भाष्यरत्नप्रभाव्याख्या
सर्वत्रप्रसिद्ध्यधिकरणम्
छान्दोग्यवाक्यमुदाहरति
इदमिति ।
तस्माज्जायत इति तज्जम् , तस्मिंल्लीयत इति तल्लम् , तस्मिन्ननिति चेष्टत इति तदनम् , तज्जं च तल्लं च तदनं चेति तज्जलान् । कर्मधारयेऽस्मिन् शाकपार्थिवन्यायेन मध्यमपदस्य तच्छब्दस्य लोपः । तज्जलानमिति वाच्ये छान्दसोऽवयवलोपः । इतिशब्दो हेतौ । सर्वमिदं जगद्ब्रह्मैव, तद्विवर्तत्वादित्यर्थः ।
ब्रह्मणि मित्रामित्रभेदाभावाच्छान्तो रागादिरहितो भवेदिति गुणविधिः । सक्रतुमुपासनं कुर्वीतेति विहितोपासनस्य 'उपासीत' इत्यनुवादात्फलमाह
अथेति ।
क्रतुमयः सङ्कल्पविकार इत्यर्थः ।
पुरुषस्य ध्यानविकारत्वं स्फुटयति
यथेति ।
इह यध्यायति, मृत्वा ध्यानमहिम्ना तध्येयरूपेण जायत इत्यर्थः । क्रतुमयः सङ्कल्पप्रधान इति वार्थः ।
क्रतोर्विषयमाह
मन इति ।
ब्रह्मेत्युपक्रमान्मनोमयं प्राणशरीरं भारूपं सत्यसङ्कल्पमन्तर्ह्रदये ध्येयमित्यर्थः ।
पूर्वत्र ब्रह्मलिङ्गैरब्रह्मलिङ्गबाध उक्तः, न तथेहोपक्रमे ब्रह्मणो लिङ्गमस्ति, किन्तु प्रकरणम् । तच्च शान्तिगुणविधानार्थमन्यथासिद्वम् । अतो जीवलिङ्गं बलीय इति प्रत्युदाहरणेन पूर्वपक्षयति
शारीर इत्यादिना ।
श्रुतिमाशङ्क्यान्यथासिद्ध्या परिहरति
नैष दोष इति ।
शमविधिपरत्वे हेतुमाह
यत्कारणमिति ।
यत एवमाह तस्माच्छमविधिपरमित्यन्वयः । [अत्रेदंशब्दः प्रकृतब्रह्मपरामर्शार्थो नतु जगत्परामर्शार्थः, जगद्विशेषणे प्रयोजनाभावात् । अत्र प्रयोजनाभावेऽपि यत्र प्रयोजनं तत्र भवत्येव जगद्विशेषणम् , यथा 'आत्मैवेदं सर्वम्' । अत्र बाधायां समानाधिकरणदार्ढ्यार्थं विशेषणमावश्यकम् , तद्वाक्यस्य ज्ञेयब्रह्मविषयत्वात् । अत्र तूपासनायां बाधानावश्यकत्वाद्विषयाभेदेन ब्रह्मण उपास्यत्वात् । ]
नच शमेति ।
शमध्यानयोर्विधौ वाक्यभेदापत्तेरित्यर्थः ।
जन्मपरम्परया जीवस्यापि सर्वकर्मत्वादिसम्भवमाह
सर्वकर्मेति ।
सर्वाणि कर्माणि यस्य । सर्वे कामा भोग्या यस्य । सर्वगन्धः सर्वरस इत्यादिरादिशब्दार्थः ।
आराग्रमात्रस्येति ।
तोत्रप्रोतायःशलाकाग्रपरिमाणस्येत्यर्थः ।
सर्वत्र प्रसिद्वब्रह्मण एवात्रोपास्यत्वोपदेशान्न जीव उपास्य इति सूत्रार्थमाह
सर्वत्रेति ।
यत्र फलं नोच्यते तत्र पूर्वोत्तरपक्षसिद्विः फलमिति मन्तव्यम् । यद्यपि निराकाङ्क्षं ब्रह्म तथापि मनःप्रचुरमुपधिरस्य, प्राणः शरीरमस्येति समासान्तर्गतसर्वनाम्नः संनिहितविशेष्याकाङ्क्षत्वाद्ब्रह्म सम्बध्यते ।
'स्योनं ते सदनं करोमि' इति संस्कारार्थसदनस्य निराकाङ्क्षस्यापि 'तस्मिन्सीद' इति साकाङ्क्षतच्छब्देन परामर्शदर्शनादित्याह
अत्रोच्यत इति ।
स्योनं पात्रं ते पुरोडाशस्येति श्रुत्यर्थः ।
जीवोऽपि लिङ्गात्संनिहित इत्यत आह
जीवस्त्विति ।
इदं हि लिङ्गद्वयं लोकसिद्वं जीवं न संनिधापयति, दुःखिन उपास्त्ययोग्यत्वात्फलाभावाच्च । अतो विश्वजिन्न्यायेन सर्वाभिलषितमानन्दरूपं ब्रह्मैवोपासनाक्रियानुबन्धीति भावः ।
किञ्च ब्रह्मपदश्रुत्या लिङ्गबाध इत्याह
नचेति ।
अन्यतराकाङ्क्षानुगृहीतं फलवत्प्रकरणं विफललिङ्गाद्वलीय इति समुदायार्थः ॥ १ ॥
वस्तुनो विवक्षायाः फलमुपादानं स्वीकारः, स च प्रकृतेषु गुणेष्वस्तीति विवक्षोपचार इत्याह
तथाप्युपादानेनेति ।
नन्विदं ग्राह्यमिदं त्याज्यमिति धीर्विवक्षाधीना वेदे कुतः स्यादित्यत आह
उपादानानुपादाने त्विति ।
तात्पर्यं नाम फलवदर्थप्रतीत्यनुकूलत्वं शब्दधर्मः । उपक्रमादिना तस्य ज्ञानात्तयोरवगम इत्यर्थः ।
तदिहेति ।
तत्तस्मात् । तात्पर्यवत्त्वादित्यर्थः ।
सर्वात्मत्वे प्रमाणमाह
तथाचेति ।
जीर्णः स्थविरो यो दण्डेन वञ्चति गच्छति सोऽपि त्वमेव । यो जातो बालः स त्वमेव । सर्वतः सर्वासु दिक्षु श्रुतयः श्रोत्राण्यस्येति सर्वतः श्रुतिमत् । सर्वजन्तूनां प्रसिद्वाः पाण्यादयस्तस्येति सर्वात्मत्वोक्तिः ॥ २ ॥
ननु जीवधर्माःश्चेत्ब्रह्मणि योज्यन्ते तर्हि ब्रह्मधर्मा एव जीवे किमिति न योज्यन्ते, तत्राह
अनुपपत्तेरिति ।
सूत्रं व्याचष्टे
पूर्वेणेति ।
सर्वात्मत्वादिरूक्तन्यायः । कल्पितस्य धर्मा अधिष्ठाने सम्बध्यन्ते, नाधिष्ठानधर्माः कल्पित इति भावः । अधिष्ठानज्ञानकाले कल्पितधर्माभावात् । वागेव वाकः सोऽस्यास्तीति वाकी, न वाकी अवाकी । अनिन्द्रिय इत्यर्थः । कुत्राप्यादरः कामोऽस्य नास्तीत्यनादरः । नित्यतृप्त इत्यर्थः ।
ज्यायस्त्वाद्यनुपपत्तौ शारीर इति परिच्छेदो हेतुः सूत्रोक्तः । स तु जीवस्यैव नोश्वरस्येत्याह
सत्यमित्यादिना ॥ ३ ॥
प्रापकत्वेन व्यपदिशतीति सम्बन्धः । कर्मकर्तृव्यपदेशपदस्यार्थान्तरमाह
तथोपास्येति ॥ ४ ॥
एकार्थत्वं प्रकरणस्य समानत्वम् । अन्तरात्मन्निति विभक्तिलोपश्छान्दसः । शब्दयोर्विशेषो विभक्तिभेदः । तस्मात्तदर्थयोर्भेद इति सूत्रार्थः ॥ ५ ॥
स्मृतौ हृदिस्थस्य जीवाद्भेदोक्तेरत्रापि हृदिस्थो मनोमय ईश्वर इत्याह
स्मृतेश्चेति ।
भूतानि जीवान् । यन्त्रं शरीरम् ।
अत्र सूत्रकृता सत्यभेद उक्त इति भ्रान्तिनिरासायेक्षत्यधिकरणे निरस्तमपि चोद्यमुद्भाव्य निरस्यति
अत्राहेत्यादिना ।
त्वदुक्तरीत्या वस्तुत एकत्वमेव, भेदस्तु कल्पितः सूत्रेष्वनूद्यत इत्याह
सत्यमिति ॥ ६ ॥
अर्भकमोको यस्य सोऽर्भकौकाः तस्य भावस्तत्त्वं तस्मादार्थिकमल्पत्वम् । अणीयानित्यल्पत्ववाचकशब्देनापि श्रुतमित्याह
स्वशब्देनेति ।
नायं दोष इत्युक्तं विवृणोति
न तावदिति ।
कथमपि ।
ब्रह्मभावापेक्षयापीत्यर्थः । परिच्छेदत्यागं विना ब्रह्मत्वासम्भवात्तत्त्यागे च ब्रह्मण एवोपास्यत्वमायातीति भावः ।
विभोः परिच्छेदोक्तौ दृष्टान्तमाह
यथा समस्येति ।
सर्वेश्वरस्यायोध्यायां स्थित्यपेक्षया परिच्छेदोक्तिवदल्पहृदि ध्येयत्वेन तथोक्तिरित्यर्थः ।
ननु किमिति हृदयमेव प्रायेणोच्यते, तत्राह
तत्रेति ।
हृदये परमात्मनो बुद्विवृत्तिरर्ग्राहिका भवति । अत ईश्वराभिव्यक्तिस्थानत्वात्तदुक्तिरित्यर्थः ।
व्योमदृष्टान्तासिना शङ्कालतापि काचिच्छिन्नेत्याह
तत्र यदाशङ्क्यत इत्यादिना ।
भिन्नायतनत्वेऽपि व्योम्नः सत्यभेदाद्यभावादिति भावः ॥ ७ ॥
ब्रह्मणो हार्दत्वेऽनिष्टसम्भोगापत्तेर्जीव एव हार्द उपास्य इति शङ्कां व्याचष्टे
व्योमवदिति ।
ब्रह्म भोक्तृ स्यात्, हार्दत्वे सति चेतनत्वात् , जीवाभिन्नत्वाच्च जीववदित्युक्तं निरस्यति
न । वैशेष्यादिति ।
धर्माधर्मवत्त्वमुपाधिरित्यर्थः । अयमेव विशेषो वैशेष्यम् । स्वार्थे ष्यञ्प्रत्ययः । विशेषस्यातिशयार्थो वा । धर्मादेः स्वाश्रये फलहेतुत्वमतिशयः, तस्मादिति सूत्रार्थः ।
किञ्च विभवो बहव आत्मान इति वादिनामेकस्मिन्देहे सर्वात्मनां भोक्तृत्वप्रसङ्गः, स्वकर्मार्जित एव देहे भोग इति परिहारश्च तुल्य इति न वयं पर्यनुयोज्या इत्याह
सर्वगतेति ।
वस्तुतस्तेषामेव भोगसाङ्कर्यमित्यग्रे वक्ष्यते ।
ब्रह्मणो जीवाभिन्नत्वं श्रुत्या निश्चित्य तेन भोक्तृत्वानुमाने उपजीव्यश्रुतिबाधमाह
यथाशास्त्रमिति ।
अर्थं मुखमात्रं जरत्या वृद्धायाः कामयते नाङ्गानीति सोऽयमर्धजरतीयन्यायः । स चात्र न युक्तः ।
न ह्यभेदमङ्गीकृत्याभोक्तृत्वं त्यक्तुं युक्तम् , श्रुत्यैवाभेद सिद्ध्यर्थं भोक्तृत्ववारणादित्याह
शास्त्रं चेति ।
नन्वेकत्वं मया श्रुत्या न गृहीतम् , योनोपजीव्यबाधः स्यात् । किन्तु त्वदुक्त्या गृहीतमित्याशङ्क्य बिम्बप्रतिबिम्बयोः कल्पितभेदेन भोक्तृत्वाभोक्तृत्वव्यवस्थोपपत्तेरप्रयोजको हेतुरित्याह
अथागृहीतमित्यादिना ।
कल्पितासङ्गित्वमधिष्ठानस्य वैशेष्यमित्यस्मिन्नर्थेऽपि सूत्रं पातयति
तदाहेति ।
ब्रह्मणो हार्दत्वे बाधकाभावच्छाण्डिल्यविद्यावाक्यं ब्रह्मण्युपास्ये समन्वितमिति सिद्वम् ॥ ८ ॥