अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

अनुकृत्यधिकरणम्

अनुकृतेस्तस्य च । मुण्ड­क­वा­क्य­मु­दा­ह­रति
न तत्रेति ।
तस्मिन् ब्रह्मणि विषये न भाति, तं न भासयतीति यावत् ।

यदा चन्द्र­भा­स्क­रा­दिर्न भासयति तदा अल्प­दी­प्ते­रग्नेः का कथेत्याह
कुत इति ।

किञ्च सर्वस्य सूर्या­दे­स्त­द्भा­स्य­त्वान्न तद्भा­स­क­त्व­मि­त्याह
तमेवेति ।

अनुगमनवदनुमानं स्वगतमिति शङ्कां निरस्यति
तस्येति ।

तत्रेति सप्तम्याः सति विषये च साधा­र­ण्या­त्सं­श­य­माह
तत्रेति ।
पूर्व­त्रा­त्म­श्रु­त्या­दि­ब­ला­दा­का­श­श­ब्दस्य रूढि­त्या­गा­दी­श्वरे वृत्तिराश्रिता । तथेहापि सति­स­प्त­मी­ब­ला­द्व­र्त­मा­ना­र्थ­त्या­गेन यस्मिन्सति सूर्यादयो न भास्यन्ति स तेजोविशेष उपास्य इति भविष्यदर्थे वृत्ति­रा­श्र­य­णीया ।

अधुना भासमाने सूर्यादौ न भातीति विरोधादिति दृष्टान्तेन पूर्वपक्षयति
तेजोधातुरिति ।
तेजोधानम् , निर्गु­ण­स्व­य­ञ्ज्यो­ति­रा­त्म­ज्ञा­न­मि­त्यु­भ­यत्र फलम् ।

तेजोधातुत्वे लिङ्गमाह
तेजोधातूनामिति ।

यत्ते­ज­सोऽ­भि­भा­वकं तत्तेज इति व्याप्तिमाह
तेजःस्वभावकमिति ।

यस्मिन्सति यन्न भाति तदनु तद्भातीति विरुद्धमित्यत आह
अनुभानमिति ।
ततो निकृष्टभानं विवक्षितमिति भावः ।

मुख्यसम्भवे विव­क्षा­नु­प­पत्तेः मुख्या­नु­भा­न­लि­ङ्गा­त्स­र्व­भा­सकः परमात्मा स्वप्रकाशकोऽत्र ग्राह्य इति सिद्धान्तमाह
प्राज्ञ इति ।
प्राज्ञत्वं स्वप्रकाशकत्वं भास­क­त्वा­र्थ­मु­क्तम् ।

तत्र श्रुतिमाह
भारूप इति ।

मानाभावाच्च तेजोधातुर्न ग्राह्य इत्याह
न त्विति ।

किञ्च सूर्या­द­य­स्ते­जो­न्त­र­भा­न­मनु न भान्ति, तेजस्त्वात् , प्रदीपवदित्याह
समत्वाच्चेति ।

योऽयमनुकरोति स तज्जातीय इति नियमो नास्तीत्याह
नायमेकान्त इति ।

पौन­रु­क्त्य­मा­श­ङ्क्यो­क्ता­नु­वा­द­पू­र्वकं सूत्रोक्तं हेत्वन्तरं व्याचष्टे
अनुकृतेरिति ।

'तमेव भान्तम्’ इत्येवकारोक्तं तद्भानं विना सर्वस्य पृथ­ग्भा­ना­भा­व­रू­प­म­नु­भा­न­म­नु­कृ­ते­रि­त्य­ने­नो­क्तम्
तस्य चेति ।
सर्व­भा­स­क­त्व­मु­क्त­मि­त्य­पौ­न­रु­क्त्य­मि­त्यर्थः ।

आत्मनः सूर्या­दि­भा­स­कत्वं श्रुत्य­न्त­र­प्र­सि­द्ध­म­वि­रुद्धं चेत्याह
तद्देवा इति ।
सर्वशब्दः प्रकृ­त­सू­र्या­दि­वा­च­क­त्वेन व्याख्यातः ।

सम्प्रति तस्या­स­ङ्कु­च­द्वृ­त्तितां मत्वा­र्था­न्त­र­माह
अथवेति ।

तत्रेति सर्वनामश्रुत्या प्रकृतं ब्रह्म ग्राह्यमित्याह
न तत्र सूर्य इति ।

किञ्च स्पष्ट­ब्र­ह्म­प­र­पू­र्व­म­न्त्रा­का­ङ्क्षा­पू­र­क­त्वा­दयं मन्त्रो ब्रह्मपर इत्याह
अनन्तरं चेति ।
हिरण्मये ज्योतिर्मये अन्न­म­या­द्य­पे­क्षया परे कोशे आनन्दमयाख्ये पुच्छशब्दितं ब्रह्म विर­ज­मा­ग­न्तु­क­म­ल­शू­न्यम् , निष्कलं निरवयवम् , शुभ्रं नैस­र्गि­क­म­ल­शू­न्यम् , सूर्या­दि­सा­क्षि­भूतं ब्रह्म­वि­त्प्र­सि­द्ध­मि­त्यर्थः ।

सति­स­प्त­मी­प­क्ष­म­नु­व­दति
यदपीति ।

सूर्या­द्य­भि­भा­व­क­ते­जो­धातौ प्रामाणिके तस्येह ग्रहणशङ्का स्यात् , न तत्र प्रमा­ण­म­स्ती­त्याह
तत्रेति ।
सिद्धान्ते तत्रेति वाक्यार्थः ।

कथ­मि­त्या­श­ङ्क्याह
ब्रह्मण्यपीति ।
सतिसप्तमीपक्षे न भातीति श्रुतं वर्तमानत्वं त्यक्त्वा तस्मिन्सति न भास्य­न्ती­त्य­श्रु­त­भ­वि­ष्यत्त्वं कल्पनीयं प्रत्य­क्ष­वि­रो­ध­नि­रा­साय । विषयसप्तमीपक्षे तु न भास­य­ती­त्य­श्रु­त­णि­ज­ध्या­हा­र­मात्रं कल्प्यं न श्रुतत्याग इति लाघवम् , अतो ब्रह्मणि विषये सूर्या­दे­र्भा­स­क­त्व­नि­षे­धेन ब्रह्म­भा­स्य­त्व­मु­च्यत इत्यर्थः । येना­न्या­भा­स्य­त्वेन हेतुना सूर्या­द­य­स्त­स्मि­न्ब्र­ह्मणि विषये भासकाः स्युस्तथा तु ब्रह्मान्येन नोपलभ्यते स्वप्र­का­श­त्वा­दिति योजना ।

उक्तमेव श्रुत्यन्तरेण द्रढयति
ब्रह्मेति ।
स्वप्र­का­श­त्वेऽ­न्या­भा­स्यत्वे च श्रुतिद्वयम् । ग्रह­णा­यो­ग्य­त्वा­द­ग्राह्य इत्यर्थः ॥ २२ ॥

णिजध्याहारपक्षे स्मृति­ब­ल­म­प्य­स्ती­त्याह
अपिचेति ।

सूत्रं व्याचष्टे
अपिचेति ।
अभास्यत्वे सर्वभासकत्वे च श्लोकद्वयं द्रष्टव्यम् । तस्मा­द­नु­भा­न­मन्त्रो ब्रह्मणि समन्वित इति सिद्धम् ॥ २३ ॥