अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

बहिरधिकरणम्

बहिस्तूभयथापि ।

कृत­प्रा­य­श्चि­त्तैस्तैः सह कृतश्रवणादिकं ज्ञानसाधनं न वेति संदेहे तेषां शुद्ध­त्वा­त्सा­ध­न­मिति प्राप्ते प्राय­श्चि­त्ता­त्प­र­लोके तेषां शुद्ध­त्वेऽ­प्यत्र शुद्धभावान्न साधनमिति सिद्धान्तयति -
यद्यूर्ध्वेति ।
सुगमं भाष्यम् ॥४३॥