अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

द्युभ्वाद्यधिकरणम्

प्रथमाध्याये तृतीयः पादः
द्युभ्वो­त­भू­म­प­द­म­क्ष­र­मी­क्ष­णीयं श्रीरा­म­म­ल्प­ह्रदि भान्तमधीशितारम् । इन्द्रा­दि­वे­द्य­म­खि­लस्य च शासितारं ज्योतिर्नभः पदमनिद्रमजं भजेऽहम् ॥ १ ॥
एवं रूढिपदबहुलानां प्रायेण सविशेषवाक्यानां समन्वयो द्वितीयपादे दर्शितः । अधुना यौगिकपदबहुलानां निर्वि­शे­ष­प्र­धा­नानां वाक्यानां समन्वयं वक्तुं तृतीयः पाद आरभ्यते । अतोऽ­त्रा­धि­क­र­णानां श्रुत्य­ध्या­य­पा­द­स­ङ्ग­तयः । तत्र पूर्व­मु­प­क्र­म­स्थ­सा­धा­र­ण­श­ब्दस्य वाक्य­शे­ष­स्थ­द्यु­मू­र्ध­त्वा­दिना ब्रह्म­प­र­त्व­मु­क्तम् , तद्व­द­त्रा­प्यु­प­क्र­म­स्थ­सा­धा­र­णा­य­त­न­त्वस्य वाक्य­शे­ष­स्थ­से­तु­श्रुत्या वस्तुतः परिच्छिन्ने प्रधानादौ व्यवस्थेति दृष्टा­न्त­ल­क्ष­णा­धि­क­र­ण­स­ङ्गतिः । पूर्वपक्षे प्रधा­ना­द्यु­पास्तिः, सिद्वान्ते निर्वि­शे­ष­ब्र­ह्म­धी­रिति फलम् । मुण्ड­क­वा­क्य­मु­दा­ह­रति
इदमिति ।
यस्मिन् लोकत्रयात्मा विराट् , प्राणैः सर्वैः सह मनः सूत्रात्मकम् , चकारादव्याकृतं कारणमोतं कल्पितं तदपवादेन तमे­वा­धि­ष्ठा­ना­त्मानं प्रत्यगभिन्नं जानथ श्रवणादिना । अन्या अनात्मवाचो विमुञ्चथ विशेषेण निःशेषं त्यजथ । एष वाग्वि­मो­क­पू­र्व­का­त्म­सा­क्षा­त्का­रोऽ­मृ­तस्य मोक्ष­स्या­सा­रा­पा­र­दु­र्वा­र­सं­सा­र­वा­रिधेः परपारस्य सेतुरिव सेतुः प्रापक इति मातृ­व­च्छ्रु­ति­र्मु­मु­क्षू­नु­प­दि­शति ।

तत्रायतनत्वस्य साधारणधर्मस्य दर्शनात्संशयमाह
तत्किमिति ।

अमृतस्य ब्रह्मणः सेतुरिति षष्ठ्या ब्रह्मणो भिन्नत्वेन सेतोः श्रुत­त्वा­दे­ष­श­ब्द­प­रा­मृष्टं द्युभ्वा­द्या­य­त­न­म­ब्र­ह्मैव सेतुरिव सेतुरित्याह
अमृतस्येति ।
भेद­श्र­व­णा­त्से­तु­रिति श्रव­ण­च्चे­त्यर्थः ।

तत्र भेदश्रवणं व्याख्यातम् । सेतुश्रवणं स्वयं विवृणोति
पारवानिति ।
अनन्तं कालतः । अपारं देशतः । जल­वि­धा­र­क­मु­ख्य­से­तो­र्ग्र­ह­णा­स­म्भ­वा­द्गौ­ण­से­तु­ग्रहे कर्तव्ये मुख्य­से­त्व­वि­ना­भू­त­पा­र­व­त्त्व­गु­ण­वा­नेव कश्चिद्ग्राह्यः । नतु मुख्य­स्या­नि­य­त­वि­धा­र­ण­गु­ण­वा­नी­श्वर इति भावः । यथा लोके मणयः सूत्रेण ग्रथिता एवं हे गौतम, सम­ष्टि­लि­ङ्गा­त्म­क­वा­युना स्थूलानि सर्वाणि सन्दृब्धानि ग्रथितानि भवन्तीति श्रुत्यर्थः ।

आत्म­श­ब्दा­त्प­क्ष­द्व­य­म­प्य­यु­क्त­मि­त्यत आह
शारीरो वेति ।
सद्वितीयत्वेन सेतु­श­ब्दो­प­प­त्ते­श्चे­त्यर्थः ।

नन्वात्मशब्दो जीवे सम्भवतीत्यत आह
आत्मशब्दश्चेति ।
उपा­धि­प­रि­च्छि­न्नस्य जीवस्य सर्ववस्तु प्रत्येकं मुख्यं नास्तीत्यर्थः । उप­क्र­म­स्थ­सा­धा­र­णा­य­त­नस्य गौण­से­तु­त्व­लि­ङ्गा­त्प्र­थ­म­श्रु­ता­त्म­श्रुत्या ब्रह्मनिश्चय इति भावः ।

स्वश­ब्दा­दि­त्य­स्या­र्था­न्त­र­माह
क्वचिच्चेति ।
प्रजा­ना­मु­त्पत्तौ सदेव मूलम् , स्थितावायतनम् , लये प्रतिष्ठेति ब्रह्म­वा­चि­स­त्प­देन छान्दोग्ये ब्रह्मण आय­त­न­त्व­श्रु­ते­र­त्रापि तथेत्यर्थः ।

अर्थान्तरमाह
स्वशब्देनैवेति ।
'यस्मिन् द्यौः' इति वाक्या­त्पू­र्वो­त्त­र­वा­क्ययोः पुरु­ष­ब्र­ह्मा­दि­श­ब्देन ब्रह्म­स­ङ्की­र्त­ना­न्म­ध्येऽपि ब्रह्म ग्राह्य­मि­त्यर्थः । पुरुष इति पूर्ववाक्यम् , ब्रह्मै­वे­त्यु­त्त­र­वा­क्यम् , सर्वासु दिक्षु स्थितं सर्वं ब्रह्मै­वे­त्यर्थः । उत्त­रे­णो­त्त­रस्यां दिशि ।

उदाहृतवाक्यस्य सवि­शे­ष­ब्र­ह्म­प­र­त्व­मा­शङ्क्य वाक्यं व्याचष्टे
तत्रेत्यादिना ।
सामा­ना­धि­क­र­ण्या­द्वि­चित्र आत्मेति सम्बन्धः ।

यस्मिन् सर्वमोतं तमे­वै­क­मि­त्ये­व­का­रै­क­श­ब्दाभ्यां निर्विशेषं ज्ञेय­मि­त्युक्त्वा हेत्वन्तरमाह
विकारानृतेति ।
विकारेऽनृते कल्पिते अभिसन्धोऽभिमानो यस्य तस्या­न­र्थ­भा­क्त्वेन निन्दाश्रुतेश्च कूटस्थसत्यं ज्ञेयमित्यर्थः ।

कथं तर्हि सामानाधिकरण्यम् , तत्राह
सर्वं ब्रह्मेति ।
यश्चोरः स स्थाणु­रि­ति­व­त्य­त्सर्वं तद्ब्रह्मेति सर्वोद्देशेन ब्रह्म­त्व­वि­धा­ना­द्बा­ध­ना­र्थम् , न तु यद्ब्रह्म तत्सर्वमिति नाना­र­स­त्वा­र्थ­मि­त्यर्थः ।

तत्र नियामकमाह
स यथेति ।
लव­ण­पि­ण्डोऽ­न्त­र्ब­हिश्च रसान्तरशून्यः सर्वो लवणैकरसो यथा, एवमरे मैत्रेयि, चिदेकरस आत्मेत्यर्थः ।

यद्यपि पार­व­त्त्व­सा­व­य­व­त्वा­दिकं मुख्य­से­त्व­व्य­भि­चारि तथापि सेतो­र्ज­ला­दि­ब­न्ध­न­रूपं यद्विधारणं तदेव व्यभि­चा­रि­त्वेऽपि सेतु­प­दा­र्थै­क­दे­श­त्वा­द्गु­ण­त्वेन ग्राह्यं नतु पदार्थबहिर्भूतं पार­व­त्त्वा­दि­क­मि­त्याह
अत्रोच्यत इति ।

दृष्ट­त्वा­त्त­द्ग्र­हेऽ­ति­प्र­स­ङ्ग­माह
नहीति ।
अत्र श्रुतौ परेणेति शेषः ।

विधारणस्य शब्दार्थत्वं स्फुटयति
षिञिति ।
सिनोति बध्नातीति सेतु­प­दा­र्थै­क­देशो विधारणमित्यर्थः । तथा चामृतपदस्य भाव­प्र­धा­न­त्वा­द­मृ­त­त्वस्य सेतुर्विधारकं ब्रह्म । अस्यैवामृतत्वं नान्य­स्ये­त्यर्थः ।

यद्वा द्युभ्वा­द्या­धारो ब्रह्म न सेतुशब्दार्थः किन्त्वव्यवहितं ज्ञानमित्याह
अपर इति ।

फलितमाह
तत्र यदुक्तमिति ।
ज्ञाने सेतौ गृहीते सतीत्यर्थः ॥ १ ॥

मुक्तैरूपसृप्यं प्रत्यक्त्वेन प्राप्यं यद्ब्रह्म तस्या­त्रो­क्ते­रिति सूत्रार्थः । मुक्ति­प्र­ति­यो­गिनं बन्धं दर्शयति
देहादिष्विति ।

तद्विपर्ययेणेति ।
उक्त­प­ञ्च­क्ले­शा­त्म­क­ब­न्ध­नि­वृ­त्त्या­त्मना स्थितमित्यर्थः ।

यथा नद्यो गङ्गाद्या नामरूपे विहाय समुद्रात्मना तिष्ठन्ति तथा ब्रह्मात्मविदपि संसारं विहाय परा­त्का­र­णा­द­व्य­क्ता­त्परं पूर्णं स्वय­ञ्ज्यो­ति­रा­नन्दं प्रत्यक्त्वेन प्राप्य तिष्ठतीत्याह
तथा विद्वानिति ।

इदं प्रधानादेः किं न स्यादत आह
ब्रह्मणश्चेति ।
अस्य मुमुक्षोः, हृदीति पदे­ना­त्म­ध­र्मत्वं कामानां निरस्तम् । यदा कामनिवृत्तिरथ तदामृतो भवति, मरणहेत्वभावात् । न केव­ल­म­न­र्थ­नि­वृत्तिः किन्त्वत्र देहे तिष्ठन्नेव ब्रह्मा­न­न्द­म­श्नुत इत्यर्थः ।

लिङ्गान्तरमाह
अपिचेति ।

धीरो विवेकी तमेवात्मानं विज्ञाय विशुद्दं लक्ष्यपदार्थं ज्ञात्वा वाक्यार्थज्ञानं कुर्यात् । ज्ञानार्थिनो ज्ञान­प्र­ति­ब­न्ध­क­क­र्म­का­ण्डा­दे­र्वै­मु­ख्य­माह
नेति ।
बहूनित्युक्त्या अल्पा­न्वे­दा­न्त­श­ब्दा­न­ङ्गी­क­रोति । 'अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्थता । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च' ॥ इत्येतानि वागि­न्द्रि­य­स्था­न­त्वा­द्वा­क्श­ब्दे­नो­च्यन्ते । तेषां शोष­ण­मा­त्र­म­ना­त्म­श­ब्दो­च्चा­र­ण­फलं तद्ध्यानान्मनसो ग्लानि­मा­त्र­मि­त्यर्थः ॥ २ ॥

वैशेषिक इति ।
असाधारण आत्म­श­ब्दा­दि­रि­त्यर्थः ।

अत­च्छ­ब्दा­दि­त्य­स्या­र्था­न्त­र­माह
तद्विपरीतस्येति ।
अत एवातच्छब्दादेव ॥ ३ ॥

प्राणभृच्चेति ।
सूत्रे चकारः पूर्व­सू­त्र­स्थ­न­ञोऽ­नु­ष­ङ्गार्थः । सर्व­ज्ञ­प­द­स­मा­ना­धि­क­र­ण­मा­त्म­शब्दो न जीव­वा­ची­त्य­त­च्छ­ब्द­स्त­स्मा­दि­त्यर्थः ।

ननु 'नानु­मा­न­प्रा­ण­भृ­ता­व­त­च्छ­ब्दात्' इत्येकमेव सूत्रं किमर्थं न कृत­मु­भ­य­नि­रा­स­हे­तो­रे­क­त्वा­दि­त्यत आह
पृथगिति ।
योगः सूत्रम् । उत्त­र­सू­त्र­स्थ­हे­तूनां जीव­मा­त्र­नि­रा­से­ना­न्व­येऽपि सुबोधार्थं प्राणभृच्चेति पृथ­क्सू­त्र­क­र­ण­मि­त्यर्थः ॥ ४ ॥

तानेव हेतू­ना­का­ङ्क्षा­द्वारा व्याचष्टे
कुतश्चेत्यादिना ।
यद्यपि विशुद्धः प्रत्य­गा­त्मै­वात्र ज्ञेयः तथापि जीवत्वाकारेण ज्ञातु­र्ज्ञे­या­द्भे­दान्न ज्ञेय­रू­प­त्व­मि­त्यर्थः ।

एवं च जीव­त्व­लि­ङ्ग­वि­शि­ष्ट­त्वेन जीवस्य द्युभ्वा­दि­वा­क्या­र्थत्वं निरस्यते न शुद्धरूपेणेति मन्तव्यम् ॥ ५ ॥ ॥ ६ ॥

ननु स्थित्ये­श्व­र­स्या­द­ना­जी­वस्य 'द्वा सुपर्णा' इत्यत्रोक्तावपि ईश्वर आयतनवाक्येन किमर्थं ग्राह्य इत्यत आह
यदि चेश्वर इति ।
अत्र चेश्वरः शुद्धचिन्मात्रो ग्राह्यः, न सर्व­ज्ञ­त्वा­दि­वि­शिष्टः, तस्या­त्रा­प्र­ति­पा­द्य­त्वात् । तथा चाप्र­ति­पा­द्या­र्थ­स्या­क­स्मा­न्मध्ये वच­ना­स­म्भ­वा­दा­द्य­वा­क्येन ग्रहणं कार्य­मि­त्य­भि­सन्धिः ।

तमज्ञात्वा शङ्कते
ननु तवापीति ।

ब्रह्म­स्व­रू­प­प्र­ति­पा­द­ना­र्थ­म­क­स्मा­द­प्र­कृ­त­स्यापि लोकप्रसिद्धस्य जीव­स्या­नु­वा­द­स­म्भव इति परिहरति
नेति ।

ननु 'द्वा सुपर्णा' इत्यत्र बुद्धि­जी­व­यो­रुक्तेः कथमिदं सूत्रमित्यत आह
गुहामिति ।
स्थित्य­द­ना­भ्या­मी­श्व­र­क्षे­त्र­ज्ञ­यो­र­नु­वा­दे­नैक्यं दर्शितमित्यर्थः ।

नन्वत्र जीवेशौ नानुवाद्यौ, पैङ्गि­व्या­ख्या­वि­रो­धा­दतः सूत्रा­स­ङ्ग­ति­रि­त्यत आह
यदापीति ।
तदापि सूत्र­स्या­स­ङ्ग­ति­र्ना­स्ती­त्यर्थः ।

अदनवाक्येन बुद्धिमनूद्य स्थितिवाक्येन बुद्ध्या­दि­वि­ल­क्ष­ण­शु­द्ध­प्र­त्य­ग्ब्र­ह्मणो ज्ञेय­स्यो­क्ते­र्द्यु­भ्वा­दि­वाक्ये तदेव ग्राह्यम् , न बुद्ध्युपहितो जीव इति सूत्रसङ्गतिमाह
कथमित्यादिना ।

नन्वत्रानुपहितो जीव उक्तो न परं ब्रह्मेत्यत आह
यस्त्विति ।

पौनरुक्त्यं शङ्कते
तदेतदिति ।
द्युभ्वा­दि­वा­क्यस्य ब्रह्म­प­र­त्व­मि­त्यर्थः ।

समाधत्ते
प्रपञ्चार्थमिति ।
सेतु­श­ब्द­व्या­ख्या­नेन भूतयोनेः प्रत्य­गा­त्म­त्व­स्फु­टी­क­र­णा­र्थ­मि­त्यर्थः । तस्मा­न्मु­ण्ड­को­प­नि­ष­द्ब्र­ह्मणि समन्वितेति सिद्धम् ॥ ७ ॥