अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

तदोकोऽधिकरणम्

तदोकोग्रज्वलनम् ।

सृते­र्मा­र्ग­स्यो­प­क्रमो नाडी­प्र­वे­श­नि­य­मस्तं वक्तुं सूत्र­भा­ग­व्या­ख्या­द्वा­रा­धि­क­र­ण­वि­ष­य­माह -
तस्येति ।
स मुमू­र्षु­स्ते­जो­मात्रा इन्द्रियाणि । तस्य हृदयस्याग्रं नाडीमुखं तस्य ज्वलनं भाविफलस्फुरणं प्रद्योताख्यम् । चक्षुष्टो वेत्य­नि­य­म­श्रु­ते­स्त­यो­र्ध्व­मा­य­न्निति विशेषश्रुतेश्च संशयः किमु­पा­स­कोऽ­प्य­नु­पा­स­क­व­द्येन केनचिद्द्वारेण निर्गच्छति उत मूर्ध­न्य­ना­ड्यै­वेति । अत्र पूर्वपक्षे विद्या­कृ­ता­ति­श­या­सिद्धिः, सिद्धान्ते तत्सिद्धिरिति विवेकः ।

वच­ना­द­वि­भा­ग­व­द­नि­यम इति प्राप्ते सिद्धान्तयति -
आचष्ट इति ।
येन केनचिन्मार्गेण निर्गतस्यापि ब्रह्म­लो­क­प्राप्तौ विद्याशेषत्वेन मार्गा­नु­स्मृ­ति­विधेः केव­ला­दृ­ष्टा­र्थत्वं स्यादतोऽन्वहं स्मृतेनैव मार्गेण गमनं युक्तमिति भावः । हार्दं ब्रह्म । विष्वङ्नानाविधा अन्या नाड्योऽ­न्ये­षा­मि­त्यर्थः । सुषुम्नाख्या नाडी हृदयान्निर्गता दक्षि­णा­क्षि­ता­लु­क­ण्ठा­न्त­स्त­न­ना­सि­का­म­ध्य­भि­त्ति­द्वारा ब्रह्मरन्ध्रं प्राप्ता सूर्य­र­श्मि­भि­रे­की­कृता ब्रह्मलोकमार्ग उपासकस्येति स्थितम् ॥१७॥