भाष्यरत्नप्रभाव्याख्या
अंशाधिकरणम्
अंश एके ।
'नित्यः स्वप्रकाशोऽनणुरकर्ता जीव' इति शोधितत्वम्पदार्थस्यात्र ब्रह्मैक्यसाधनेन भेदाभेदश्रुतीनां विरोधसमाधानात्पादसङ्गतिः । पूर्वपक्षे प्रत्यगभिन्नब्रह्मसिद्धिः, सिद्धान्ते तत्सिद्धिरिति भेदः । पूर्वोक्तोपकार्योपकारकभावाक्षिप्तं जीवेशयोः सम्बन्धं विषयीकृत्य द्विविधदृष्टान्तदर्शनात्संशयमाह -
ततश्चेति ।
प्रसिद्धस्वस्वामित्वसम्बन्धसम्भवाद्यः कश्चित्सम्बन्ध इत्यनियमो न युक्त इत्यरुचेराह -
अथवेति ।
अनेन 'य आत्मनि तिष्ठन्' इत्यादिश्रुतिप्रसिद्धभेदकोटिर्दर्शिता । एवं तत्त्वमसीत्यादिश्रुतिसिद्धा भेदकोटिर्द्रष्टव्या, तथा च भेदाभेदश्रुतीनां समबलत्वाद्विरोधे सति सम्बन्धानिश्चयात्सम्बन्धापेक्षस्य पूर्वोक्तोपकार्योपकारकभावस्यासिद्धिरित्याक्षेपात्सङ्गतिः ।
लोकसिद्धानर्थात्मकभेदानुवादित्वेन भेदश्रुतीनां दुर्बलत्वादज्ञातफलवदभेदश्रुत्यनुसारेण प्रकल्पितभेदनिबन्धनों 'शांशिभावः सम्बन्ध इति सिद्धान्तयति -
अत इत्यादिना ।
अग्नेः सांशत्वेऽपि निष्कलेश्वरस्य कथं सांशत्वमत आह -
अंश इवेति ।
जीव इत्यनुषङ्गः ।
भेद एव चेत्स्वस्वामिभावो युक्तो नांशांशिभाव इति शङ्कते -
ननु चेति ।
अभेदस्यापि सत्त्वादंशांशिभाव इत्याह -
अत इति ।
वञ्चसि गच्छसि यदास्ते यो नामरूपे निर्माय प्रविश्य व्यवहरन्वर्तते तं विद्वानमृतो भवतीति श्रुत्यर्थः ।
श्रुतिसिद्धाभेदे युक्तिमाह -
चैतन्यं चेति ।
जीवो ब्रह्मैव चेतनत्वात् ब्रह्मवदित्यर्थः ॥४३॥
अस्य सहस्रशीर्षपुरुषस्य तावान्प्रपञ्चो महिमा विभूतिः पुरुषस्तस्मात् प्रपञ्चात् ज्यायान्महत्तरः । भूतानि देहिनो जीवा इत्यत्र नियामकमाह -
अहिंसन्निति ।
तीर्थानि शास्त्रोक्तकर्माणि, तेभ्योऽन्यत्र सर्वप्राणिहिंसामकुर्वन्ब्रह्मलोकमाप्नोतीत्यर्थः । अत्र भूतशब्दस्य प्राणिषु प्रयोगात्सूत्रोक्तमन्त्रेऽपि तथेति भावः ।
भूतानां पादत्वेऽप्यंशत्वं कुतः, तत्राह -
अंशः पाद इति ॥४४॥
जीवस्य पुरुषसूक्तमन्त्रोक्तभगवदंशत्वे भगवद्गीतामुदाहरति सूत्रकारः -
अपि चेति ।
अत्यन्तभिन्नेशित्रीशितव्यभावप्रसिद्धेः ईशितव्यजीवस्य कथमीश्वरांशत्वमित्याशङ्क्य कल्पितभेदेनापीशितव्यत्वोपपत्तेः, अनन्यथासिद्धाभेदशास्त्रबलादंशत्वमित्याह -
यत्त्वित्यादिना ।
औपाधिके ईश्वरस्य नियन्तृत्वे जीव एव तन्नियन्ता किं न स्यादित्यत आह -
निरतिशयेति ।
नितरां हीनः शरीराद्युपाधिः, आज्ञानिकोपाधितारतम्यादीशेशितव्यव्यवस्था, न वस्तुतः । तदुक्तं सुरेश्वराचार्यैः 'ईशेशितव्यसम्बन्धः प्रत्यगज्ञानहेतुजः । सम्यग्ज्ञाने तमोध्वस्तावीश्वराणामपीश्वरः ॥' इति ॥४५॥
उत्तरसूत्रमवतारयति -
अत्राहेति ।
ईश्वरः स्वांशदुःखैर्दुःखी, अंशित्वात् , देवदत्तवदित्यर्थः ।
ततः किम् , तत्राह -
ततश्चेति ।
ज्ञानात्सर्वांशदुःखसमष्टिप्राप्त्यपेक्षया संसारो वरं तत्र स्वदुःखमात्रानुभवादित्यर्थः ।
नैवम्पर इति प्रतिज्ञानं विभजते -
यथा जीव इति ।
देवदत्तदृष्टान्ते भ्रान्तिकामकर्मरूपदुःखसामग्रीमत्त्वमुपाधिः, तदभावान्नेश्वरस्य दुःखित्वप्राप्तिः । उक्तं चैतदभेदेऽपि बिम्बप्रतिबिम्बयोर्धर्मव्यवस्थेति भावः ।
दुःखस्य भ्रान्तिकृतत्वं प्रपञ्चयति -
जीवस्यापीत्यादिना ।
भ्रान्तौ सत्यां दुःखमित्यन्वयमुक्त्वा भ्रान्त्यभावे दुःखाभावदर्शनाच्च भ्रान्तिकृतं दुःखमिति निश्चीयत इत्याह -
व्यतिरेकेति ।
इतरेष्वभिमानशून्येष्वित्यर्थः ।
जीवस्यापि सम्यग्ज्ञाने दुःखाभावो दृष्टः किमु वाच्यं नित्यसर्वज्ञेश्वरस्येत्याह -
अतश्चेति ।
एवमंशित्वे हेतोः सोपाधिकत्वमुक्त्वा यों 'शी स वस्तुतः स्वांशधर्मवानिती व्याप्तिं स्थलत्रये व्यभिचारयति -
प्रकाशादिवदिति ।
वस्तुतः स्वांशदुःखित्वसाध्यस्य देवदत्तदृष्टान्ते वैकल्यमप्याह -
जीवस्येति ।
कल्पितदुःखित्वसाध्यं तु भ्रान्त्याद्यभावादीश्वरे नास्तीत्युक्तम् ।
किञ्च जीवस्येश्वरस्य वा वस्तुतो दुःखित्वानुमानं न युक्तमागमबाधादित्याह -
तथा चेति ।
दुःखित्वे तद्भावोपदेशो न स्यादित्यर्थः ॥४६॥
स्मृत्याप्यनुमानं बाध्यमित्याह -
स्मरन्ति चेति ।
सूत्रं व्याचष्टे -
स्मरन्तीति ।
तत्र जीवपरयोर्मध्ये कर्मात्मा कर्माश्रयो जीवः । दशेन्द्रियाणि पञ्च प्राणाः मनो बुद्धिश्चेति सप्तदशसङ्ख्याको राशिर्लिङ्गम् ।
सूत्रे चशब्दः श्रुतिसमुच्चयार्थ इत्याह -
चशब्दादिति ।
यथादित्यः प्राकाश्यदोषैर्न लिप्यते तथेत्यर्थः ।
यतो बाह्योऽसङ्गस्तस्मान्न लिप्यते एवमंशित्वकृतमीश्वरे दोषं निरस्यांश इत्युक्तं जीवस्यांशत्वं देहाद्युपाधिकमिति स्फुटयितुमत्यन्तस्वरूपैक्यमादायाक्षिपति -
अत्राहेत्यादिना ।
कथं तर्हि इत्यन्वयः । तद्भेदादंशभेदात् । निरवयवब्रह्मणो मुख्यांशो न सम्भवतीति वदता सिद्धान्तिना भेदो नास्तीत्युक्तं भवति, भेदाभावे चांशांशित्वाभावादनुज्ञादिभेदव्यवहारानुपपत्तिरित्याक्षेपाभिप्रायः ।
न वयं भेदस्यासत्त्वं नरशृङ्गवद्ब्रूमः, किन्तु मिथ्यात्वं वदामः । तथा च देहाद्युपाधिभेदेनांशजीवानामाब्रह्मबोधात्कल्पितभेदाद्भेदव्यवहारोपपत्तिरिति सूत्रेण समाधत्ते -
तामित्यादिना ॥४७॥
ननु भ्रान्तेः कुतश्चिन्निवृत्तौ व्यवहारविच्छेदः स्यादित्यत आह -
न ह्यस्या इत्यादिना ।
प्रतता सन्तता, विशेषो भेदः ।
अनियोज्यत्वाद्ब्रह्मविदः शास्त्रानर्थक्यमिष्टमित्याह -
न तस्येति ।
नियोगविषयद्वैताभावादात्मन्यसाध्ये नियोगानुपपत्तेर्न ब्रह्मविन्नियोज्य इत्यर्थः ।
नन्वामुष्मिकफलहेतुके कर्मणि देहभिन्नात्मविवेकिन एवाधिकारो वाच्यः । तथा च ब्रह्मविन्नियोज्यः, विवेकित्वात् , कर्माधिकारिवदिति शङ्कते -
शरीरव्यतिरेकेति ।
परोक्षविवेकस्यापरोक्षभ्रमाविरोधित्वात्कर्मिणो देहाभेदभ्रमोऽस्ति, तथा च भ्रम उपाधिरिति परिहरति -
नेत्यादिना ।
यथा व्योम देहाद्भिन्नं तद्वदहमित्यपश्यतः भ्रान्तस्येत्यर्थः ।
ब्रह्मविन्न नियोज्यः, अभ्रान्तत्वात् , सुषुप्तवदित्याह -
न हीति ।
देहादिष्वसंहतत्वदर्शिनः संहतत्वदर्शनशून्यस्य भेदभ्रान्तिरहितस्य सुषुप्तस्येति यावत् । अज्ञस्यापि भ्रान्त्यभावकाले नियोज्यत्वं न दृष्टं किमु वाच्यमात्मविद इत्यर्थः ।
अनियोज्यत्वे बाधकमाशङ्क्य परिहरति -
न चेति ।
विषयवैराग्यस्य ज्ञानार्थमभ्यस्तस्य ज्ञानानन्तरमनुवृत्त्या विषयेषु प्रवर्तकरागनिवृत्तेर्नातिप्रसङ्ग इत्यर्थः । तदुक्तं भगवता 'रसोऽप्यस्य परं दृष्ट्वा निवर्तते' इति ।
एवमनुज्ञादिप्रसङ्गेनानियोज्यम् , विदुष उक्त्वा प्रकृतिमुपसंहरति -
तस्मादिति ।
एकस्याप्युपाधिभेदादनुज्ञापरिहारयोर्दृष्टान्तमाह -
ज्योतिरिति ।
क्रव्यं मांसमत्तीति क्रव्यादशुचिः श्मशानाग्निरित्यर्थः ॥४८॥
शङ्कोत्तरत्वेन सूत्रं व्याचष्टे -
स्यातामित्यादिना ।
यद्यपि स्थूलदेहसम्बन्धादुपादानपरित्यागौ स्यातां तथाप्यन्यकृतकर्मफलमितरेणापि भुज्येतेति कर्मफलव्यतिकरः साङ्कर्यं स्याद्देहविशिष्टस्य स्वर्गादिभोगायोगेनाविशिष्टात्मन एकस्यैव भोक्तृत्वात् । तस्मात्स्वर्गी नरकी चेति व्यवस्थासिद्धये आत्मस्वरूपभेदो वाच्य इति शङ्कार्थः । भवेत्तदा साङ्कर्यं यद्यनुपहितात्मन एव भोक्तृत्वं स्यात् । न त्वेतदस्ति । 'तद्गुणसारत्वात्' इत्यत्र मोक्षस्यापि, बुद्ध्युपहितस्यैव कर्तृत्वादिस्थापनात् , तथा च बुद्धेः परदेहासम्बन्धात्तदुपहितजीवस्य नास्ति परदेहसम्बन्ध इति बुद्धिभेदेन भोक्तृभेदान्न कर्मादिसाङ्कर्यमिति समाधानार्थः ॥४९॥
अंशेत्याद्यसूत्रे जीवस्यांशत्वं घटाकाशस्येवोपाध्यवच्छेदबुद्ध्योक्तम् , सम्प्रति एवकारेणावच्छेदपक्षारुचिं सूचयन् 'रूपं रूपं प्रतिरूपो बभूव' इत्यादिश्रुतिसिद्धम्प्रतिबिम्बपक्षमुपन्यस्यति भगवान् सूत्रकारः -
आभास एव चेति ।
परमात्मैवानुपहितो जीवो न भवति, उपाध्यनुभवात् । नापि ततो भिन्नः, 'स एष इह प्रविष्टः' इत्याद्यभेदश्रुतिस्मृतिविरोधात् । तस्मादविद्यातत्कार्यबुद्ध्यादिप्रतिबिम्ब एव जीव इत्यर्थः ।
अस्मिन् पक्षे बुद्धिप्रतिबिम्बभेदात्स्वर्गी नारकीत्यादिव्यवस्था जीवत्वस्याविद्यकत्वाद्विद्यया मोक्षश्चेत्युपपद्यत इत्याह -
अतश्चेत्यादिना ।
यस्त्वयं भास्करस्य प्रलापः प्रतिबिम्बस्य नोपाधिसंसृष्टतया कल्पितत्वं किन्तु स्वरूपेणैव, अतः कल्पितप्रतिबिम्बस्य मुक्तौ स्थित्ययोगान्न जीवत्वमिति स सिद्धान्तरहस्याज्ञानकृत इत्युपेक्षणीयः । यदि दर्पणे मुखं शुक्तौ रजतवत्कल्पितं स्यात्तदा नेदं रजतमिति स्वरूपबाधवन्नेदं मुखमिति बाधः स्यात् । अतो नास्ति दर्पणे मुखमिति संसर्गमात्रबाधान्मदीयं मुखमेवेदमित्यबाधितमुखाभेदानुभवात्संसृष्टत्वेनैव कल्पितत्वं प्रवेशवाक्यैश्चाविकृतब्रह्मण एव प्रतिबिम्बभावाख्यप्रवेशोक्तेर्न स्वरूपकल्पना, पराक्रान्तं चात्र दर्पणटीकायामाचार्यैरित्युपरम्यते ।
एवं स्वमते स्वरूपैक्येऽप्युपहितजीवभेदादसाङ्कर्यमुक्तम् , सम्प्रति सूत्रे चकारसूचितं परेषां साङ्कर्यं वक्तुमुपक्रमते -
येषमित्यादिना ।
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावना नवात्मविशेषगुणाः, सन्निधानादीत्यादिपदादौदासीन्यमुक्तम् ।
साङ्ख्यः स्वाभिप्रायं शङ्कते -
स्यादेतदिति ।
सर्वेषां पुंसां प्रकृतिसान्निध्याद्यविशेषेऽपि प्रकृतिरेव प्रतिपुरुषं नियमेन भोगापवर्गार्थं प्रवर्तते, तथा चोद्देश्यपुरुषार्थनियता प्रधानप्रवृत्तिरिति भोगादिव्यवस्था, अन्यथा नियतप्रवृत्त्यनङ्गीकारे स्वमाहात्म्यख्यापनार्था प्रधानस्य प्रवृत्तिरित्युद्देश्यविघातः स्यादित्यर्थः ।
जडप्रधानस्योद्देश्यविवेकाभावात्पुरुषार्थस्याप्यनागतस्याचेतनस्यानियामकत्वान्न व्यवस्था, मानयुक्तिशून्यत्वादित्याह -
नैतदिति ।
यो हि नियामकभावेनोद्देश्यविघातमापादयति तं प्रति तस्यैवापादनमिष्टमिति भावः ।
तार्किकमतेऽपि भोगादिसाङ्कर्यमित्याह -
काणादानामिति ।
हेतुर्मनःसंयोगः, फलं सुखादि, यदात्मादृष्टकृतो यो मनःसंयोगः स तदात्मन एव सुखादिहेतुरिति व्यवस्थां शङ्कते -
स्यादेतदिति ।
सूत्रेण परिहरति -
नेत्याहेति ॥५०॥
पूर्ववन्मनःसंयोगवददृष्टस्यापि सर्वात्मसाधरणत्वान्न व्यवस्थेत्यर्थः । रागादिनियमात्तज्जादृष्टनियम इत्याशङ्क्योत्तरत्वेन सूत्रं गृह्णाति -
स्यादेतदित्यादिना ॥५१॥
अनियम उक्तदोषः । आत्मान्तरप्रदेशस्य परदेहे अन्तर्भावाद्व्यवस्थेति शङ्कार्थः ॥५२॥
किं मनसा संयुक्तात्मैवात्मनः प्रदेशः । उत कल्पितः । आद्ये सर्वात्मनां सर्वदेहेषु अन्तर्भावादव्यवस्था । द्वितीयं दूषयति -
तत्र न वैशेषिकैरिति ।
सर्वात्मसान्निध्ये सति कस्यचिदेव प्रदेशः कल्पयितुमशक्यः । नियामकभावादित्यर्थः ।
प्रदेशकल्पनामङ्गीकृत्याप्याह -
कल्प्येति ।
कार्यमभिसन्ध्यादिकं यस्यात्मनो यच्छरीरं तत्र तस्यैव भोग इति व्यवस्थामाशङ्क्याह -
शरीरमपीति ।
प्रदेशपक्षे दोषान्तरमाह -
प्रदेशेति ।
यस्मिन्नात्मप्रदेशेऽदृष्टोत्पत्तिः स किं चलः स्थितो वा । नाद्यः, अचलें 'शिन्यंशस्य चलनविभागयोरसम्भवादण्वात्मवादापाताच्च । द्वितीये तस्मिन्नेव प्रदेशे परस्यापि भोगदर्शनाददृष्टमस्तीत्येकेनापि शरीरेण द्वयोरात्मनोर्भोगप्रसङ्गः । यद्यात्मभेदात्प्रदेशयोर्भेदस्तदापि तयोरेकदेहान्तर्भावाद्भोगसाङ्कर्यं तदवस्थं सावयवात्मवादप्रपङ्गश्च । किञ्च यत्तु यत्रात्मनः प्रदेशे शरीरादिसंयोगाददृष्टमुत्पन्नं तत्तत्रैवाचलप्रदेशे स्थितमिति स्वर्गादिशरीरावच्छिन्नात्मन्यदृष्टाभावाद्भोगो न स्यादतः प्रदेशभेदो न व्यवस्थापकः । यत्त्वत्रोत्पन्नमदृष्टं स्वाश्रये यत्र क्वचिद्भोगहेतुरिति स्वर्गादिभोगसिद्धिरिति । तन्न । भोगशरीराद्दूरस्थादृष्टे मानाभावादिति भावः । यदपि केचिदाहुः - मनस एकत्वेऽप्यात्मनां भेदेन संयोगव्यक्तीनां भेदात्कयाचित्संयोगव्यक्त्या कस्मिंश्चेदेवात्मन्यदृष्टादिकमित्यसाङ्कर्यमिति । तन्न । संयोगव्यक्तीनां वैजात्याभावेन सर्वासामेवैकदेहान्तःस्थसर्वात्मस्वदृष्टहेतुत्वापत्तेः । तथा च सर्वात्मनामेकस्मिन् देहे भोक्तृत्वं दुर्वारम् । किञ्च बहूनां विभुत्वमङ्गीकृत्य साङ्कर्यमुक्तम् , सम्प्रति कर्तृणां विभुत्वमसिद्धमहमिहैवास्मि इत्यल्पत्वानुभवान्मानाभावाच्चेत्याह -
सर्वगतत्वानुपपत्तिश्चेति ।
किञ्च बहूनां विभुत्वे समानदेशत्वं वाच्यम् , तच्चायुक्तमदृष्टत्वादित्याह -
वदेति ।
ननु रूपरसादीनामेकघटस्थत्वं दृष्टमिति चेत् , नायमस्मत्सम्मतो दृष्टान्तः । रूपस्य तेजोमात्रत्वाद्रसस्य जलमात्रत्वाद्गन्धस्य पृथिवीमात्रत्वादित्येवं तत्तद्गुणस्य स्वस्वधर्म्यंशेनाभेदात्तेजआदिधर्म्यतिरिक्तघटाभावात् । किञ्चात्मनां बहुत्वमप्यसिद्धम् , आत्मत्वरूपलक्षणस्याभेदात् , तथा च देवदत्तात्मा यज्ञदत्तात्मनो न भिन्नः आत्मत्वात् , यज्ञदत्तात्मवत् ।
अत्र वैशेषिकः शङ्कते -
अन्त्यविशेषेति ।
नित्यद्रव्यमात्रवृत्तयो विशेषास्ते च स्वयं स्वाश्रयव्यावर्तका एव न स्वेषां व्यावर्तकमपेक्षन्त इत्यन्त्या उच्यन्ते । तथा च विशेषरूपलक्षणभेदाद्भवत्यात्मभेद इत्यर्थः । न तावदात्मन्यनात्मनः सकाशाद्भेदज्ञानार्था विशेषकल्पना, आत्मत्वादेवानात्मभेदसिद्धेः । नाप्यात्मनां मिथो भेदज्ञानार्थं तत्कल्पना, आत्मभेदस्याद्याप्यसिद्धेः । न च विशेषभेदकल्पनादेवात्मभेदकल्पना युक्ता, आत्मभेदज्ञप्तावात्मसु विशेषभेदसिद्धिस्तत्सिद्धौ तज्ज्ञप्तिरित्यन्योन्याश्रयादिति परिहारार्थः ।
यत्तु बहूनां विभुत्वे आकाशदिक्काला दृष्टान्त इति सोऽप्यसम्मत इत्याह -
आकाशादीनामिति ।
विभुत्वस्यैकवृत्तित्वे लाघवान्न विभुभेदः ।
यथैकस्मिन्नाकाशे भेरीवीणादिभेदेन तारमन्द्रादिशब्दव्यवस्था एवमेकस्मिन्नप्यात्मनि बुद्ध्युपाधिभेदेन सुखादिव्यवस्थोपपत्तेरात्मभेदेऽपि व्यवस्थानुपपत्तेरुक्तत्वान्मुधा भेदकल्पनेत्युपसंहरति -
तस्मादिति ।
एवं भूतभोक्तृश्रुतीनां विरोधाभावाद्ब्रह्मण्यद्वये समन्वय इति सिद्धम् ॥५३॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां द्वितीयाध्यायस्य तृतीयः पादः ॥३॥