अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

चराचरव्यपाश्रयाधिकरणम्

चराचरभावित्वात् ।

एवं ताव­त्त­त्प­द­वा­च्य­का­र­ण­नि­र्ण­याय भूतश्रुतीनां विरोधो निरस्तः इदानीमा पाद­मा­प्ते­स्त्व­म्प­दा­र्थ­शुद्ध्यै जीवश्रुतीनां विरोधो निरस्यते । इह जीवो 'न जायते म्रियते' इत्या­दि­श्रु­ते­र्जा­ते­ष्टि­श्रा­द्ध­शा­स्त्रेण विरोधोऽस्ति न वेति सन्देहे विरोधोऽस्तीति प्राप्ते लौकि­क­ज­न्मा­दि­व्य­प­दे­श­स­हा­या­ज्जा­ते­ष्ट्या­दि­शा­स्त्रेण जीवा­ज­त्वा­दि­श्रु­ति­र्बा­ध्यत इति पूर्वपक्षयति -
स्त इति ।
तथा च कर­णो­त्प­त्ति­क्र­मेण भूतक्रमस्य बाधाभावेऽपि जीवो­त्प­त्ति­क्र­मेण बाधः स्यादिति प्रत्यु­दा­ह­र­ण­स­ङ्गतिः । पूर्वपक्षे जीव­ब्र­ह्मै­क्या­सिद्धिः, सिद्धान्ते तत्सिद्धिरिति भेदः । चेत­न­ज­न्मा­द्यु­द्दे­शेन चेतनस्य तस्य जन्मा­न्त­री­य­फ­ल­सा­धनं जात­क­र्मा­दि­सं­स्कारो विधीयते ।

तथा चोद्दे­श्य­वि­धे­य­यो­र्मि­थो­वि­रोधे सति 'विधे­या­वि­रो­धे­नो­द्देश्यं नेयम्' इति न्याया­ज्ज­न्मा­दिकं देहोपाधिकं न स्वत इति सिद्धान्तयति -
तामित्यादिना ।
जीवापेतं जीवेन त्यक्तमिदं शरीरम् । जन्मा­दि­व्य­प­दे­श­श्च­रा­च­र­दे­ह­वि­षयो मुख्यः । जीवे तु भाक्तो गौण औपा­धि­क­ज­न्मा­दि­वि­षयः स्यादु­पा­धि­ज­न्म­भावे भावा­द­स­त्य­भा­वा­दिति सूत्रार्थः ।

जीव­स्यौ­पा­धि­क­ज­न्म­मृत्यौ श्रुतिमप्याह -
स वा इति ।

जायमानपदार्थमाह -
शरीरमिति ।

म्रियमाणत्वं व्याचष्टे -
उत्क्रामन्निति ।

ननूत्तरत्र जीवस्य जन्मादि निरस्यते, अत्रापि तन्निरासे पुन­रु­क्ति­रि­त्या­श­ङ्क्याह -
जीवस्येति ।
तदेवं जाते­ष्ट्या­दि­शा­स्त्र­स्यौ­पा­धि­क­ज­न्मा­दि­वि­ष­य­त्वान्न जीवा­द्य­ज­न्य­त्व­श्रु­ति­वि­रोध इति सिद्धम् ॥१६॥