अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

एकाग्रताधिकरणम्

यत्रैकाग्रता तत्राविशेषात् ।
तेष्वे­वा­ङ्गा­ना­श्रि­तो­पा­स­नेषु प्राच्यादिदिशि तीर्थादिदेशे प्रदोषादिकाले नियमोऽस्ति न वेत्यु­भ­य­था­स­म्भ­वा­त्सं­शयः । एकविषयत्वं सङ्ग­ति­रू­पा­स्तीनां विहि­त­त्वा­द्या­गा­दि­व­दस्ति दिगादिनियम इति पूर्वपक्षः । अत्र दिगादिष्वादरः फलं सिद्धान्ते त्वनादरः । ध्येये चित्तै­का­ग्र्यस्य प्राधा­न्या­त्प्र­धा­ना­क्षि­प्त­दे­शा­दि­ग्र­ह­ण­स्यो­चि­त­त्वा­दि­वि­वेकः ।

अर्थलक्षण एवेति ।
ऐका­ग्र्य­फ­ल­लि­ङ्गक एवेत्यर्थः । प्राचीनप्रवणे प्राग्देशे निम्नस्थाने वैश्वदेवं कुर्यादितिवदत्र दिगादिविशेषो न श्रूयते अतोऽ­नु­मा­न­म­प्र­यो­ज­क­मिति भावः ।

विशे­षा­श्र­व­ण­म­सि­द्ध­मिति शङ्कते -
ननु विशेषमपीति ।
शर्कराः सूक्ष्मपाषाणाः । जलाश्रयवर्जनं शीत­नि­वृ­त्त्य­र्थम् । चक्षुःपीडनो मशकः । वाचनिकं सम­दे­शा­दि­नि­य­म­म­ङ्गी­कृत्य चित्तै­का­ग्र्य­वि­रु­द्धेषु देशादिगतेषु प्राची­न­प्र­व­ण­त्वा­दि­ष्व­ना­दर इति सुहृद्भावेन सूत्रकृदुपदिशति । देशाद्याग्रहे चित्त­वि­क्षे­पा­त्स­मा­धि­भङ्गः स्यात्स माभूदिति ॥११॥