भाष्यरत्नप्रभाव्याख्या
अनुकृत्यधिकरणम्
अनुकृतेस्तस्य च । मुण्डकवाक्यमुदाहरति
न तत्रेति ।
तस्मिन् ब्रह्मणि विषये न भाति, तं न भासयतीति यावत् ।
यदा चन्द्रभास्करादिर्न भासयति तदा अल्पदीप्तेरग्नेः का कथेत्याह
कुत इति ।
किञ्च सर्वस्य सूर्यादेस्तद्भास्यत्वान्न तद्भासकत्वमित्याह
तमेवेति ।
अनुगमनवदनुमानं स्वगतमिति शङ्कां निरस्यति
तस्येति ।
तत्रेति सप्तम्याः सति विषये च साधारण्यात्संशयमाह
तत्रेति ।
पूर्वत्रात्मश्रुत्यादिबलादाकाशशब्दस्य रूढित्यागादीश्वरे वृत्तिराश्रिता । तथेहापि सतिसप्तमीबलाद्वर्तमानार्थत्यागेन यस्मिन्सति सूर्यादयो न भास्यन्ति स तेजोविशेष उपास्य इति भविष्यदर्थे वृत्तिराश्रयणीया ।
अधुना भासमाने सूर्यादौ न भातीति विरोधादिति दृष्टान्तेन पूर्वपक्षयति
तेजोधातुरिति ।
तेजोधानम् , निर्गुणस्वयञ्ज्योतिरात्मज्ञानमित्युभयत्र फलम् ।
तेजोधातुत्वे लिङ्गमाह
तेजोधातूनामिति ।
यत्तेजसोऽभिभावकं तत्तेज इति व्याप्तिमाह
तेजःस्वभावकमिति ।
यस्मिन्सति यन्न भाति तदनु तद्भातीति विरुद्धमित्यत आह
अनुभानमिति ।
ततो निकृष्टभानं विवक्षितमिति भावः ।
मुख्यसम्भवे विवक्षानुपपत्तेः मुख्यानुभानलिङ्गात्सर्वभासकः परमात्मा स्वप्रकाशकोऽत्र ग्राह्य इति सिद्धान्तमाह
प्राज्ञ इति ।
प्राज्ञत्वं स्वप्रकाशकत्वं भासकत्वार्थमुक्तम् ।
तत्र श्रुतिमाह
भारूप इति ।
मानाभावाच्च तेजोधातुर्न ग्राह्य इत्याह
न त्विति ।
किञ्च सूर्यादयस्तेजोन्तरभानमनु न भान्ति, तेजस्त्वात् , प्रदीपवदित्याह
समत्वाच्चेति ।
योऽयमनुकरोति स तज्जातीय इति नियमो नास्तीत्याह
नायमेकान्त इति ।
पौनरुक्त्यमाशङ्क्योक्तानुवादपूर्वकं सूत्रोक्तं हेत्वन्तरं व्याचष्टे
अनुकृतेरिति ।
'तमेव भान्तम्’ इत्येवकारोक्तं तद्भानं विना सर्वस्य पृथग्भानाभावरूपमनुभानमनुकृतेरित्यनेनोक्तम्
तस्य चेति ।
सर्वभासकत्वमुक्तमित्यपौनरुक्त्यमित्यर्थः ।
आत्मनः सूर्यादिभासकत्वं श्रुत्यन्तरप्रसिद्धमविरुद्धं चेत्याह
तद्देवा इति ।
सर्वशब्दः प्रकृतसूर्यादिवाचकत्वेन व्याख्यातः ।
सम्प्रति तस्यासङ्कुचद्वृत्तितां मत्वार्थान्तरमाह
अथवेति ।
तत्रेति सर्वनामश्रुत्या प्रकृतं ब्रह्म ग्राह्यमित्याह
न तत्र सूर्य इति ।
किञ्च स्पष्टब्रह्मपरपूर्वमन्त्राकाङ्क्षापूरकत्वादयं मन्त्रो ब्रह्मपर इत्याह
अनन्तरं चेति ।
हिरण्मये ज्योतिर्मये अन्नमयाद्यपेक्षया परे कोशे आनन्दमयाख्ये पुच्छशब्दितं ब्रह्म विरजमागन्तुकमलशून्यम् , निष्कलं निरवयवम् , शुभ्रं नैसर्गिकमलशून्यम् , सूर्यादिसाक्षिभूतं ब्रह्मवित्प्रसिद्धमित्यर्थः ।
सतिसप्तमीपक्षमनुवदति
यदपीति ।
सूर्याद्यभिभावकतेजोधातौ प्रामाणिके तस्येह ग्रहणशङ्का स्यात् , न तत्र प्रमाणमस्तीत्याह
तत्रेति ।
सिद्धान्ते तत्रेति वाक्यार्थः ।
कथमित्याशङ्क्याह
ब्रह्मण्यपीति ।
सतिसप्तमीपक्षे न भातीति श्रुतं वर्तमानत्वं त्यक्त्वा तस्मिन्सति न भास्यन्तीत्यश्रुतभविष्यत्त्वं कल्पनीयं प्रत्यक्षविरोधनिरासाय । विषयसप्तमीपक्षे तु न भासयतीत्यश्रुतणिजध्याहारमात्रं कल्प्यं न श्रुतत्याग इति लाघवम् , अतो ब्रह्मणि विषये सूर्यादेर्भासकत्वनिषेधेन ब्रह्मभास्यत्वमुच्यत इत्यर्थः । येनान्याभास्यत्वेन हेतुना सूर्यादयस्तस्मिन्ब्रह्मणि विषये भासकाः स्युस्तथा तु ब्रह्मान्येन नोपलभ्यते स्वप्रकाशत्वादिति योजना ।
उक्तमेव श्रुत्यन्तरेण द्रढयति
ब्रह्मेति ।
स्वप्रकाशत्वेऽन्याभास्यत्वे च श्रुतिद्वयम् । ग्रहणायोग्यत्वादग्राह्य इत्यर्थः ॥ २२ ॥
णिजध्याहारपक्षे स्मृतिबलमप्यस्तीत्याह
अपिचेति ।
सूत्रं व्याचष्टे
अपिचेति ।
अभास्यत्वे सर्वभासकत्वे च श्लोकद्वयं द्रष्टव्यम् । तस्मादनुभानमन्त्रो ब्रह्मणि समन्वित इति सिद्धम् ॥ २३ ॥