अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

आत्मत्वोपासनाधिकरणम्

आत्मेति तूपगच्छन्ति ग्राहयन्ति च ।

पूर्वत्र ध्याना­दे­रा­वृ­त्ति­रुक्ता तामुपजीव्य तत्त्व­ज्ञा­नार्थं ध्याना­वृ­त्ति­काले किमहं ब्रह्मेति ध्यातव्यमुत मत्स्वामीश्वर इत्यै­क्य­भे­द­मा­नाभ्यां संशयमाह -
य इति ।

शब्दादेव प्रमित इत्यादावयमात्मा ब्रह्मे­त्या­द्य­भे­द­श्रु­ति­भि­रै­क्य­नि­र्ण­या­त्सं­श­य­मा­क्षि­पति -
कथमिति ।

भेद­श्रु­त्य­नु­ग्र­हा­द्भे­द­प्र­त्य­क्षा­दि­प्रा­ब­ल्य­मा­लम्ब्य संशय इत्याह -
उच्यत इति ।
अभेदश्रुतीनां गौणत्वमुख्यत्वे उभयत्र फलम् , यद्यप्ययं प्रत्य­क्षा­दि­वि­रो­ध­प­रि­हारो द्विती­या­ध्या­य­स­ङ्ग­त­स्त­था­प्यै­क्य­श्रु­ते­र­वि­रु­द्ध­त्व­नि­श्च­यस्य समा­धा­व­न्त­र­ङ्ग­त्वा­दिह सङ्गतिः ।

विरु­द्ध­यो­रै­क्य­दृ­ष्टि­र­सि­द्धे­त्याह -
नाहमिति ।

किञ्च किमीश्वरस्य जीव­मा­त्र­त्व­मैक्यं जीव­स्ये­श्व­र­मा­त्रत्वं वेति विकल्प्य क्रमेण दूषयति -
ईश्वरस्य चेत्यादिना ।

एक­त्व­श्रु­ति­प्रा­मा­ण्या­यै­क्य­ध्यानं कार्यमिति शङ्कते -
अन्यत्वेऽपीति ।
एक­त्व­ध्या­न­म­स्म­दि­ष्ट­मेव ।

एकत्वं तु नास्तीत्याह -
काममिति ।

अभेदश्रुतीनां फल­व­द­पू­र्वा­र्थ­ता­त्प­र्येण गौण­त्वा­यो­गा­द्भे­द­श्रु­तीनां कल्पि­त­भे­दा­नु­वा­दि­त्वा­त्प्र­त्य­क्षा­दे­रपि तद्वि­ष­य­त्वा­द्बि­म्ब­प्र­ति­बि­म्ब­यो­रिव विरुद्धधर्माणां मिथ्या­त्वा­न्मु­ख्य­मै­क्य­मिति सिद्धान्ययति -
एवमित्यादिना ।

ईश्वरस्य जीवत्वं न प्रतिपाद्यं येनेश्वराभावः स्यात्किन्तु जीव­स्ये­श्व­र­त्वम् । न चैवमधिकार्यभावः । एक­त्व­प्र­बो­धा­त्प्रा­ग­धि­का­रि­भे­दा­ङ्गी­का­रा­दि­त्याह -
यत्पु­न­रु­क्त­मि­त्या­दिना ।

वेद­स­त्य­त्व­श्र­द्धालुः शङ्कते -
प्रत्य­क्षा­द्य­भाव इति ।

वर्णेषु क्रम­स्व­र­यो­र­भा­वा­दु­प­ल­ब्ध­ध्व­नि­स्थ­यो­रा­रोपो वाच्यस्तथा चारो­पि­त­क्र­म­स्व­र­वि­शि­ष्ट­व­र्णा­त्म­क­वे­दस्य मिथ्यात्वं दुर्वारम् , वादिनां सत्य­त्वा­ग्र­ह­स्त्व­वि­द्या­वि­जृ­म्भित इति वेदसत्यत्वाभावो न दोष इत्याह -
नेति ।

अवि­द्या­मा­क्षि­पति -
कस्येति ।

प्रश्नलिङ्गेन त्वय्येव तस्याः सिद्धे­स्त्व­दा­क्षे­पा­नु­प­प­त्ति­रि­त्याह -
यस्त्वमिति ।
अज्ञा­न­मू­ल­त्वा­त्प्र­श्ना­दे­रिति भावः ।

सर्वज्ञाभिन्ने मयि कथमज्ञानमिति शङ्कते -
नन्विति ।

अभे­द­ज्ञा­ना­त्प्रा­क्चि­न्मा­त्रस्य तवै­वा­ज्ञा­ना­श्र­य­त्व­म­नु­भ­व­सि­द्धा­ज्ञा­न­स्या­प­ला­पा­यो­गात् । ज्ञाने त्वनिर्वाच्यस्य तस्य बाधा­न्ना­श्र­या­पे­क्षे­त्याह -
यद्येवमिति ।

अनिर्वाच्यत्वेन दोषान्तरमपि निरस्तमित्याह -
योऽपीति ॥३॥