भाष्यरत्नप्रभाव्याख्या
ब्राह्माधिकरणम्
ब्राह्मेण जैमिनिः ।
उक्तं ब्रह्म स्वरूपमुपजीव्य स किं सत्येन सर्वज्ञत्वादिधर्मेण युक्तस्तिष्ठति उत धर्मस्य शशशृङ्गवदत्यन्तासत्त्वाच्चिन्मात्रात्मना तिष्ठति किं वा वस्तुतश्चिन्मात्रोऽपि जीवान्तरव्यवहारदृष्ट्या कल्पितसर्वज्ञत्वादिमानिति मुनिविप्रतिपत्तेः संशये सत्याद्यं पूर्वपक्षमाह -
अधुनेत्यादिना ।
तत्तत्पक्षसिद्धिरेव फलं द्रष्टव्यम् । सोऽन्वेष्टव्य इति विध्यर्थ उद्देशो य आत्मेत्यादिरुपन्यासशब्दार्थः । आदिपदाद्विधिव्यपदेशग्रहः ।
तत्राज्ञातज्ञापको विधिस्तमाह -
तथा स तत्रेति ।
सर्वज्ञ इत्यादिस्तु व्यपदेशोऽयं हि नोद्देशः विध्यभावान्नापि विधिः सिद्धवन्निर्देशादित्यर्थः ॥५॥
सत्यत्वादिधर्माणां सत्यत्वं दूषयन्नत्यन्तासत्त्वपक्षमाह -
चितितन्मात्रेणेति ।
चितिश्चैतन्यम् , शब्दज्ञानाद्यो विकल्पोऽसन्प्रत्ययस्तज्जाः अत्यन्तासन्त इति यावत् ।
अस्त्वभावधर्माणामसत्त्वं भावधर्माणां तु सत्त्वमित्याशङ्क्य तेषामप्यौपाधिकत्वादसत्त्वमित्याह -
सत्यकामेति ।
चिन्मात्रे मुक्ते जक्षणादिश्रुतिः कथं तत्राह -
अत एव चेति ।
सर्वधर्मनिषेधादेवेत्यर्थः ॥६॥
धर्माणां सत्यत्वमत्यन्तासत्त्वं चेति पक्षद्वयमयुक्तम् । अद्वैतश्रुतीनां सर्वज्ञत्वादिश्रुतिव्यवहारयोश्च बाधापातादतस्तृतीयपक्षः श्रेयानिति सिद्धान्तयति -
एवमपीति ।
अत्र केचिन्मुह्यन्ति - अखण्डचिन्मात्रज्ञानान्मुक्तस्याज्ञानाभावात्कुत आज्ञानिकधर्मयोग इति, ते इत्थं बोधनीयाः । ये ईश्वरधर्मास्त एव चिदात्मनि मुक्ते जीवान्तरैर्व्यवह्रियन्ते इति । न च मूलाविद्यैक्यात्तन्नाशे कुतो जीवान्तरमिति वाच्यम् , न वयं तन्नाशे जीवान्तरव्यवहारं ब्रूमः, किन्तु तदंशनाशेनांशारब्धाध्यात्मिकशरीरद्वयाभिमानिनो मुक्तावंशान्तरोपाधिका जीवा व्यवहर्तार इति वदामः । तर्हि नानविद्यापक्ष एव कुतो नाद्रियते जीवभेदस्यावश्यकत्वादिति चेत् । न । प्रकृतिनानात्वं प्रतिजीवं प्रपञ्चभेद इत्याद्यप्रामाणिकानेकार्थगौरवादिति सर्ववृद्धसम्मत एकाविद्यापक्ष एव श्रेयान्, अंशभेदेन च बन्धमुक्तिव्यवस्थेति सङ्क्षेपः ॥७॥