भाष्यरत्नप्रभाव्याख्या
तदभावाधिकरणम्
एवं बाह्यकरणोपरमे सति मनोवासनोद्दीपिताविद्याविलासात्मकं स्वप्नमात्मनःसाक्षिणः स्वयञ्ज्योतिष्ट्वार्थं विचार्य प्रतियोग्यनुयोगिभावसङ्गत्या स्वप्नावस्थमनोलयात्मिकां सुषुप्तिं विचारयति -
तदभावो नाडीषु तच्छ्रुतेरात्मनि च ।
तदेतत्स्वपनं यथा स्यात्तथा । यत्र काले सुप्तः सुषुप्तः समस्तो निरस्तबाह्यकरणो मनोलयात्सम्यक्प्रसङ्ग इत्यर्थः ।
स्वापे नाडीस्थानमुक्त्वा नाडीपुरीततोर्नाडीपरमात्मनोश्च समुच्चयश्रुती आह -
अन्यत्रेति ।
परमात्ममात्रश्रुतीराह -
तथान्यत्रेत्यादिना ।
नाडीपुरीतब्रह्मसु सप्तमीश्रुतेः समुच्चयश्रुतेश्च संशयमाह -
तत्रेति ।
पूर्वपक्षे स्थानविकल्पाज्जीवस्य ब्रह्मैक्यानिर्णयः, सिद्धान्ते नाडीभिः पुरीततं गत्वान्तर्हृदि ब्रह्मण्येव शेत इति समुच्च्यात्तन्निर्णय इति विवेकः ।
एकपुरोडाशार्थत्वं व्रीहियवयोर्दृष्टं नाड्यादीनामेकस्मिन् स्वापरूपार्थे निरपेक्षस्थानत्वं तु कुत इत्यत आह -
नाड्यादीनां चेति ।
सति ब्रह्मणि तृतीयाश्रुतेर्न सप्तमीति शङ्कार्थः ।
आयतनशब्दात्सप्तम्यर्थ आधारत्वं गम्यत इत्याह -
नैष दोष इति ।
अन्यत्रावस्थाद्वये श्रान्तो जीवो विश्रान्तिस्थानं प्राणाख्यं सद्ब्रह्मोपसर्पति सुषुप्तावित्यर्थः । सप्तमीश्रुत्या निरपेक्षाधारत्वभानाद्विकल्प आस्थेयः कदाचित्समुच्चित्यापि नाड्यादीनां स्थानत्वमिति न समुच्चयश्रुतिविरोध इति पूर्वपक्षार्थः ।
सिद्धान्तयति -
एवं प्राप्त इति ।
सूत्रे चकारः पुरीतत्समुच्चयार्थः ।
यदा नाड्यः सुषुप्तिस्थानं तदा पुरीतत्स्थानं न भवतीति श्रुतस्थानत्वस्य पक्षे बाधः स्यात्, स न युक्त इत्याह -
विकल्पे ह्येषामिति ।
व्रीहियवयोस्त्वगत्या विकल्प इति भावः ।
यत्तु सप्तमीश्रुत्या नाड्यादीनामेकफलकत्वमिति, तन्नेत्याह -
न ह्येकेति ।
प्रासादस्य पर्यङ्कधारणमर्थः । पर्यङ्कस्य तु शयनमिति फलभेदेऽप्येकविभक्तिर्दृश्यते, व्यवधानाव्यवधानाभ्यां शयनसाधनत्वात्समुच्चयश्च, तथेहापि नाडीपुरीततोर्जीवस्य संचारद्वारा ब्रह्मण्येव सुप्तिरिति समुच्चय इत्यर्थः ।
नाडीनां प्राणस्य च एकेन वाक्येनोपादानान्मिथः समुच्चय इत्याह -
एकवाक्येति ।
आधारत्वमात्रं सप्तम्यर्थो न निरपेक्षत्वमतो न समुच्चयस्य सप्तम्या बाध इत्याह -
न चैवमपीति ।
समुच्चयेऽपीत्यर्थः ।
अत्र नाडीश्रुतौ नाडीषु भोक्तुः सुप्तिर्न विवक्षिता रश्मिसंबन्धनाडीरूपमार्गस्तुत्यर्थत्वादित्याह -
अपि चेति ।
पित्तेन विषयेक्षणाभावे सुखदुःखयोरभावात्तद्धेतुधर्माधर्मात्मकपाप्मास्पर्श इत्यर्थः ।
अपहतपाप्मब्रह्मसंपत्त्या वा पाप्मास्पर्श इत्याह -
अथवेति ।
अस्मिन् व्याख्याने लाभमाह -
एवं च सतीति ।
'तासु तदा भवत्यथास्मिन् प्राण एवैकधा भवति' इति श्रुतेः समुच्चय आश्रितो भवतीत्यर्थः ।
नाडीब्रह्मणोर्गुणप्रधानभावेन सुप्तौ समुच्चयवत्पुरीतद्ब्रह्मणोरपीत्याह -
तथेत्यादिना ।
आकाशे ब्रह्मणि शेत इत्युपक्रम्य ताभिः प्रत्यवसृप्य पुरीतति शेत इत्युक्तं, तथाच नाडीद्वारा पुरीततं गत्वा ब्रह्मणि शेत इति समुच्चयः सिद्ध इत्याह -
तथा नाडीति ।
सता संपन्नो भवति प्राज्ञेन संपरिष्वक्त इति सत्प्राज्ञयोः श्रुतेः पञ्च सुप्तिस्थानानीत्यत आह -
सत्प्राज्ञयोरिति ।
किञ्च प्रकृतदर्शादिसाधनैकपुरोडाशनिष्पत्तौ मिथोऽनपेक्षतया समर्थत्वाद्युक्तो व्रीहियवयोर्विकल्पः, नाड्यादीनां तु ब्रह्मनिरपेक्षतया सुषुप्तजीवाधारत्वासामर्थ्यान्न विकल्प इत्याह -
अपि च नाड्य इति ।
उपाधिलिङ्गाश्रयनाडीपुरीततोरुपहितजीवाश्रयत्वं परम्परया वाच्यं, तदपि सुषुप्तौ न संभवति, उपाधिलयादित्यर्थः ।
ननु ब्रह्मापि जीवस्य न मुख्यं स्थानमभेदादित्यत आह -
ब्रह्माधारत्वमिति ।
जीवस्य ब्रह्मण्यभेदेनावस्थानं नाडीपुरीततोस्तु लीनोपाधेर्जीवस्य स्थितिरेव न संभवतीत्येकार्थसामर्थ्याभावान्न विकल्प इत्यर्थः ।
सुषुप्तौ जीवस्य भेदकोपाधिलयाच्चौत्सर्गिकब्रह्माभेदस्य विकल्पो न युक्त इत्याह -
अपिचेति ।
किञ्च नाड्यादीनामन्यतमस्थाने क्वचित्सुप्तिवादिनापि सुषुप्तं न विशिष्यत इति वक्तव्यं, तच्च वक्तुं न शक्यत इत्याह -
अपिच स्थानेति ।
भेदाभावो हि भेदज्ञानाभावे हेतुः, नाडीपूरितद्रतस्य तु जीवस्य भेदावस्थत्वाद्भेदाविज्ञाने करणं नास्तीत्यर्थः ।
द्वैतावस्थस्यापि द्वैताज्ञाने हेतुं शङ्कते -
ननु भेदेति ।
द्रष्टुर्दृश्याद्दूरस्थत्वं स्वाभाविकमौपाधिकं वा । तत्राद्यं सदृष्टान्तमनूद्य प्रत्याह -
बाढमित्यादिना ।
द्वितीयमनूद्य दूषयति -
उपाधिगतमेवेति ।
उपाधिसंभिन्नस्यैव नाड्यादौ स्वापे कतिपयसंनिकृष्टार्थज्ञानप्रसङ्गात्सुषुप्तिव्याघातः स्यात् । उपाधिलये त्वन्यत्र जीवस्य स्थित्ययोगाद्ब्रह्मण्येव स्वाप आस्थेय इत्यर्थः ।
एवं विकल्पं निरस्य नाडीपुरीततोर्ब्रह्मणा सह तुल्यवत्समुच्चयमफलत्वेन दूषयन् गुणप्रधानत्वेन समुच्चयमुपसंहरति -
न च वयमित्यादिना ॥७॥
किञ्च ब्रह्मणः सकाशाज्जीवस्योत्थानश्रुतेर्ब्रह्मैव सुषुप्तिस्थानमित्याह सूत्रकारः -
अतः प्रबोध इति ।
नाडीपुरीततोः क्वाप्युत्थानापादानत्वाश्रवणान्न सुषुप्तिस्थानत्वमित्यर्थः, तस्मादुपाधिलये जीवस्य ब्रह्माभेदादौपाधिक एव भेद इति विवेकाद्वाक्यार्थाभेदसिद्धिरिति स्थितम् ॥८॥