अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

अंशाधिकरणम्

अंश एके ।

'नित्यः स्वप्र­का­शोऽ­न­णु­र­कर्ता जीव' इति शोधि­त­त्व­म्प­दा­र्थ­स्यात्र ब्रह्मै­क्य­सा­ध­नेन भेदा­भे­द­श्रु­तीनां विरो­ध­स­मा­धा­ना­त्पा­द­स­ङ्गतिः । पूर्वपक्षे प्रत्य­ग­भि­न्न­ब्र­ह्म­सिद्धिः, सिद्धान्ते तत्सिद्धिरिति भेदः । पूर्वो­क्तो­प­का­र्यो­प­का­र­क­भा­वा­क्षिप्तं जीवेशयोः सम्बन्धं विषयीकृत्य द्विवि­ध­दृ­ष्टा­न्त­द­र्श­ना­त्सं­श­य­माह -
ततश्चेति ।

प्रसि­द्ध­स्व­स्वा­मि­त्व­स­म्ब­न्ध­स­म्भ­वाद्यः कश्चित्सम्बन्ध इत्यनियमो न युक्त इत्यरुचेराह -
अथवेति ।
अनेन 'य आत्मनि तिष्ठन्' इत्या­दि­श्रु­ति­प्र­सि­द्ध­भे­द­को­टि­र्द­र्शिता । एवं तत्त्व­म­सी­त्या­दि­श्रु­ति­सिद्धा भेद­को­टि­र्द्र­ष्टव्या, तथा च भेदा­भे­द­श्रु­तीनां सम­ब­ल­त्वा­द्वि­रोधे सति सम्ब­न्धा­नि­श्च­या­त्स­म्ब­न्धा­पे­क्षस्य पूर्वो­क्तो­प­का­र्यो­प­का­र­क­भा­व­स्या­सि­द्धि­रि­त्या­क्षे­पा­त्स­ङ्गतिः ।

लोक­सि­द्धा­न­र्था­त्म­क­भे­दा­नु­वा­दि­त्वेन भेदश्रुतीनां दुर्ब­ल­त्वा­द­ज्ञा­त­फ­ल­व­द­भे­द­श्रु­त्य­नु­सा­रेण प्रक­ल्पि­त­भे­द­नि­ब­न्धनों 'शांशिभावः सम्बन्ध इति सिद्धान्तयति -
अत इत्यादिना ।

अग्नेः सांशत्वेऽपि निष्कलेश्वरस्य कथं सांशत्वमत आह -
अंश इवेति ।
जीव इत्यनुषङ्गः ।

भेद एव चेत्स्व­स्वा­मि­भावो युक्तो नांशांशिभाव इति शङ्कते -
ननु चेति ।

अभेदस्यापि सत्त्वा­दं­शां­शि­भाव इत्याह -
अत इति ।
वञ्चसि गच्छसि यदास्ते यो नामरूपे निर्माय प्रविश्य व्यवहरन्वर्तते तं विद्वानमृतो भवतीति श्रुत्यर्थः ।

श्रुति­सि­द्धा­भेदे युक्तिमाह -
चैतन्यं चेति ।
जीवो ब्रह्मैव चेतनत्वात् ब्रह्म­व­दि­त्यर्थः ॥४३॥

अस्य सह­स्र­शी­र्ष­पु­रु­षस्य तावान्प्रपञ्चो महिमा विभूतिः पुरुषस्तस्मात् प्रपञ्चात् ज्यायान्महत्तरः । भूतानि देहिनो जीवा इत्यत्र नियामकमाह -
अहिंसन्निति ।
तीर्थानि शास्त्रो­क्त­क­र्माणि, तेभ्योऽन्यत्र सर्व­प्रा­णि­हिं­सा­म­कु­र्व­न्ब्र­ह्म­लो­क­मा­प्नो­ती­त्यर्थः । अत्र भूतशब्दस्य प्राणिषु प्रयो­गा­त्सू­त्रो­क्त­म­न्त्रेऽपि तथेति भावः ।

भूतानां पाद­त्वेऽ­प्यं­शत्वं कुतः, तत्राह -
अंशः पाद इति ॥४४॥

जीवस्य पुरु­ष­सू­क्त­म­न्त्रो­क्त­भ­ग­व­दं­शत्वे भग­व­द्गी­ता­मु­दा­ह­रति सूत्रकारः -
अपि चेति ।

अत्य­न्त­भि­न्ने­शि­त्री­शि­त­व्य­भा­व­प्र­सिद्धेः ईशितव्यजीवस्य कथ­मी­श्व­रां­श­त्व­मि­त्या­शङ्क्य कल्पि­त­भे­दे­ना­पी­शि­त­व्य­त्वो­प­पत्तेः, अन­न्य­था­सि­द्धा­भे­द­शा­स्त्र­ब­ला­दं­श­त्व­मि­त्याह -
यत्त्वित्यादिना ।

औपाधिके ईश्वरस्य नियन्तृत्वे जीव एव तन्नियन्ता किं न स्यादित्यत आह -
निरतिशयेति ।
नितरां हीनः शरीराद्युपाधिः, आज्ञा­नि­को­पा­धि­ता­र­त­म्या­दी­शे­शि­त­व्य­व्य­वस्था, न वस्तुतः । तदुक्तं सुरे­श्व­रा­चार्यैः 'ईशे­शि­त­व्य­स­म्बन्धः प्रत्य­ग­ज्ञा­न­हे­तुजः । सम्यग्ज्ञाने तमो­ध्व­स्ता­वी­श्व­रा­णा­म­पी­श्वरः ॥' इति ॥४५॥

उत्त­र­सू­त्र­म­व­ता­र­यति -
अत्राहेति ।
ईश्वरः स्वांश­दुः­खै­र्दुःखी, अंशित्वात् , देव­द­त्त­व­दि­त्यर्थः ।

ततः किम् , तत्राह -
ततश्चेति ।
ज्ञाना­त्स­र्वां­श­दुः­ख­स­म­ष्टि­प्रा­प्त्य­पे­क्षया संसारो वरं तत्र स्वदुः­ख­मा­त्रा­नु­भ­वा­दि­त्यर्थः ।

नैवम्पर इति प्रतिज्ञानं विभजते -
यथा जीव इति ।
देव­द­त्त­दृ­ष्टान्ते भ्रान्ति­का­म­क­र्म­रू­प­दुः­ख­सा­म­ग्री­म­त्त्व­मु­पाधिः, तद­भा­वा­न्ने­श्व­रस्य दुःखि­त्व­प्राप्तिः । उक्तं चैतदभेदेऽपि बिम्ब­प्र­ति­बि­म्ब­यो­र्ध­र्म­व्य­व­स्थेति भावः ।

दुःखस्य भ्रान्तिकृतत्वं प्रपञ्चयति -
जीव­स्या­पी­त्या­दिना ।

भ्रान्तौ सत्यां दुःख­मि­त्य­न्व­य­मुक्त्वा भ्रान्त्यभावे दुःखा­भा­व­द­र्श­नाच्च भ्रान्तिकृतं दुःखमिति निश्चीयत इत्याह -
व्यतिरेकेति ।
इत­रे­ष्व­भि­मा­न­शू­न्ये­ष्वि­त्यर्थः ।

जीवस्यापि सम्यग्ज्ञाने दुःखाभावो दृष्टः किमु वाच्यं नित्य­स­र्व­ज्ञे­श्व­र­स्ये­त्याह -
अतश्चेति ।

एवमंशित्वे हेतोः सोपा­धि­क­त्व­मुक्त्वा यों 'शी स वस्तुतः स्वांश­ध­र्म­वा­निती व्याप्तिं स्थलत्रये व्यभिचारयति -
प्रकाशादिवदिति ।

वस्तुतः स्वांश­दुः­खि­त्व­सा­ध्यस्य देव­द­त्त­दृ­ष्टान्ते वैकल्यमप्याह -
जीवस्येति ।
कल्पि­त­दुः­खि­त्व­साध्यं तु भ्रान्त्या­द्य­भा­वा­दी­श्वरे नास्तीत्युक्तम् ।

किञ्च जीवस्येश्वरस्य वा वस्तुतो दुःखित्वानुमानं न युक्त­मा­ग­म­बा­धा­दि­त्याह -
तथा चेति ।
दुःखित्वे तद्भावोपदेशो न स्यादित्यर्थः ॥४६॥

स्मृत्या­प्य­नु­मानं बाध्यमित्याह -
स्मरन्ति चेति ।

सूत्रं व्याचष्टे -
स्मरन्तीति ।
तत्र जीवपरयोर्मध्ये कर्मात्मा कर्माश्रयो जीवः । दशेन्द्रियाणि पञ्च प्राणाः मनो बुद्धिश्चेति सप्तदशसङ्ख्याको राशिर्लिङ्गम् ।

सूत्रे चशब्दः श्रुति­स­मु­च्च­यार्थ इत्याह -
चशब्दादिति ।
यथादित्यः प्राका­श्य­दो­षैर्न लिप्यते तथेत्यर्थः ।

यतो बाह्योऽ­स­ङ्ग­स्त­स्मान्न लिप्यते एव­मं­शि­त्व­कृ­त­मी­श्वरे दोषं निरस्यांश इत्युक्तं जीवस्यांशत्वं देहा­द्यु­पा­धि­क­मिति स्फुट­यि­तु­म­त्य­न्त­स्व­रू­पै­क्य­मा­दा­या­क्षि­पति -
अत्राहेत्यादिना ।
कथं तर्हि इत्यन्वयः । तद्भे­दा­दं­श­भे­दात् । निरवयवब्रह्मणो मुख्यांशो न सम्भवतीति वदता सिद्धान्तिना भेदो नास्तीत्युक्तं भवति, भेदाभावे चांशां­शि­त्वा­भा­वा­द­नु­ज्ञा­दि­भे­द­व्य­व­हा­रा­नु­प­प­त्ति­रि­त्या­क्षे­पा­भि­प्रायः ।

न वयं भेदस्यासत्त्वं नर­शृ­ङ्ग­व­द्ब्रूमः, किन्तु मिथ्यात्वं वदामः । तथा च देहा­द्यु­पा­धि­भे­दे­नां­श­जी­वा­ना­मा­ब्र­ह्म­बो­धा­त्क­ल्पि­त­भे­दा­द्भे­द­व्य­व­हा­रो­प­प­त्ति­रिति सूत्रेण समाधत्ते -
तामित्यादिना ॥४७॥

ननु भ्रान्तेः कुत­श्चि­न्नि­वृत्तौ व्यवहारविच्छेदः स्यादित्यत आह -
न ह्यस्या इत्यादिना ।
प्रतता सन्तता, विशेषो भेदः ।

अनि­यो­ज्य­त्वा­द्ब्र­ह्म­विदः शास्त्रा­न­र्थ­क्य­मि­ष्ट­मि­त्याह -
न तस्येति ।
नियो­ग­वि­ष­य­द्वै­ता­भा­वा­दा­त्म­न्य­साध्ये नियो­गा­नु­प­प­त्तेर्न ब्रह्म­वि­न्नि­योज्य इत्यर्थः ।

नन्वा­मु­ष्मि­क­फ­ल­हे­तुके कर्मणि देह­भि­न्ना­त्म­वि­वे­किन एवाधिकारो वाच्यः । तथा च ब्रह्म­वि­न्नि­योज्यः, विवेकित्वात् , कर्मा­धि­का­रि­व­दिति शङ्कते -
शरीरव्यतिरेकेति ।

परो­क्ष­वि­वे­क­स्या­प­रो­क्ष­भ्र­मा­वि­रो­धि­त्वा­त्क­र्मिणो देहा­भे­द­भ्र­मोऽस्ति, तथा च भ्रम उपाधिरिति परिहरति -
नेत्यादिना ।
यथा व्योम देहाद्भिन्नं तद्व­द­ह­मि­त्य­प­श्यतः भ्रान्त­स्ये­त्यर्थः ।

ब्रह्मविन्न नियोज्यः, अभ्रान्तत्वात् , सुषुप्तवदित्याह -
न हीति ।
देहा­दि­ष्व­सं­ह­त­त्व­द­र्शिनः संह­त­त्व­द­र्श­न­शू­न्यस्य भेद­भ्रा­न्ति­र­हि­तस्य सुषुप्तस्येति यावत् । अज्ञस्यापि भ्रान्त्य­भा­व­काले नियोज्यत्वं न दृष्टं किमु वाच्यमात्मविद इत्यर्थः ।

अनियोज्यत्वे बाधकमाशङ्क्य परिहरति -
न चेति ।
विषयवैराग्यस्य ज्ञाना­र्थ­म­भ्य­स्तस्य ज्ञाना­न­न्त­र­म­नु­वृत्त्या विषयेषु प्रव­र्त­क­रा­ग­नि­वृ­त्ते­र्ना­ति­प्र­सङ्ग इत्यर्थः । तदुक्तं भगवता 'रसोऽ­प्यस्य परं दृष्ट्वा निवर्तते' इति ।

एव­म­नु­ज्ञा­दि­प्र­स­ङ्गे­ना­नि­यो­ज्यम् , विदुष उक्त्वा प्रकृ­ति­मु­प­सं­ह­रति -
तस्मादिति ।

एक­स्या­प्यु­पा­धि­भे­दा­द­नु­ज्ञा­प­रि­हा­र­यो­र्दृ­ष्टा­न्त­माह -
ज्योतिरिति ।
क्रव्यं मांसमत्तीति क्रव्यादशुचिः श्मशा­ना­ग्नि­रि­त्यर्थः ॥४८॥

शङ्कोत्तरत्वेन सूत्रं व्याचष्टे -
स्याता­मि­त्या­दिना ।
यद्यपि स्थूल­दे­ह­स­म्ब­न्धा­दु­पा­दा­न­प­रि­त्यागौ स्यातां तथा­प्य­न्य­कृ­त­क­र्म­फ­ल­मि­त­रे­णापि भुज्येतेति कर्मफलव्यतिकरः साङ्कर्यं स्याद्दे­ह­वि­शि­ष्टस्य स्वर्गा­दि­भो­गा­यो­गे­ना­वि­शि­ष्टा­त्मन एकस्यैव भोक्तृत्वात् । तस्मात्स्वर्गी नरकी चेति व्यवस्थासिद्धये आत्मस्वरूपभेदो वाच्य इति शङ्कार्थः । भवेत्तदा साङ्कर्यं यद्यनुपहितात्मन एव भोक्तृत्वं स्यात् । न त्वेतदस्ति । 'तद्गु­ण­सा­र­त्वात्' इत्यत्र मोक्षस्यापि, बुद्ध्यु­प­हि­त­स्यैव कर्तृ­त्वा­दि­स्था­प­नात् , तथा च बुद्धेः पर­दे­हा­स­म्ब­न्धा­त्त­दु­प­हि­त­जी­वस्य नास्ति परदेहसम्बन्ध इति बुद्धिभेदेन भोक्तृभेदान्न कर्मा­दि­सा­ङ्क­र्य­मिति समाधानार्थः ॥४९॥

अंशे­त्या­द्य­सूत्रे जीवस्यांशत्वं घटा­का­श­स्ये­वो­पा­ध्य­व­च्छे­द­बु­द्ध्यो­क्तम् , सम्प्रति एव­का­रे­णा­व­च्छे­द­प­क्षा­रुचिं सूचयन् 'रूपं रूपं प्रतिरूपो बभूव' इत्या­दि­श्रु­ति­सि­द्ध­म्प्र­ति­बि­म्ब­प­क्ष­मु­प­न्य­स्यति भगवान् सूत्रकारः -
आभास एव चेति ।
पर­मा­त्मै­वा­नु­प­हितो जीवो न भवति, उपाध्यनुभवात् । नापि ततो भिन्नः, 'स एष इह प्रविष्टः' इत्या­द्य­भे­द­श्रु­ति­स्मृ­ति­वि­रो­धात् । तस्मा­द­वि­द्या­त­त्का­र्य­बु­द्ध्या­दि­प्र­ति­बिम्ब एव जीव इत्यर्थः ।

अस्मिन् पक्षे बुद्धि­प्र­ति­बि­म्ब­भे­दा­त्स्वर्गी नार­की­त्या­दि­व्य­वस्था जीव­त्व­स्या­वि­द्य­क­त्वा­द्वि­द्यया मोक्ष­श्चे­त्यु­प­प­द्यत इत्याह -
अतश्चेत्यादिना ।
यस्त्वयं भास्करस्य प्रलापः प्रतिबिम्बस्य नोपा­धि­सं­सृ­ष्ट­तया कल्पितत्वं किन्तु स्वरूपेणैव, अतः कल्पि­त­प्र­ति­बि­म्बस्य मुक्तौ स्थित्ययोगान्न जीवत्वमिति स सिद्धा­न्त­र­ह­स्या­ज्ञा­न­कृत इत्युपेक्षणीयः । यदि दर्पणे मुखं शुक्तौ रजतवत्कल्पितं स्यात्तदा नेदं रजतमिति स्वरू­प­बा­ध­व­न्नेदं मुखमिति बाधः स्यात् । अतो नास्ति दर्पणे मुखमिति संस­र्ग­मा­त्र­बा­धा­न्म­दीयं मुख­मे­वे­द­मि­त्य­बा­धि­त­मु­खा­भे­दा­नु­भ­वा­त्सं­सृ­ष्ट­त्वे­नैव कल्पितत्वं प्रवे­श­वा­क्यै­श्चा­वि­कृ­त­ब्र­ह्मण एव प्रति­बि­म्ब­भा­वा­ख्य­प्र­वे­शो­क्तेर्न स्वरूपकल्पना, पराक्रान्तं चात्र दर्प­ण­टी­का­या­मा­चा­र्यै­रि­त्यु­प­र­म्यते ।

एवं स्वमते स्वरू­पै­क्येऽ­प्यु­प­हि­त­जी­व­भे­दा­द­सा­ङ्क­र्य­मु­क्तम् , सम्प्रति सूत्रे चकारसूचितं परेषां साङ्कर्यं वक्तुमुपक्रमते -
येषमित्यादिना ।
बुद्धि­सु­ख­दुः­खे­च्छा­द्वे­ष­प्र­य­त्न­ध­र्मा­ध­र्म­भा­वना नवा­त्म­वि­शे­ष­गुणाः, सन्नि­धा­ना­दी­त्या­दि­प­दा­दौ­दा­सी­न्य­मु­क्तम् ।

साङ्ख्यः स्वाभिप्रायं शङ्कते -
स्यादेतदिति ।
सर्वेषां पुंसां प्रकृ­ति­सा­न्नि­ध्या­द्य­वि­शे­षेऽपि प्रकृतिरेव प्रतिपुरुषं नियमेन भोगापवर्गार्थं प्रवर्तते, तथा चोद्दे­श्य­पु­रु­षा­र्थ­नि­यता प्रधा­न­प्र­वृ­त्ति­रिति भोगादिव्यवस्था, अन्यथा निय­त­प्र­वृ­त्त्य­न­ङ्गी­कारे स्वमा­हा­त्म्य­ख्या­प­नार्था प्रधानस्य प्रवृ­त्ति­रि­त्यु­द्दे­श्य­वि­घातः स्यादित्यर्थः ।

जड­प्र­धा­न­स्यो­द्दे­श्य­वि­वे­का­भा­वा­त्पु­रु­षा­र्थ­स्या­प्य­ना­ग­त­स्या­चे­त­न­स्या­नि­या­म­क­त्वान्न व्यवस्था, मान­यु­क्ति­शू­न्य­त्वा­दि­त्याह -
नैतदिति ।
यो हि निया­म­क­भा­वे­नो­द्दे­श्य­वि­घा­त­मा­पा­द­यति तं प्रति तस्यै­वा­पा­द­न­मि­ष्ट­मिति भावः ।

तार्किकमतेऽपि भोगा­दि­सा­ङ्क­र्य­मि­त्याह -
काणादानामिति ।

हेतु­र्म­नः­सं­योगः, फलं सुखादि, यदा­त्मा­दृ­ष्ट­कृतो यो मनःसंयोगः स तदात्मन एव सुखादिहेतुरिति व्यवस्थां शङ्कते -
स्यादेतदिति ।

सूत्रेण परिहरति -
नेत्याहेति ॥५०॥

पूर्व­व­न्म­नः­सं­यो­ग­व­द­दृ­ष्ट­स्यापि सर्वा­त्म­सा­ध­र­ण­त्वान्न व्यवस्थेत्यर्थः । रागा­दि­नि­य­मा­त्त­ज्जा­दृ­ष्ट­नि­यम इत्या­श­ङ्क्यो­त्त­र­त्वेन सूत्रं गृह्णाति -
स्यादे­त­दि­त्या­दिना ॥५१॥

अनियम उक्तदोषः । आत्मा­न्त­र­प्र­दे­शस्य परदेहे अन्त­र्भा­वा­द्व्य­व­स्थेति शङ्कार्थः ॥५२॥

किं मनसा संयु­क्ता­त्मै­वा­त्मनः प्रदेशः । उत कल्पितः । आद्ये सर्वात्मनां सर्वदेहेषु अन्त­र्भा­वा­द­व्य­वस्था । द्वितीयं दूषयति -
तत्र न वैशेषिकैरिति ।
सर्वा­त्म­सा­न्निध्ये सति कस्यचिदेव प्रदेशः कल्पयितुमशक्यः । निया­म­क­भा­वा­दि­त्यर्थः ।

प्रदे­श­क­ल्प­ना­म­ङ्गी­कृ­त्या­प्याह -
कल्प्येति ।

कार्य­म­भि­स­न्ध्या­दिकं यस्यात्मनो यच्छरीरं तत्र तस्यैव भोग इति व्यव­स्था­मा­श­ङ्क्याह -
शरीरमपीति ।

प्रदेशपक्षे दोषान्तरमाह -
प्रदेशेति ।

यस्मि­न्ना­त्म­प्र­दे­शेऽ­दृ­ष्टो­त्पत्तिः स किं चलः स्थितो वा । नाद्यः, अचलें 'शिन्यं­शस्य चल­न­वि­भा­ग­यो­र­स­म्भ­वा­द­ण्वा­त्म­वा­दा­पा­ताच्च । द्वितीये तस्मिन्नेव प्रदेशे परस्यापि भोग­द­र्श­ना­द­दृ­ष्ट­म­स्ती­त्ये­के­नापि शरीरेण द्वयो­रा­त्म­नो­र्भो­ग­प्र­सङ्गः । यद्या­त्म­भे­दा­त्प्र­दे­श­यो­र्भे­द­स्त­दापि तयो­रे­क­दे­हा­न्त­र्भा­वा­द्भो­ग­सा­ङ्कर्यं तदवस्थं साव­य­वा­त्म­वा­द­प्र­प­ङ्गश्च । किञ्च यत्तु यत्रात्मनः प्रदेशे शरी­रा­दि­सं­यो­गा­द­दृ­ष्ट­मु­त्पन्नं तत्त­त्रै­वा­च­ल­प्र­देशे स्थितमिति स्वर्गा­दि­श­री­रा­व­च्छि­न्ना­त्म­न्य­दृ­ष्टा­भा­वा­द्भोगो न स्यादतः प्रदेशभेदो न व्यवस्थापकः । यत्त्व­त्रो­त्प­न्न­म­दृष्टं स्वाश्रये यत्र क्वचि­द्भो­ग­हे­तु­रिति स्वर्गा­दि­भो­ग­सि­द्धि­रिति । तन्न । भोग­श­री­रा­द्दू­र­स्था­दृष्टे मानाभावादिति भावः । यदपि केचिदाहुः - मनस एक­त्वेऽ­प्या­त्मनां भेदेन संयोगव्यक्तीनां भेदा­त्क­या­चि­त्सं­यो­ग­व्यक्त्या कस्मिं­श्चे­दे­वा­त्म­न्य­दृ­ष्टा­दि­क­मि­त्य­सा­ङ्क­र्य­मिति । तन्न । संयोगव्यक्तीनां वैजात्याभावेन सर्वा­सा­मे­वै­क­दे­हा­न्तः­स्थ­स­र्वा­त्म­स्व­दृ­ष्ट­हे­तु­त्वा­पत्तेः । तथा च सर्वा­त्म­ना­मे­क­स्मिन् देहे भोक्तृत्वं दुर्वारम् । किञ्च बहूनां विभु­त्व­म­ङ्गी­कृत्य साङ्कर्यमुक्तम् , सम्प्रति कर्तृणां विभु­त्व­म­सि­द्ध­म­ह­मि­है­वास्मि इत्य­ल्प­त्वा­नु­भ­वा­न्मा­ना­भा­वा­च्चे­त्याह -
सर्व­ग­त­त्वा­नु­प­प­त्ति­श्चेति ।

किञ्च बहूनां विभुत्वे समानदेशत्वं वाच्यम् , तच्चा­यु­क्त­म­दृ­ष्ट­त्वा­दि­त्याह -
वदेति ।
ननु रूप­र­सा­दी­ना­मे­क­घ­ट­स्थत्वं दृष्टमिति चेत् , नायमस्मत्सम्मतो दृष्टान्तः । रूपस्य तेजो­मा­त्र­त्वा­द्र­सस्य जल­मा­त्र­त्वा­द्ग­न्धस्य पृथि­वी­मा­त्र­त्वा­दि­त्येवं तत्तद्गुणस्य स्वस्व­ध­र्म्यं­शे­ना­भे­दा­त्ते­ज­आ­दि­ध­र्म्य­ति­रि­क्त­घ­टा­भा­वात् । किञ्चात्मनां बहु­त्व­म­प्य­सि­द्धम् , आत्म­त्व­रू­प­ल­क्ष­ण­स्या­भे­दात् , तथा च देवदत्तात्मा यज्ञदत्तात्मनो न भिन्नः आत्मत्वात् , यज्ञदत्तात्मवत् ।

अत्र वैशेषिकः शङ्कते -
अन्त्यविशेषेति ।
नित्य­द्र­व्य­मा­त्र­वृ­त्तयो विशेषास्ते च स्वयं स्वाश्र­य­व्या­व­र्तका एव न स्वेषां व्याव­र्त­क­म­पे­क्षन्त इत्यन्त्या उच्यन्ते । तथा च विशे­ष­रू­प­ल­क्ष­ण­भे­दा­द्भ­व­त्या­त्म­भेद इत्यर्थः । न ताव­दा­त्म­न्य­ना­त्मनः सका­शा­द्भे­द­ज्ञा­नार्था विशेषकल्पना, आत्म­त्वा­दे­वा­ना­त्म­भे­द­सिद्धेः । नाप्यात्मनां मिथो भेदज्ञानार्थं तत्कल्पना, आत्म­भे­द­स्या­द्या­प्य­सिद्धेः । न च विशे­ष­भे­द­क­ल्प­ना­दे­वा­त्म­भे­द­क­ल्पना युक्ता, आत्म­भे­द­ज्ञ­प्ता­वा­त्मसु विशे­ष­भे­द­सि­द्धि­स्त­त्सिद्धौ तज्ज्ञ­प्ति­रि­त्य­न्यो­न्या­श्र­या­दिति परिहारार्थः ।

यत्तु बहूनां विभुत्वे आकाशदिक्काला दृष्टान्त इति सोऽप्यसम्मत इत्याह -
आकाशादीनामिति ।
विभु­त्व­स्यै­क­वृ­त्तित्वे लाघवान्न विभुभेदः ।

यथै­क­स्मि­न्ना­काशे भेरीवीणादिभेदेन तार­म­न्द्रा­दि­श­ब्द­व्य­वस्था एव­मे­क­स्मि­न्न­प्या­त्मनि बुद्ध्यु­पा­धि­भे­देन सुखा­दि­व्य­व­स्थो­प­प­त्ते­रा­त्म­भे­देऽपि व्यव­स्था­नु­प­प­त्ते­रु­क्त­त्वा­न्मुधा भेद­क­ल्प­ने­त्यु­प­सं­ह­रति -
तस्मादिति ।
एवं भूत­भो­क्तृ­श्रु­तीनां विरो­धा­भा­वा­द्ब्र­ह्म­ण्य­द्वये समन्वय इति सिद्धम् ॥५३॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­गो­वि­न्दा­न­न्द­भ­ग­व­त्पा­द­कृतौ शारी­र­क­मी­मां­सा­व्या­ख्यायां भाष्य­र­त्न­प्र­भायां द्विती­या­ध्या­यस्य तृतीयः पादः ॥३॥