अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

तन्निर्धारणाधिकरणम्

तन्निर्धारणा ।

उभयथा दृष्टा­न्त­द­र्श­ना­त्सं­श­य­माह -
किं तानीति ।
यथा­ना­रा­भ्या­धी­त­प­र्ण­म­यीत्वं जुहूद्वारा क्रत्वङ्गतया कर्मसु नित्यं प्रयुज्यते, तथा­ङ्गा­श्रि­तो­पा­स­ना­न्यु­द्गी­था­दि­द्वा­राऽ­ङ्ग­तया नित्यानि, उत क्रत्व­ङ्गा­प्प्र­ण­य­न­श्रयो गोदोहनसंयोगः पशु­फ­ला­र्थ­त्वा­द­नि­त्य­त्वेन यथा प्रयुज्यते यथा वा पश्व­ङ्ग­यू­पा­श्रयं बैल्व­त्व­म­न्ना­द्य­फ­ल­त्वा­द­नित्यं तथा कर्म­स­मृ­द्या­दि­फ­ल­क­त्वा­दु­पा­स­ना­न्य­न­ङ्ग­त्वे­ना­नि­त्या­नीति संशयार्थः । पूर्वपक्षे उपासनानां प्रयो­ग­नि­त्यत्वं, सिद्धान्ते त्वनित्यत्वमिति फलभेदः ।

अनि­त्य­भो­ज­ना­श्र­य­प्रा­णा­ग्नि­हो­त्र­स्या­नि­त्य­त्व­व­न्नि­त्य­क­र्मा­ङ्गो­पा­स्तीनां नित्यत्वमिति प्रत्यु­दा­ह­र­ण­दृ­ष्टा­न्तेन पूर्वपक्षमाह -
किं तावदिति ।

उपासनानि कर्माङ्गानि, अफलत्वे सति कर्मा­ङ्गा­श्रि­त­त्वा­त्प­र्ण­म­यी­त्वा­दि­वत् । तथा चाङ्गतया प्रयोगविधिना नित्येन प्रयुज्यन्त इति प्राप्ते सिद्धान्तसूत्रं व्याचष्टे -
यानीत्यादिना ।
उद्गीथादयः कर्मणां गुणाः अङ्गानि तेषां याथात्म्यं रसतमत्वादिकं तन्नि­र्धा­र­णा­न्यु­पा­स­नानि यानि तानि कर्मसु नित्य­प­र्ण­म­यी­त्वा­दि­वन्न निय­म्ये­र­न्नि­त्यर्थः ।

एषां कर्माङ्गत्वे तद्धी­न­स्या­वि­दुषः कर्म न स्यादङ्गलोपात्, तस्मादविदुषोऽपि कर्म­क­र्तृ­त्व­श्रु­ति­लि­ङ्गै­र­ङ्ग­त्वा­नु­मा­न­बाध इत्याह -
तद्दृष्टेरिति ।
तस्यानियमस्य दर्शनादित्यर्थः ।

तां चेद­वि­द्वा­न्प्र­स्तो­ष्यसि मूर्धा ते व्यपतिष्यतीति चाक्रा­य­णे­न­र्त्वि­जा­मा­क्षि­प्त­त्वा­द­नु­पा­स­का­ना­मपि कर्म­प्र­यो­गोऽ­स्ती­त्याह -
प्रस्तावादीति ।

उपास्तीनां कर्म­फ­ला­त्पृ­थ­क्फ­ल­श्रु­तेर्न कर्मा­ङ्ग­त्व­मि­त्याह -
अपि चेति ।
तेनोमित्यक्षरेण यश्चैतदक्षरमेवं रसतमत्वादिरूपेण वेदोपास्ते यश्च न वेद तावुभौ कर्म कुरुत एव यद्यपि तथापि तु विद्या­वि­द्य­यो­र्ना­नात्वं भिन्नफलत्वम् । दृष्टं हि मणिविक्रये ज्ञाना­ज्ञा­नाभ्यां वणिक्शबरयोः फलवैषम्यं, तस्माद्यदेव कर्म विद्य­यो­द्गी­था­द्यु­पास्त्या श्रद्ध­या­स्ति­क्य­बु­द्ध्यो­प­नि­षदा रह­स्य­दे­व­ता­ध्या­नेन करोति तदेव कर्म फला­ति­श­य­व­दि­त्यर्थः । कर्मणो वीर्यवत्त्वं नाम फलवत्त्वं विद्याहीनस्यापि गम्यमानं विद्याया अनङ्गत्वे लिङ्गमिति भावः ।

साम्नि लोका­दि­दृ­ष्ट्यु­पा­स­नेषु कर्म­स­मृ­द्य­ति­रि­क्त­लो­का­दि­फ­ल­श्रु­तेश्च नाङ्गत्वमित्याह -
तथेति ।
अस्मै विदुषे कल्पन्ते भोगाय समर्था भवन्ति भूमेरूर्ध्वा लोका आवृत्ता अध­स्त­ना­श्चे­त्यर्थः ।

तथा हि गुणवाद इति ।
फल­श्रु­ते­र­र्थ­वा­द­मा­त्रत्वे स्तुतिलक्षणा स्यात्, सा न युक्ता, मुख्यवृत्त्या फलपरत्वसंभवात् । प्रया­जा­नु­या­ज­क­र्मणां तु प्रक­र­णा­द्द­र्शा­द्य­ङ्ग­त्व­ला­भा­द्भ्रा­तृ­व्या­भि­भू­ति­फ­ल­श्रु­ते­र­गत्या स्तुति­ल­क्ष­कत्वं, यद्यपि पर्ण­म­यी­त्वा­दी­ना­म­ङ्ग­त्व­बो­धकं प्रकरणं नास्ति तथापि तेषु फलश्रुतेः स्तुतित्वं, तेषा­म­क्रि­या­त्वेन क्रियासंबन्धं विना फल­हे­तु­त्वा­नु­प­प­त्ते­र­त­स्तेषां फलार्थं क्रिया­पे­क्षि­त्वा­त्क्र­तोश्च जुहू­प्र­कृ­ति­द्र­व्या­का­ङ्क्षि­त्वा­त्प­र्ण­मयी जुहू­रि­त्या­दि­वा­क्ये­नैव प्रकृ­ति­द्र­व्या­र्प­केण जुहूद्वारा संनि­हि­त­क्र­त्व­ङ्ग­त्व­सि­द्धे­र्युक्तं फल­श्रु­ते­र­र्थ­वा­द­त्व­मिति भावः ।

अक्रि­या­त्म­क­गो­दो­ह­ना­दे­रपि फल­श्रु­ति­र­र्थ­वादः स्यादत आह -
गोदोहनादीनां हीति ।
यदपः प्रण­ये­त्त­त्प­शु­का­मस्य सतो गोदोहनेन ब्रह्म­व­र्च­स­का­मस्य कांस्येतीति फलार्थविधिरेव नार्थवादः गोदोहनादेः क्रत्व­ना­का­ङ्क्षि­त­त्वे­ना­ङ्ग­त्वा­भा­वात्, चमसेन निरा­का­ङ्क्ष­क्रि­या­सं­ब­न्धि­तया स्वफ­ल­सा­ध­क­त्व­सं­भ­वात् । तथा खादिरत्वेन निरा­का­ङ्क्ष­क्र­त्व­ङ्ग­यू­प­मा­श्रित्य बैल्व­म­न्ना­द्य­का­मस्य खादिरं वीर्यकामस्येति फला­र्थ­वि­धि­रे­वार्थः ।

पर्णमयीत्वादिषु फलविधिः किं न स्यादत आह -
न त्विति ।
एवंविधो यूपा­दि­व­न्नि­रा­काङ्क्ष इत्यर्थः ।

जुहूरेवाश्रय इत्यत आह -
वाक्येनेति ।
जुह्वाः प्रकृ­ति­द्र­व्या­पे­क्षि­त्वा­द­ने­नैव वाक्येन क्रत्वङ्गतया जुहू­प्र­कृ­ति­द्र­व्य­सं­बन्धो विधेयः पश्चा­न्नि­रा­का­ङ्क्ष­जु­हू­मा­श्रित्य तस्यैव प्रकृ­ति­द्र­व्यस्य फलसंयोगो विधेय इति वाक्यभेद इत्यर्थः ।

पर्ण­ता­दि­वै­ल­क्ष­ण्य­मु­पा­स­ना­ना­माह -
उपासनानां त्विति ।
स्वयं क्रिया­त्वा­द्या­गा­दि­व­त्फ­ल­वि­शि­ष्ट­त्वेन विधा­नो­प­प­त्ति­रि­त्यर्थः । तस्मादिति अङ्ग­त्वा­वे­द­क­मा­ना­भा­वा­दि­त्यर्थः । अत एवेति अन­ङ्ग­त्वा­दे­वे­त्यर्थः । तस्मा­द­ङ्गो­पा­स्त्य­भा­वेऽपि कर्माधिकार इति सिद्धम् ॥४२॥