भाष्यरत्नप्रभाव्याख्या
एकस्मिन्नसम्भवाधिकरणम्
नैकस्मिन्नसम्भवात् ।
मुक्तकच्छमते निरस्ते मुक्ताम्बराणां मतं बुद्धिस्थं भवति तन्निरस्यत इति प्रसङ्गसङ्गतिमाह -
निरस्त इति ।
एकरूपं ब्रह्मेति वैदिकसिद्धान्तस्यानैकान्तवादेन विरोधोऽस्ति न वेति तद्वादस्य मानभ्रान्तिमूलत्वाभ्यां सन्देहे मानमूलत्वाद्विरोध इति पूर्वपक्षफलमभिसन्धाय तन्मतमुपन्यस्यति -
सप्त चेति ।
जीवाजीवौ भोक्तृभोग्यौ, विषयाभिमुख्येनेन्द्रियाणां प्रवृत्तिराश्रवः, तां संवृणोति इति संवरो यमनियमादिः, निर्जरयति नाशयति कल्मषमिति निर्जरस्तप्तशिलारोहणादिः, बन्धः कर्म, मोक्षः कर्मपाशनाशे सत्यलोकाकाशप्रविष्टस्य सततोर्ध्वगमनम् ।
नन्वास्रवादीनां भोग्यान्तर्भावात्कथं सप्तत्वमित्यत आह -
सङ्क्षेपतस्त्विति ।
सङ्क्षेपविस्तराभ्यामुक्तार्थेषु मध्यमरीत्या विस्तरान्तरमाह -
तयोरिति ।
अस्तिकायशब्दः साङ्केतिकः पदार्थवाची । जीवश्चासावस्तिकायश्चेत्येवं विग्रहः । पूर्यन्ते गलन्तीति पुद्गलाः परमाणुसङ्घाः कायाः, सम्यक्प्रवृत्त्यनुमेयो धर्मः, ऊर्ध्वगमनशीलस्य जीवस्य देहे स्थितिहेतुरधर्मः, आवरणाभाव आकाश इत्यर्थः ।
पञ्चपदार्थानामवान्तरभेदमाह -
सर्वेषामिति ।
अयमर्थः - जीवास्तिकायस्त्रिविधः कश्चिज्जीवो नित्यसिद्धोऽर्हन्मुख्यः, केचित्साम्प्रतिकमुक्ताः, केचिद्बद्धा इति । पुद्गलास्तिकायः षोढापृथिव्यादीनि चत्वारि भूतानि, स्थावरं जङ्गमं चेति । प्रवृत्तिस्थितिलिङ्गौ धर्माधर्मावुक्तौ । आकाशास्तिकायो द्विविधः - लोकाकाशः सांसारिकः, अलोकाकाशो मुक्ताश्रय इति । बन्धाख्यं कर्माष्टविधं चत्वारि घातिकर्माणि चत्वार्यघातीनि । तत्र ज्ञानावरणीयं दर्शनावरणीयं मोहनीयमन्तरायं चेति घातिकर्माणि । तत्त्वज्ञानान्न मुक्तिरिति ज्ञानमाद्यं कर्म, आर्हततन्त्रश्रवणान्न मुक्तिरिति ज्ञानं द्वितीयम् , बहुषु तीर्थकरप्रदर्शितेषु मोक्षमार्गेषु विशेषानवधारणं मोहनीयम् , मोक्षमार्गप्रवृत्तिविघ्नकरणमन्तरायम् , इमानि चत्वारि श्रेयोहन्तृत्वात् घातिकर्माणि । अथाघातीनि चत्वारि कर्माणि वेदनीयं नामिकं गोत्रिकमायुष्कमिति । मम वेदितव्यं तत्त्वमस्तीत्यभिमानो वेदनीयम् , एतन्नामाहमस्मीत्यभिमानो नामिकम् , अहमत्र भवतो देशिकस्यार्हतः शिष्यवंशे प्रविष्टोऽस्मीत्यभिमानो गोत्रिकम् , शरीरस्थित्यर्थं कर्म आयुष्कम् । अथवा शुक्रशोणितमिश्रितमायुष्कम् , तस्य तत्त्वज्ञानानुकूलदेहपरिणामशक्तिर्गोत्रिकम् , शक्तस्य तस्य द्रवीभावात्मककललावस्थाया बुद्बुदावस्थायाश्चारम्भकः क्रियाविशेषो नामिकम् , सक्रियस्य बीजस्य जाठराग्निवायुभ्यामीषद्घनीभावो वेदनीयम् , तत्त्ववेदनानुकूलत्वात् । तान्येतानि तत्त्वावेदकशुक्लपुद्गलार्थत्वादघातीनि । तदेतत्कर्माष्टकं जन्मार्थत्वाद्बन्ध आस्रवादिद्वारेति ।
इयं प्रक्रिया मानशून्येति द्योतयति -
स्वसमयपरिकल्पितानिति ।
स्वीयतन्त्रसङ्केतमात्रकल्पितानित्यर्थः ।
स्वीयतन्त्रसङ्केतमात्रकल्पितानित्यर्थः । पदार्थानामुक्तानामनैकान्तत्वं वदन्तीत्याह -
सर्वत्रेति ।
अस्तित्वनास्तित्वादिविरुद्धधर्मद्वयमादाय वस्तुमात्रे न्यायं योजयन्ति । सप्तानामस्तित्वादीनां भङ्गानां समाहारः सप्तभङ्गी, तस्या नयो न्यायः । घटादेर्हि सर्वात्मना सदैकरूपत्वे प्राप्यात्मनाप्यस्त्येव स इति तत्प्राप्तये यत्नो न स्यात् । अतो घटत्वादिरूपेण कथञ्चिदस्ति, प्राप्यत्वादिरूपेण कथञ्चिन्नास्तीत्येवमनेकरूपत्वं वस्तुमात्रस्यास्थेयमिति भावः ।
के ते सप्तभङ्गाः, तानाह -
स्यादस्तीति ।
स्यादित्यव्ययं तिङन्तप्रतिरूपकं कथञ्चिदर्थकम् । स्यादस्ति । कथञ्चिदस्तीत्यर्थः । एवमग्रेेऽपि । तत्र वस्तुनोऽस्तित्ववाञ्छायां स्यादस्तीत्याद्यो भङ्गः प्रवर्तते । नास्तित्ववाञ्छायां स्यान्नास्तीति द्वितीयो भङ्गः । क्रमेणोभयवाञ्छायां स्यादस्ति च नास्ति चेति तृतीयो भङ्गः । युगपदुभयवाञ्छायामस्ति नास्तीति शब्दद्वयस्य सकृद्वक्त्तुमशक्यत्वात्स्यादवक्तव्य इति चतुर्थो भङ्गः । आद्यचतुर्थभङ्गयोर्वाञ्छायां स्यादस्ति चावक्तव्यश्चेति पञ्चमो भङ्गः । द्वितीयचतुर्थेच्छायां स्यान्नास्ति चावक्तव्यश्चेति षष्ठो भङ्गः । तृतीयचतुर्थेच्छायां स्यादस्ति च नास्ति चावक्तव्यश्चेति सप्तमो भङ्ग इति विभागः । एवमेकत्वमनेकत्वं चेति द्वयमादाय स्यादेकः स्यादनेकः स्यादेकोऽनेकश्च स्यादवक्तव्यः स्यादेको वक्तव्यः स्यादनेकोऽवक्तव्यः स्यादेकोऽनेकश्चावक्तव्यश्चेति, तथा स्यान्नित्यः स्यादनित्य इत्याद्यूह्यम् ।
एवमनेकरूपत्वे वस्तुनि प्राप्तित्यागादिव्यवहारः सम्भवति, एकरूपत्वे सर्वं सर्वत्र सर्वदास्त्येवेति व्यवहारविलोपापत्तिः स्यात् , तस्मादनैकान्तं सर्वमित्येकरूपब्रह्मवादबाध इति प्राप्ते सिद्धान्तयति -
अत्रेति ।
यदस्ति तत्सर्वत्र सर्वदास्त्येव यथा ब्रह्मात्मा । न चैवं तत्प्राप्तये यत्नो न स्यादिति वाच्यम् , अप्राप्तिभ्रान्त्या यत्नसम्भवात् । यन्नास्ति तन्नास्त्येव, यथा शशविषाणादि । प्रपञ्चस्तूभयविलक्षण एवेत्येकान्तवाद एव युक्तो नानैकान्तवादः । तथा हि किं येनाकारेण वस्तुनः सत्त्वं तेनैवाकारेणासत्त्वमुताकारान्तरेण । द्वितीये वस्तुन आकारान्तरमेवासदिति वस्तुनः सदैकरूपत्वमेव । न हि दूरस्थग्रामस्य प्राप्तेरसत्त्वे ग्रामोऽप्यसन् भवति, प्राप्यासत्त्वे प्राप्तियत्नानुपपत्तेः । अतो यथाव्यवहारं प्रपञ्चस्यैकरूपत्वमास्थेयम् ।
नाद्य इत्याह -
नायमिति ।
ननु विमतमनैकात्मकम् , वस्तुत्वात् , नारसिंहवदिति चेत् । न । घट इदानीमस्त्येवेत्यनुभवबाधात् । किञ्च जीवादिपदार्थानां सप्तत्वं जीवत्वादिरूपं चास्त्येव नास्त्येवेति च नियतमुतानियतम् । आद्ये व्यभिचार इत्याह -
य इति ।
द्वितीये पदार्थनिश्चयो न स्यादित्याह -
इतरथेति ।
अनैकान्तं सर्वमित्येव निश्चय इति शङ्कते -
नन्विति ।
तस्य निश्चयरूपत्वं नियतमनियतं वा । आद्ये वस्तुत्वस्य तस्मिन्नेवैकरूपे निश्चये व्यभिचारः । द्वितीये तस्य संशयत्वं स्यादित्याह -
नेति ब्रूम इति ।
प्रमायामुक्तन्यायं प्रमात्रादावतिदिशति -
एवमिति ।
निर्धारणं फलं यस्य प्रमाणादेस्तस्येत्यर्थः ।
इत्येवं सर्वत्रानिर्धारणे सत्युपदेशो निष्कम्पप्रवृत्तिश्च न स्यादित्याह -
एवं सतीति ।
अनैकान्तवादे अस्तिकायपञ्चत्वमपि न स्यादित्याह -
तथा पञ्चानामिति ।
यदुक्तमवक्तव्यत्वं तत्किं केनापि शब्देनावाच्यत्वमुत सकृदनेकशब्दावाच्यत्वम् । नाद्यः, व्याघातादित्याह -
न चैषामिति ।
उच्यन्ते च । अवक्तव्यादिपदैरिति शेषः । न द्वितीयः, सकृदेकवक्तृमुखजानेकशब्दानामप्रसिद्धेर्निषेधायोगात् , शेषस्यापि मुखभेदात् । न चार्थस्य युगपद्विरुद्धधर्मवाञ्छायां वक्तुर्मूकत्वमात्रमवक्तव्यपदेन विवक्षितमिति वाच्यम् , तादृशवाञ्छाया एवानुत्पत्तेरिति ।
किञ्च विरुद्धानेकप्रलापित्वादर्हन्ननाप्त इत्याह -
उच्यमानाश्चेत्यादिना ।
इति च प्रलपन्नित्यन्वयः । अर्हन्निति शेषः । अनाप्तपक्षस्यैवान्तर्गतः स्यान्नाप्तपक्षस्येत्यर्थः ।
इतश्चासङ्गतोऽनैकान्तवाद इत्याह -
स्वर्गेति ।
किञ्चानादिसिद्धोऽर्हन्मुनिः, अन्ये तु हेत्वनुष्ठानान्मुच्यन्ते, अननुष्ठानाद्बध्यन्त इत्यार्हततन्त्रावधृतस्वभावानां त्रिविधजीवानां त्रैविध्यनियमोऽपि न स्यादित्याह -
अनादीति ।
प्रपञ्चितं सूत्रार्थं निगमयति -
एवमिति ।
एतेनेति ।
सत्त्वासत्त्वयोरेकत्र निरासेनेत्यर्थः । परमाणुसङ्घाताः पृथिव्यादय इति ।
दिगम्बरसिद्धान्तः किमिति सूत्रकृतोपेक्षितः, तत्राह -
यत्त्विति ॥३३॥
जीवस्य देहपरिमाणतां दूषयति -
एवं चेति ।
अकार्त्स्न्यं मध्यमपरिमाणत्वम् । तेनानित्यत्वं स्यादित्यर्थः ।
अर्थान्तरमाह -
शरीराणां चेति ।
विपाकः कर्मणामभिव्यक्तिः । जीवस्य कृत्स्नगजशरीरव्यापित्वमकार्त्स्न्यम् । शरीरैकदेशो निर्जीवः स्यादित्यर्थः । पुत्तिकादेहे कृत्स्नो जीवो न प्रविशेत् । देहाद्बहिरपि जीवः स्यादित्यर्थः ।
किञ्च बालदेहमात्र आत्मा ततः स्थूले युवदेहे क्वचित्स्यादिति कृत्स्नदेहः सजीवो न स्यादित्याह -
समान इति ।
यथा दीपावयवानां घटे सङ्कोचो गेहे विकासस्तथा जीवावयवानामिति देहमानत्वनियमं शङ्कते -
स्यादिति ।
दीपांशवज्जीवांशा भिन्नदेशा एकदेशा वेति विकल्प्याद्येऽल्पदेहाद्बहिरपि जीवः स्यादिति दूषयति -
तेषामित्यादिना ।
दीपस्य तु न घटाद्बहिः सत्त्वमधिकावयवानां विनाशात् ।
द्वितीयं दूषयति -
अप्रतिघात इति ।
अवयवानां नित्यत्वं चासिद्धमल्पत्वाद्दीपांशवदित्याह -
अपि चेति ॥३४॥
एवं जीवावयवा नित्या इति मते देहमानत्वं निरस्तम् । सम्प्रति जीवस्य केचिदेव कूटस्था अवयवा अन्ये त्वागमापायिन इति शङ्कते -
अथेति ।
बृहत्तनुकायाप्तौ जीवस्यावयवागमापायाभ्यां देहमानत्वमित्यर्थः ।
सूत्रेण परिहरति -
न चेति ।
आगमापायौ पर्यायः ।
किमागमापायिनामवयवानामात्मत्वमस्ति न वा । आद्ये आह -
विकारादिदोषेति ।
कोऽसौ बन्धमोक्षाभ्युपगम इत्यत आह -
कर्माष्टकेति ।
व्याख्यातमेतत् ।
आद्ये कल्पे दोषान्तरं वदन् कल्पान्तरमादाय दूषयति -
किञ्चेति ।
अवशिष्टकूटस्थावयवस्य दुर्ज्ञानत्वादात्मज्ञानाभावान्न मुक्तिरित्यर्थः ।
यथा दीपावयवनामाकारस्तेजस्तथात्मावयवनामाकारकारणाभावान्नागमापायौ युक्तावित्याह -
किञ्चेति ।
सर्वजीवसाधारणः प्रतिजीवमसाधारणो वेत्यर्थः ।
किञ्चात्मन आगमापायिशीलावयवत्वे सति कियन्त आयान्त्यवयवाः कियन्तोऽपयन्तीत्यज्ञानादात्मनिश्चयाभावादनिर्मोक्षः स्यादित्याह -
किञ्चेति ।
अपि चावयवारब्धावयवित्वे जीवस्यानित्यत्वम् , अवयवसमूहत्वे चासत्त्वम् , आत्मत्वस्य यावदवयववृत्तित्वे यत्किञ्चिदवयवापायेऽपि सद्यः शरीरस्याचेतनत्वम् , गोत्ववत्प्रत्येकं समाप्तावेकस्मिञ्छरीर आत्मनानात्वं स्यादतो न देहपरिमाणत्वसावयवत्वे आत्मन इत्युपसंहरति -
अत इति ।
सूत्रस्यार्थान्तरमाह -
अथवेति ।
स्थूलसूक्ष्मशरीरप्राप्तावकार्त्स्न्योक्तिद्वारेणात्मानित्यतायामुक्तायां सुगतवत्सन्तानरूपेणात्मनित्यतामाशङ्क्यानेनोत्तरमुच्यत इत्यन्वयः ।
पर्यायेणेत्यस्य व्याख्या -
स्रोत इति ।
देहभेदेन परिमाणस्यात्मनश्चानवस्थानेऽपि नाशेऽपि । स्रोतः प्रवाहः ।
तदात्मकस्यात्मव्यक्तिसन्तानस्य नित्यतयात्मनित्यता स्यादित्यत्र दृष्टान्तमाह -
यथेति ।
सिग्वस्त्रं विगतं येभ्यस्ते विसिचो दिगम्बरास्तेषामित्यर्थः । पर्यायात्सन्तानादप्यात्मनित्यत्वस्याविरोध इति न च । कुतः । विकारादिभ्यः । सन्तानस्यावस्तुनः आत्मत्वे शून्यवादः, सन्तानस्य वस्तुत्वे सन्तान्यतिरेके च कूटस्थात्मवादः, अनतिरेके जन्मादिविकारो विनाशो मुक्त्यभाव इत्युक्तदोषप्रसङ्गात्सन्तानात्मपक्षोऽनुपपन्न इति सूत्रार्थः ॥३५॥
यं स्थूलं वा सूक्ष्मं वा देहं गृह्णाति तद्देहपरिमाण एव जीव इति नियमं दूषयति -
अन्त्येति ।
अन्त्यशरीरपरिमाणस्यावस्थितेर्नित्यत्वदर्शनादुभयोराद्यमध्यमपरिमाणयोर्नित्यत्वप्रसङ्गादविशेषस्त्रयाणां नित्यपरिमाणानां साम्यं स्याद्विरुद्धपरिमाणानामेकत्रायोगादिति सूत्रयोजना । आद्यमध्यमपरिमाणे नित्ये, आत्मपरिमाणत्वात् , अन्त्यपरिमाणवत् । न चाप्रयोजकता, परिमाणनाशे सत्यात्मनोऽपि नाशादन्त्यपरिमाणनित्यत्वायोगादिति भावः ।
परिमाणत्रयसाम्यापादानफलमाह -
एकेति ।
अन्त्यशरीरसामान्येव पूर्वशरीराणि स्युः, विषमशरीरप्राप्तावात्मनस्तत्परिमाणत्वे परिमाणत्रयसाम्यानुमानविरोधादित्यर्थः । पूर्वं कालत्रये परिमाणत्रयमङ्गीकृत्यान्त्यदृष्टान्तेन नित्यत्वमनुमाय साम्यमापादितम् ।
सम्प्रत्यन्त्यस्य मुक्तपरिमाणस्याणुत्वस्थूलत्वयोरन्यतरत्वेनावस्थितेस्तदेवान्त्यमाद्यमध्यमकालयोरपि नित्यत्वात्स्यात् , प्रागसतो नित्यत्वायोगात् , तथा चाविशेषः कालत्रयेऽपि जीवपरिमाणाभेद इत्याह -
अथवेति ।
तस्माद्भ्रान्त्येकशरणक्षपणकसिद्धान्तेनाविरोधः समन्वयस्येति सिद्धम् ॥३६॥