भाष्यरत्नप्रभाव्याख्या
तन्निर्धारणाधिकरणम्
तन्निर्धारणा ।
उभयथा दृष्टान्तदर्शनात्संशयमाह -
किं तानीति ।
यथानाराभ्याधीतपर्णमयीत्वं जुहूद्वारा क्रत्वङ्गतया कर्मसु नित्यं प्रयुज्यते, तथाङ्गाश्रितोपासनान्युद्गीथादिद्वाराऽङ्गतया नित्यानि, उत क्रत्वङ्गाप्प्रणयनश्रयो गोदोहनसंयोगः पशुफलार्थत्वादनित्यत्वेन यथा प्रयुज्यते यथा वा पश्वङ्गयूपाश्रयं बैल्वत्वमन्नाद्यफलत्वादनित्यं तथा कर्मसमृद्यादिफलकत्वादुपासनान्यनङ्गत्वेनानित्यानीति संशयार्थः । पूर्वपक्षे उपासनानां प्रयोगनित्यत्वं, सिद्धान्ते त्वनित्यत्वमिति फलभेदः ।
अनित्यभोजनाश्रयप्राणाग्निहोत्रस्यानित्यत्ववन्नित्यकर्माङ्गोपास्तीनां नित्यत्वमिति प्रत्युदाहरणदृष्टान्तेन पूर्वपक्षमाह -
किं तावदिति ।
उपासनानि कर्माङ्गानि, अफलत्वे सति कर्माङ्गाश्रितत्वात्पर्णमयीत्वादिवत् । तथा चाङ्गतया प्रयोगविधिना नित्येन प्रयुज्यन्त इति प्राप्ते सिद्धान्तसूत्रं व्याचष्टे -
यानीत्यादिना ।
उद्गीथादयः कर्मणां गुणाः अङ्गानि तेषां याथात्म्यं रसतमत्वादिकं तन्निर्धारणान्युपासनानि यानि तानि कर्मसु नित्यपर्णमयीत्वादिवन्न नियम्येरन्नित्यर्थः ।
एषां कर्माङ्गत्वे तद्धीनस्याविदुषः कर्म न स्यादङ्गलोपात्, तस्मादविदुषोऽपि कर्मकर्तृत्वश्रुतिलिङ्गैरङ्गत्वानुमानबाध इत्याह -
तद्दृष्टेरिति ।
तस्यानियमस्य दर्शनादित्यर्थः ।
तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते व्यपतिष्यतीति चाक्रायणेनर्त्विजामाक्षिप्तत्वादनुपासकानामपि कर्मप्रयोगोऽस्तीत्याह -
प्रस्तावादीति ।
उपास्तीनां कर्मफलात्पृथक्फलश्रुतेर्न कर्माङ्गत्वमित्याह -
अपि चेति ।
तेनोमित्यक्षरेण यश्चैतदक्षरमेवं रसतमत्वादिरूपेण वेदोपास्ते यश्च न वेद तावुभौ कर्म कुरुत एव यद्यपि तथापि तु विद्याविद्ययोर्नानात्वं भिन्नफलत्वम् । दृष्टं हि मणिविक्रये ज्ञानाज्ञानाभ्यां वणिक्शबरयोः फलवैषम्यं, तस्माद्यदेव कर्म विद्ययोद्गीथाद्युपास्त्या श्रद्धयास्तिक्यबुद्ध्योपनिषदा रहस्यदेवताध्यानेन करोति तदेव कर्म फलातिशयवदित्यर्थः । कर्मणो वीर्यवत्त्वं नाम फलवत्त्वं विद्याहीनस्यापि गम्यमानं विद्याया अनङ्गत्वे लिङ्गमिति भावः ।
साम्नि लोकादिदृष्ट्युपासनेषु कर्मसमृद्यतिरिक्तलोकादिफलश्रुतेश्च नाङ्गत्वमित्याह -
तथेति ।
अस्मै विदुषे कल्पन्ते भोगाय समर्था भवन्ति भूमेरूर्ध्वा लोका आवृत्ता अधस्तनाश्चेत्यर्थः ।
तथा हि गुणवाद इति ।
फलश्रुतेरर्थवादमात्रत्वे स्तुतिलक्षणा स्यात्, सा न युक्ता, मुख्यवृत्त्या फलपरत्वसंभवात् । प्रयाजानुयाजकर्मणां तु प्रकरणाद्दर्शाद्यङ्गत्वलाभाद्भ्रातृव्याभिभूतिफलश्रुतेरगत्या स्तुतिलक्षकत्वं, यद्यपि पर्णमयीत्वादीनामङ्गत्वबोधकं प्रकरणं नास्ति तथापि तेषु फलश्रुतेः स्तुतित्वं, तेषामक्रियात्वेन क्रियासंबन्धं विना फलहेतुत्वानुपपत्तेरतस्तेषां फलार्थं क्रियापेक्षित्वात्क्रतोश्च जुहूप्रकृतिद्रव्याकाङ्क्षित्वात्पर्णमयी जुहूरित्यादिवाक्येनैव प्रकृतिद्रव्यार्पकेण जुहूद्वारा संनिहितक्रत्वङ्गत्वसिद्धेर्युक्तं फलश्रुतेरर्थवादत्वमिति भावः ।
अक्रियात्मकगोदोहनादेरपि फलश्रुतिरर्थवादः स्यादत आह -
गोदोहनादीनां हीति ।
यदपः प्रणयेत्तत्पशुकामस्य सतो गोदोहनेन ब्रह्मवर्चसकामस्य कांस्येतीति फलार्थविधिरेव नार्थवादः गोदोहनादेः क्रत्वनाकाङ्क्षितत्वेनाङ्गत्वाभावात्, चमसेन निराकाङ्क्षक्रियासंबन्धितया स्वफलसाधकत्वसंभवात् । तथा खादिरत्वेन निराकाङ्क्षक्रत्वङ्गयूपमाश्रित्य बैल्वमन्नाद्यकामस्य खादिरं वीर्यकामस्येति फलार्थविधिरेवार्थः ।
पर्णमयीत्वादिषु फलविधिः किं न स्यादत आह -
न त्विति ।
एवंविधो यूपादिवन्निराकाङ्क्ष इत्यर्थः ।
जुहूरेवाश्रय इत्यत आह -
वाक्येनेति ।
जुह्वाः प्रकृतिद्रव्यापेक्षित्वादनेनैव वाक्येन क्रत्वङ्गतया जुहूप्रकृतिद्रव्यसंबन्धो विधेयः पश्चान्निराकाङ्क्षजुहूमाश्रित्य तस्यैव प्रकृतिद्रव्यस्य फलसंयोगो विधेय इति वाक्यभेद इत्यर्थः ।
पर्णतादिवैलक्षण्यमुपासनानामाह -
उपासनानां त्विति ।
स्वयं क्रियात्वाद्यागादिवत्फलविशिष्टत्वेन विधानोपपत्तिरित्यर्थः । तस्मादिति अङ्गत्वावेदकमानाभावादित्यर्थः । अत एवेति अनङ्गत्वादेवेत्यर्थः । तस्मादङ्गोपास्त्यभावेऽपि कर्माधिकार इति सिद्धम् ॥४२॥