात्मानः प्रमातृत्वं प्रमातैव ज्ञातः सन् पाप्मरागद्वेषमरणविवर्जितः परमात्मा स्यादित्यर्थः ।
प्रमातृत्वस्य कल्पितत्वे तदाश्रितानां प्रमाणानां प्रामाण्यं कथमित्यत आह -
देहेति ।
यथा देहात्मत्वप्रत्ययः कल्पितो भ्रमोऽपि व्यवहाराङ्गतया मानत्वेनेष्यते वैदिकैः, तद्वल्लौकिकमध्यक्षादिकमात्मबोधावधि व्यवहारकाले बाधाभावात् व्यावहारिकं प्रामाण्यमिष्यताम् , वेदान्तानां तु कालत्रयाबाध्यबोधित्वात्तत्त्वावेदकं प्रामाण्यमिति तुशब्दार्थः ।
आऽऽत्मनिश्चयात् ।
आऽऽत्मनिश्चयादित्याङ्मर्यादायाम् । प्रमातृत्वस्य कल्पितत्वेऽपि विषयाबाधात्प्रामाण्यमितिभावः ॥
रामनाम्निपरे धाम्नि कृत्स्नाम्नायसमन्वयः ।
कार्यतात्पर्यबाधेन साधितः शुद्धबुद्धये ॥ ४ ॥