भाष्यरत्नप्रभाव्याख्या
अभावाधिकरणम्
नाभाव उपलब्धेः ।
अखण्डनिर्विशेषं ब्रह्म विज्ञानं बाह्यार्थोपादानं वदतां वेदान्तानां भिन्नं साकारं क्षणिकं विज्ञानं न ततोऽन्योऽर्थोऽस्तीति योगाचारमतेन विरुध्यते न वेति तन्मतस्य मानभ्रान्तिमूलत्वाभ्यां संशये पूर्वोक्तबाह्यार्थवादनिरासमुपजीव्य पूर्वपक्षमाह -
एवमित्यादिना ।
पूर्वोत्तरपक्षयोर्विरोधाविरोधौ फलम् ।
नन्वेकस्य सुगतागमस्य कथं बाह्यार्थसत्त्वासत्त्वयोस्तात्पर्यं विरोधादित्याशङ्क्याधिकारिभेदादविरोध इति वदन् विज्ञानवादिनः सुगताभिप्रायज्ञत्वेन मन्दाधिकारिभ्यो बाह्यार्थवादिभ्यः श्रैष्ठ्यमाह -
केषाञ्चिदिति ।
उक्तं च धर्मकीर्तिना 'देशना लोकनाथानां सत्त्वाशयवशानुगाः' इति । सुगतानामुपदेशाः शिष्यमत्यनुसारिण इत्यर्थः ।
नन्वसति बाह्यार्थे मानमेयव्यवहारः कथम् , तत्राह -
तस्मिन्निति ।
विज्ञानमेव कल्पितनीलाद्याकारत्वेन प्रमेयम् , अवभासात्मना मानफलम् , शक्त्यात्मना मानम् , शक्त्याश्रयत्वाकारेण प्रमातेति भेदकल्पनया व्यवहार इत्यर्थः ।
मुख्य एव भेदः किं न स्यादत आह -
सत्यपीति ।
न हि बुद्ध्यनारूढस्य नीलादेः प्रमेयत्वव्यवहारोऽस्ति । अतो बुद्ध्यारूढाकार एव प्रमेयं न बाह्यमित्यर्थः ।
बाह्यार्थासत्त्वे प्रश्नपूर्वकं युक्तीरुपन्यस्यति -
कथमित्यादिना ।
ज्ञेयं ज्ञानातिरेकेणासत् , तदतिरेकेणासम्भवात् , नरशृङ्गवदित्याह -
तदसम्भवादिति ।
असम्भवं विवृणोति -
स हीति ।
परमाणवश्चेदेकस्थूलस्तम्भ इति ज्ञानं न स्यात् । समूहस्त्वसन्नित्यर्थः ।
अवयव्यभावेऽपि जात्यादयो बाह्यार्थाः स्युः, तत्राह -
एवमिति ।
जातिगुणकर्मणां धर्मिणः सकाशादभेदेऽत्यन्तभेदे वा धर्मिवद्धर्म्यन्तरवच्च न धर्मधर्मिभावः । भेदाभेदौ च विरुद्धाविति न सन्ति जात्याद्यर्था इत्यर्थः ।
किञ्च ज्ञानस्य ज्ञेयसारूप्यरूपविशेषसम्बन्धाभावे सर्वविषयत्वापत्तेर्विशेषोऽङ्गीकार्यः, तथा च ज्ञानगतविशेषस्यैव ज्ञानेन विषयीकरणान्न बाह्यार्थसिद्धिर्मानाभावाद्गौरवाच्चेत्याह -
अपि चेति ।
पक्षपातो विषयविशेषवैशिष्ट्यव्यवहारः ।
किञ्च ज्ञेयं ज्ञानाभिन्नम् , ज्ञानोपलम्भक्षणनियतोपलम्भग्राह्यत्वात् , ज्ञानवदित्याह -
अपि चेति ।
ज्ञानार्थयोः वास्तवभेदेऽपि सहोपलम्भनं स्यात् , ग्राह्यग्राहकभावादित्यत आह -
न चैतदिति ।
क्षणिकज्ञानस्यार्थेन सम्बन्धहेत्वभावान्न ग्राह्यग्राहकभाव इत्यर्थः ।
किञ्च जाग्रद्विज्ञानं न बाह्यालम्बनम् , विज्ञानत्वात् , स्वप्नादिज्ञानवदित्याह -
स्वप्नेति ।
विज्ञानानां वैचित्र्यानुपपत्तिबाधितमनुमानमिति शङ्कते -
कथमिति ।
अन्यथोपपत्त्या परिहरति -
वासनेति ।
अनादिसन्तानान्तर्गतपूर्वज्ञानमेव वासना, तद्वशादनेकक्षणव्यवधानेऽपि नीलाद्याकारज्ञानवैचित्र्यं भवति, यथा बीजवासनया कार्पासरक्तत्वं तद्वदित्यर्थः ।
उभयवादिसम्मतत्वाच्च वासना एव ज्ञानवैचित्र्यहेतवो न बाह्यार्था इत्याह -
अपि चेति ।
क्षणिकविज्ञानमात्रवादस्य मानमूलत्वात्तेन नित्यविज्ञानवादो विरुध्यत इति प्राप्ते सिद्धान्तसूत्रं व्याचष्टे -
नाभाव इत्यादिना ।
किं बाह्यार्थस्यानुपलब्धेरभाव उत ज्ञानाद्भेदेनानुपलब्धेः ।
नाद्य इत्युक्तम् -
उपलब्धेरिति ।
द्वितीयं शङ्कते -
ननु नाहमिति ।
ज्ञानज्ञेययोर्विषयिविषयभावेन भेदस्य साक्षिप्रत्यक्षसिद्धत्वात्प्रत्यक्षविरुद्धमभेदाभिधानमित्याह -
बाढमित्यादिना ।
त्वद्वचनादपि जनो बाह्यार्थं ज्ञानाद्भेदेनैवोपलभत इत्याह -
अतश्चेति ।
बाह्यार्थस्यात्यन्तासत्त्वे प्रत्यक्षोपलम्भायोगात् , दृष्टान्तत्वासम्भवाच्च बहिर्वच्छब्दो न स्यादित्याह -
इतरथेति ।
अबाधितभेदानुभवादेवकारो युक्तो न वत्कार इत्याह -
तस्मादिति ।
ज्ञेयार्थो ज्ञानातिरेकेणासन्नसम्भवादित्युक्तबाधाद्वत्करणमिति शङ्कते -
नन्विति ।
कोऽसावसम्भवः, असत्त्वं वा असत्त्वनिश्चयो वा अयुक्तत्वं वा उत्कटकोटिकसंशयात्मकसम्भवस्याभावो वा । नाद्यः, साध्याभेदात् ।
न द्वितीयः, स्थूलौ घटस्तम्भाविति समूहालम्बने स्थूलत्वद्वित्वघटत्वस्तम्भत्वरूपविरुद्धधर्मवतोरर्थयोरस्थूलादेकस्माद्वयावगाहिविज्ञानाद्भेदसत्त्वनिश्चये नासम्भवासिद्धरित्याह -
नायं साधुरिति ।
सम्भवः सत्तानिश्चयः प्रमाणाधीनः ।
असम्भवोऽसत्त्वनिश्चयः प्रमाणाभावाधीनो न वैपरीत्यमिति व्यवस्थामेव स्फुटयति -
यद्धीति ।
उक्तव्यवस्थायाः फलं बाह्यार्थस्य प्रत्यक्षादिभिः सम्भवं वदन्नेव तृतीयं दूषयति -
इहेति ।
प्रमाणनिश्चितबाह्यार्थस्य स्तम्भादेः परमाणुभ्यो भेदाभेदविकल्पैरयुक्तत्वमात्रेणासत्त्वनिश्चयो न युक्तः, त्वत्पक्षेऽप्ययुक्तत्वस्य तुल्यत्वात् । न ह्यस्थूलस्यैकस्य विज्ञानस्य स्थूलानेकसमूहालम्बनस्य विषयाभेदो युक्तः, स्थूलत्वानेकत्वप्रसङ्गात् । न चेष्टापत्तिः, समूहालम्बनोच्छेदे विज्ञानानां मिथो वार्तानभिज्ञतया विषयद्वित्वादिव्यवहारलोपापत्तेः । तस्मादयुक्तत्वेऽपि यथानुभवं व्यवहारयोग्योऽर्थः स्वीकार्यः । न चतुर्थः, निश्चिते तादृशसम्भवस्यानुपयोगात् । तस्य क्वचित्प्रमाणप्रवृत्तेः पूर्वाङ्गत्वादिति भावः ।
यच्चोक्तं ज्ञानगतार्थसारूप्यस्यैव ज्ञानालम्बनत्वोपपत्तेर्बहिरर्थाभाव इति, तत्राह -
न चेति ।
यत्तु गौरवमुक्तम् , तन्न दूषणम् , प्रामाणिकत्वादित्याह -
बहिरिति ।
यत एव ज्ञानार्थयोर्भेदः सर्वलोके साक्ष्यनुभवसिद्धः, अत एव सहोपलम्भनियमोऽपि नाभेदसाधक इत्याह -
अत एवेति ।
यथा चाक्षुषद्रव्यरूपस्यालोकोपलम्भनियतोपलब्धिकत्वेऽपि नालोकाभेदः, तथार्थस्य न ज्ञानाभेदः, भेदेऽपि ग्राह्यग्राहकभावेन नियमेपपत्तेः । न च ज्ञानस्य क्षणिकत्वात्स्वभिन्नग्राह्यसम्बन्धायोगः, स्थायित्वादिति भावः ।
विज्ञानमनेकार्थेभ्यो भिन्नम् , एकत्वात् , गोत्ववदिति सत्प्रतिपक्षमाह -
अपि चेति ।
न च हेत्वसिद्धिः, ज्ञानं ज्ञानमित्येकाकारप्रतीतेर्ज्ञानैक्यनिश्चयात् ।
न च सा जातिविषया, व्यक्तिभेदानिश्चयादित्याह -
न विशेष्यस्येति ।
घटादेश्चैतन्याद्भेदमुक्त्वा वृत्तिज्ञानाद्भेदमाह -
तथेति ।
घटो द्वाभ्यां भिन्नः एकत्वात् , क्षीरवदित्यर्थः ।
ज्ञानभिन्नार्थानङ्गीकारे स्वशास्त्रव्यवहारलोपं बाधकमाह -
अपि चेति ।
क्रमिकयोः स्वप्रकाशयोः क्षणिकज्ञानयोर्मिथो ग्राह्यग्राहकत्वमयुक्तमनभ्युपगतं च । तथा च तयोर्भेदप्रतिज्ञा न युक्ता, धर्मिप्रतियोगिनोर्मिथः परेण चाग्रहेण भेदग्रहायोगात् । तथा च तयोर्भेदग्राहकः स्थाय्यात्मा तद्भिन्न एवैष्टव्यः । एवं पक्षसाध्यहेतुदृष्टान्तभेदाभावे इदं क्षणिकमसदिति प्रतिज्ञा न युक्ता । सर्वतो व्यावृत्तं व्यक्तिमात्रत्वं स्वलक्षणम् , अनेकानुगतं सामान्यमतद्व्यावृत्तिरूपमिति प्रतिज्ञा न युक्ता, सर्वानेकार्थानां ज्ञानमात्रत्वे मिथः परेण वा दुर्ज्ञानत्वातुत्तरनीलज्ञानं वास्यं पूर्वनीलज्ञानं वासकमिति प्रतिज्ञा न युक्ता, तयोर्भिन्नस्य ज्ञातुरभावात् । किञ्चाविद्योपप्लवोऽविद्यासंसर्गः, तेन नीलमिति सद्धर्मः, नरविषाणमित्यसद्धर्मः, अमूर्तमिति सदसद्धर्मः, सतो विज्ञानस्यासतो नरविषाणस्य वामूर्तत्वादिप्रतिज्ञा दुर्लभा, अनेकार्थज्ञानसाध्यत्वात् । अज्ञानेनास्य बन्धो ज्ञानेनास्य मोक्ष इति च प्रतिज्ञा बह्वर्थज्ञानसाध्या । आदिपदेन सामान्यत इष्टं ग्राह्यमनिष्टं त्याज्यमिति शिष्यहितेपदेशोऽनेकज्ञानसाध्यो गृहीतः । तस्मात्प्रतिज्ञादिव्यवहाराय ग्राह्यग्राहकभेदोऽङ्गीकार्य इत्यर्थः ।
ज्ञानार्थयोभेदे युक्त्यन्तरमस्तीत्याह -
किञ्चान्यदिति ।
ज्ञानवदर्थस्याप्यनुभवाविशेषात्स्वीकारो युक्त इत्यर्थः ।
स्वविषयत्वाद्विज्ञानं स्वीक्रियते नार्थः परग्राह्यत्वादिति शङ्कते -
अथ विज्ञानमिति ।
विरुद्धं स्वीकृत्याविरुद्धं त्यजता बौद्धतनयेन मौढ्यं दर्शितमित्याह -
अत्यन्तेति ।
ज्ञानं स्ववेद्यमित्यङ्गीकृत्य मौर्ख्यमापादितम् , वस्तुतः स्ववेद्यत्वमयुक्तमित्याह -
न चेति ।
कर्तरि क्रियां प्रति गुणभूते प्रधानत्वाख्यकर्मत्वायोगात्स्वकर्तृकवेदनकर्मत्वमसदित्यर्थः । न च स्वविषयत्वमात्रं स्ववेद्यत्वमिति वाच्यम् , अभेदे विषयविषयित्वस्याप्यसम्भवादिति भावः ।
ज्ञानस्य स्ववेद्यत्वाभावे दोषद्वयं स्यादिति शङ्कते -
नन्विति ।
अनवस्था च साम्यं चेति दोषद्वयं परिहरति -
तदुभयमपीति ।
अनित्यज्ञानस्य जन्मादिमत्वेन घटवज्जडस्य स्वेन स्वीयजन्मादिग्रहायोगादस्ति ग्राहकाकाङ्क्षा, साक्षिणस्तु सत्तायां स्फूर्तौ च निरपेक्षत्वान्नानवस्था । नापि साम्यम् । चिज्जडत्ववैषम्यादित्यर्थः ।
साक्षी क्वेत्यत आह -
स्वयंसिद्धस्येति ।
निरपेक्षस्य साक्षिणोऽसत्त्वे क्षणिकविज्ञानभेदासिद्धेः सोऽङ्गीकार्य इत्यर्थः ।
अनित्यज्ञानस्वरूपसाधकत्वाच्च साक्षी स्वीकार्य इत्याह -
किञ्चेति ।
विज्ञानं ज्ञानान्तरानपेक्षमिति ब्रुवता तस्याप्रामाणिकत्वमुक्तं स्यात् , स्वयं प्रथत इति ब्रुवता ज्ञातृशून्यत्वं चोक्तं स्यात् , तथा च ज्ञातृज्ञानाविषयत्वाच्छिलास्थप्रदीपवदसदेव विज्ञानं स्यात् । अतस्तत्साक्ष्येष्टव्य इत्यर्थः ।
विज्ञानस्य स्वान्यज्ञातृशून्यत्वमिष्टमेव त्वयापाद्यते न चासत्त्वापत्तिः ज्ञात्रभावादिति वाच्यम् , स्वस्यैव ज्ञातृत्वादिति शाक्यः शङ्कते -
बाढमिति ।
अभेदे ज्ञातृज्ञेयत्वायोगाज्ज्ञात्रन्तरमावश्यकमिति परिहरति -
नेति ।
विमतं विज्ञानं स्वातिरिक्तवेद्यम् , वेद्यत्वात् , देहवदित्यर्थः ।
अतिरिक्तः साक्षी किमन्यवेद्यः स्ववेद्यो वा । आद्येऽनवस्था । द्वितीये विज्ञानवाद एव भङ्ग्यन्तरेणोक्तः स्यादितिशङ्कते -
साक्षिण इति ।
त्वया विज्ञानं जन्मविनाशयुक्तमुच्यते । अतः कार्यस्य जडत्वनियमात्स्वातिरिक्तवेद्यत्वमस्माभिः साधितम् , कूटस्थचिदात्मनो ग्राहकानपेक्षत्वान्नानवस्थेति चोक्तमतो महद्वैलक्षण्यमावयोरेति परिहरति -
न । विज्ञानस्येति ॥२८॥
एवं वेद्यविज्ञानवदर्थस्याप्युपलब्धेर्न बाह्यार्थाभाव इत्युक्तम् । सम्प्रति जाग्रद्विज्ञानं स्वप्नादिविज्ञानवन्न बाह्यालम्बनमित्यनुमानं दूषयति -
वैधर्म्याच्चेति ।
किमत्र निर्विषयत्वं साध्यमुत पारमार्थिकविषयशून्यत्वम् , अथवा व्यावहारिकविषयशून्यत्वम् । नाद्यः, स्वप्नादिविभ्रमाणामपि मिथ्यार्थालम्बनत्वेन दृष्टान्ते साध्यवैकल्यात् । न द्वितीयः, सिद्धसाधनादिति सूत्रस्थचकारार्थः ।
तृतीये तु व्यवहारदशायां बाधितार्थग्राहित्वमुपाधिरित्याह -
बाध्यते हीत्यादिना ।
निद्राग्लानमिति ।
करणदोषोक्तिः ।
साधनव्यापकत्वनिरासायाह -
न चैवमिति ।
किञ्च प्रमाणजानुभव उपलब्धिः पक्षोऽप्रमाणजं स्वप्नज्ञानं दृष्टान्त इति वैधर्म्यान्तरम् ।
परमतेन स्वप्नस्य स्मृतित्वमङ्गीकृत्याह -
अपि चेति ।
स्मृतिप्रत्यक्षोपलब्ध्योर्वैधर्म्यान्तरमाह -
अर्थविप्रयोरेति ।
असम्बन्धश्चावर्तमानश्च स्मृतेरर्थो विषय इति निरालम्बनत्वमप्यस्याः कदाचिद्भवेत् , न सम्प्रयुक्तवर्तमानार्थमात्रग्राहिण्या उपलब्धेरिति भावः ।
पूर्वोक्तप्रमाणाप्रमाणजत्ववैधर्म्योक्तिफलमाह -
तत्रैवंसतीति ।
वैधर्म्ये सतीत्यर्थः । अप्रमाणजत्वोपाधेर्निरालम्बनत्वानुमानं न युक्तमिति भावः ।
वैधर्म्यासिद्धिं निरस्यति -
न चेति ।
बाधमप्याह -
अपि चेति ।
वस्तुतो घटाद्यनुभवस्य निरालम्बनत्वं धर्मो यदि स्यात्तदा किं दृष्टान्ताग्रहेण, प्रत्यक्षतोऽपि वक्तुं शक्यत्वात् । न हि वह्नेरौष्ण्यं दृष्टान्तेन वक्तव्यम् । यदि न वस्तुतो धर्मोऽस्ति तदा किं दृष्टान्तेन, बाधितस्य दृष्टान्तसहस्रेणापि दुःसाध्यत्वात् । अतः स्वतो निरालम्बनत्वोक्तौ सालम्बनत्वानुभवबाधभिया त्वयानुमातुमारब्धं तथापि बाधो न मुञ्चतीत्यर्थः ।
उक्तोपाधिरपि न विस्मर्तव्य इत्याह -
दर्शितं त्विति ॥२९॥
सूत्रव्यावर्त्यं स्मारयित्वा दूषयति -
यदप्युक्तमित्यादिना ।
भाव उत्पत्तिः सत्ता वा ।
ननु बाह्यार्थानुपलब्धावपि पूर्वपूर्ववासनाबलादुत्तरोत्तरविज्ञानवैचित्र्यमस्तु बीजाङ्कुरवदनादित्वादित्यत आह -
अनादित्वेऽपीति ।
बीजादङ्कुरो दृष्ट इत्यदृष्टेऽपि तज्जातीययोः कार्यकारणभावकल्पना युक्ता, इह त्वर्थानुभवनिरपेक्षवासनोत्पत्तेरादावेव कल्प्यत्वादनादित्वकल्पना निर्मूलेति नाभिप्रेतधीवैचित्र्यसिद्धिरित्यर्थः ।
ननु निरपेक्षवासनानां सत्त्वे धीवैचित्र्यमसत्त्वे तु नेति स्वप्ने दृष्टमिति समूलानवस्थेत्यत आह -
याविति ।
वासनानां बाह्यार्थानुभवकार्यत्वे सति नैरपेक्ष्यासिद्धेर्नान्वयादिदृष्टिरित्यर्थः ।
कार्यत्वग्राहकं व्यतिरेकमाह -
विनेति ।
अर्थानुभवकार्याणां वासनानां तदनपेक्षत्वायोगान्न त्वदुक्तान्वयादिदृष्टिरित्युक्तम् ।
अभिनवार्थोपलब्धिवैचित्र्यस्य वासनां विनापि भावेन व्यतिरेकव्यभिचाराच्च न क्वापि वासनामात्रकृतं धीवैचित्र्यं किन्त्वर्थानुभवे सति वासनासति नेत्यन्वयव्यतिरेकाभ्यां वासनामूलानुभवावच्छेदकार्थकृतमेवेति बाह्यार्थसद्भावसिद्धिरित्याह -
अपि चेति ।
यः संस्कारः स साश्रयो लोके दृष्टः यथा वेगादिरिष्वाद्याश्रयः, अतो विज्ञानसंस्काराणां न भाव आश्रयानुपलब्धेरित्यर्थान्तरमाह -
अपि चेति ॥३०॥
अस्त्वालयविज्ञानमाश्रय इत्यत आह -
क्षणिकत्वाच्चेति ।
सूत्रं व्याचष्टे -
यदपीति ।
सहोत्पन्नयोः सव्येतरविषाणवदाश्रयाश्रयिभावायोगात् , पौर्वापर्ये चाधेयक्षणेऽसत आधारत्वायोगात् , सत्त्वे क्षणिकत्वव्याघातान्नाधारत्वमालयविज्ञानस्य क्षणिकत्वान्नीलादिविज्ञानवदित्यर्थः ।
अस्तु तर्ह्यालयविज्ञानसन्तानाश्रया वासनेत्यत आह -
न हीति ।
सविकारः कूटस्थो वा स्थाय्यात्मा यदि नास्ति तदा सन्तानस्यावस्तुत्वाद्देशाद्यपेक्षया यद्वासनानामाधानं निक्षेपो ये च स्मृतिप्रत्यभिज्ञे यश्च तन्मूलो व्यवहारः, तत्सर्वं न सम्भवतीत्यर्थः ।
यदि व्यवहारार्थमात्मस्थायित्वं तदापसिद्धान्त इत्याह -
स्थिरेति ।
सूत्रमतिदेशार्थत्वेनापि व्याचष्टे -
अपि चेति ।
मतद्वयनिरासमुपसंहरति -
एवमिति ।
ज्ञानज्ञेयात्मकस्य सर्वस्य सत्त्वासत्त्वाभ्यां विचारासहत्वाच्छून्यतावशिष्यत इति माध्यमिकपक्षस्यापि मानमूलत्वमाशङ्क्य सूत्रकारः किमिति न निराचकारेत्यत आह -
शून्येति ।
आदरः पृथक्सूत्रारम्भो न क्रियते । एतान्येव तन्मतनिरासार्थत्वेनापि योज्यन्त इत्यर्थः । तथा हि ज्ञानार्थयोर्नाभावः, प्रमाणत उपलब्धेः ।
ननु जाग्रत्स्वप्नौ ज्ञानार्थशून्यौ, अवस्थात्वात् , सुषुप्तिवदित्यत आह 'वैधर्म्याच्च न स्वप्नादिवत्' । स्वप्न आदिर्यस्याः सुषुप्तेस्तद्वन्नेतरावस्थयोः शून्यत्वम् , उपलब्ध्यनुपलब्धिवैधर्म्यलक्षणाबाधितज्ञानार्थोपलब्धिबाधात् । सुषुप्तावप्यात्मज्ञानसत्त्वेन साध्यवैकल्याच्च नानुमानमित्यर्थः । किञ्च निरधिष्ठाननिषेधायोगादधिष्ठानमेव तत्त्वं वाच्यम् , तस्य त्वन्मते न भावः । मानतोऽनुपलब्धेरित्याह 'न भावोऽनुपलब्धेः' । तदर्थमाह -
न ह्ययमिति ।
यद्भाति तन्नासदित्युत्सर्गतः प्रपञ्चस्य न शून्यत्वम् । बाधाभावादित्यर्थः । न च सत्त्वासत्त्वाभ्यां विचारासहत्वाच्छून्यत्वम् । मिथ्यात्वसम्भवादिति भावः । 'क्षणिकत्वाच्च' इति सूत्रं 'क्षणिकत्वोपदेशाच्च' इति पठनीयम् । शून्यत्वविरुद्धक्षणिकत्वोपदेशादसङ्गतप्रलापी सुगत इत्यर्थः ॥३१॥
सुगतमतासाङ्गत्यमुपसंहरति -
सर्वथेति ।
सर्वज्ञस्य कथं विरुद्धप्रलापः, तत्राह -
प्रद्वेषो वेति ।
वेदबाह्या अत्र प्रजा ग्राह्याः । अतो भ्रान्त्येकमूलसुगतसिद्धान्तेन वेदान्तसिद्धान्तस्य न विरोध इति सिद्धम् ॥३२॥