अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

एकस्मिन्नसम्भवाधिकरणम्

नैक­स्मि­न्न­स­म्भ­वात् ।

मुक्तकच्छमते निरस्ते मुक्ताम्बराणां मतं बुद्धिस्थं भवति तन्निरस्यत इति प्रस­ङ्ग­स­ङ्ग­ति­माह -
निरस्त इति ।

एकरूपं ब्रह्मेति वैदि­क­सि­द्धा­न्त­स्या­नै­का­न्त­वा­देन विरोधोऽस्ति न वेति तद्वादस्य मान­भ्रा­न्ति­मू­ल­त्वाभ्यां सन्देहे मान­मू­ल­त्वा­द्वि­रोध इति पूर्व­प­क्ष­फ­ल­म­भि­स­न्धाय तन्म­त­मु­प­न्य­स्यति -
सप्त चेति ।
जीवाजीवौ भोक्तृभोग्यौ, विष­या­भि­मु­ख्ये­ने­न्द्रि­याणां प्रवृ­त्ति­रा­श्रवः, तां संवृणोति इति संवरो यमनियमादिः, निर्जरयति नाशयति कल्मषमिति निर्ज­र­स्त­प्त­शि­ला­रो­ह­णादिः, बन्धः कर्म, मोक्षः कर्मपाशनाशे सत्य­लो­का­का­श­प्र­वि­ष्टस्य सततोर्ध्वगमनम् ।

नन्वास्रवादीनां भोग्या­न्त­र्भा­वा­त्कथं सप्तत्वमित्यत आह -
सङ्क्षे­प­त­स्त्विति ।

सङ्क्षे­प­वि­स्त­रा­भ्या­मु­क्ता­र्थेषु मध्यमरीत्या विस्तरान्तरमाह -
तयोरिति ।
अस्तिकायशब्दः साङ्केतिकः पदार्थवाची । जीव­श्चा­सा­व­स्ति­का­य­श्चे­त्येवं विग्रहः । पूर्यन्ते गलन्तीति पुद्गलाः परमाणुसङ्घाः कायाः, सम्य­क्प्र­वृ­त्त्य­नु­मेयो धर्मः, ऊर्ध्वगमनशीलस्य जीवस्य देहे स्थिति­हे­तु­र­धर्मः, आवरणाभाव आकाश इत्यर्थः ।

पञ्च­प­दा­र्था­ना­म­वा­न्त­र­भे­द­माह -
सर्वेषामिति ।
अयमर्थः - जीवा­स्ति­का­य­स्त्रि­विधः कश्चिज्जीवो नित्य­सि­द्धोऽ­र्ह­न्मुख्यः, केचि­त्सा­म्प्र­ति­क­मुक्ताः, केचिद्बद्धा इति । पुद्गलास्तिकायः षोढा­पृ­थि­व्या­दीनि चत्वारि भूतानि, स्थावरं जङ्गमं चेति । प्रवृ­त्ति­स्थि­ति­लिङ्गौ धर्मा­ध­र्मा­वुक्तौ । आकाशास्तिकायो द्विविधः - लोकाकाशः सांसारिकः, अलोकाकाशो मुक्ताश्रय इति । बन्धाख्यं कर्माष्टविधं चत्वारि घातिकर्माणि चत्वार्यघातीनि । तत्र ज्ञानावरणीयं दर्शनावरणीयं मोहनीयमन्तरायं चेति घातिकर्माणि । तत्त्वज्ञानान्न मुक्तिरिति ज्ञानमाद्यं कर्म, आर्ह­त­त­न्त्र­श्र­व­णान्न मुक्तिरिति ज्ञानं द्वितीयम् , बहुषु तीर्थ­क­र­प्र­द­र्शि­तेषु मोक्षमार्गेषु विशेषानवधारणं मोहनीयम् , मोक्ष­मा­र्ग­प्र­वृ­त्ति­वि­घ्न­क­र­ण­म­न्त­रा­यम् , इमानि चत्वारि श्रेयो­ह­न्तृ­त्वात् घातिकर्माणि । अथाघातीनि चत्वारि कर्माणि वेदनीयं नामिकं गोत्रि­क­मा­यु­ष्क­मिति । मम वेदितव्यं तत्त्व­म­स्ती­त्य­भि­मानो वेदनीयम् , एत­न्ना­मा­ह­म­स्मी­त्य­भि­मानो नामिकम् , अहमत्र भवतो देशिकस्यार्हतः शिष्यवंशे प्रवि­ष्टोऽ­स्मी­त्य­भि­मानो गोत्रिकम् , शरीरस्थित्यर्थं कर्म आयुष्कम् । अथवा शुक्र­शो­णि­त­मि­श्रि­त­मा­यु­ष्कम् , तस्य तत्त्व­ज्ञा­ना­नु­कू­ल­दे­ह­प­रि­णा­म­श­क्ति­र्गो­त्रि­कम् , शक्तस्य तस्य द्रवी­भा­वा­त्म­क­क­ल­ला­व­स्थाया बुद्बु­दा­व­स्था­या­श्चा­र­म्भकः क्रियाविशेषो नामिकम् , सक्रियस्य बीजस्य जाठ­रा­ग्नि­वा­यु­भ्या­मी­ष­द्घ­नी­भावो वेदनीयम् , तत्त्व­वे­द­ना­नु­कू­ल­त्वात् । तान्येतानि तत्त्वा­वे­द­क­शु­क्ल­पु­द्ग­ला­र्थ­त्वा­द­घा­तीनि । तदे­त­त्क­र्मा­ष्टकं जन्मा­र्थ­त्वा­द्बन्ध आस्र­वा­दि­द्वा­रेति ।

इयं प्रक्रिया मानशून्येति द्योतयति -
स्वस­म­य­प­रि­क­ल्पि­ता­निति ।
स्वीय­त­न्त्र­स­ङ्के­त­मा­त्र­क­ल्पि­ता­नि­त्यर्थः ।

स्वीय­त­न्त्र­स­ङ्के­त­मा­त्र­क­ल्पि­ता­नि­त्यर्थः । पदा­र्था­ना­मु­क्ता­ना­म­नै­का­न्तत्वं वदन्तीत्याह -
सर्वत्रेति ।
अस्ति­त्व­ना­स्ति­त्वा­दि­वि­रु­द्ध­ध­र्म­द्व­य­मा­दाय वस्तुमात्रे न्यायं योजयन्ति । सप्ता­ना­म­स्ति­त्वा­दीनां भङ्गानां समाहारः सप्तभङ्गी, तस्या नयो न्यायः । घटादेर्हि सर्वात्मना सदैकरूपत्वे प्राप्या­त्म­ना­प्य­स्त्येव स इति तत्प्राप्तये यत्नो न स्यात् । अतो घटत्वादिरूपेण कथञ्चिदस्ति, प्राप्य­त्वा­दि­रू­पेण कथ­ञ्चि­न्ना­स्ती­त्ये­व­म­ने­क­रू­पत्वं वस्तु­मा­त्र­स्या­स्थे­य­मिति भावः ।

के ते सप्तभङ्गाः, तानाह -
स्यादस्तीति ।
स्यादित्यव्ययं तिङ­न्त­प्र­ति­रू­पकं कथञ्चिदर्थकम् । स्यादस्ति । कथ­ञ्चि­द­स्ती­त्यर्थः । एवमग्रेेऽपि । तत्र वस्तु­नोऽ­स्ति­त्व­वा­ञ्छायां स्याद­स्ती­त्याद्यो भङ्गः प्रवर्तते । नास्ति­त्व­वा­ञ्छायां स्यान्नास्तीति द्वितीयो भङ्गः । क्रमे­णो­भ­य­वा­ञ्छायां स्यादस्ति च नास्ति चेति तृतीयो भङ्गः । युग­प­दु­भ­य­वा­ञ्छा­या­मस्ति नास्तीति शब्दद्वयस्य सकृ­द्व­क्त्तु­म­श­क्य­त्वा­त्स्या­द­व­क्तव्य इति चतुर्थो भङ्गः । आद्य­च­तु­र्थ­भ­ङ्ग­यो­र्वा­ञ्छायां स्यादस्ति चावक्तव्यश्चेति पञ्चमो भङ्गः । द्विती­य­च­तु­र्थे­च्छायां स्यान्नास्ति चावक्तव्यश्चेति षष्ठो भङ्गः । तृती­य­च­तु­र्थे­च्छायां स्यादस्ति च नास्ति चावक्तव्यश्चेति सप्तमो भङ्ग इति विभागः । एव­मे­क­त्व­म­ने­कत्वं चेति द्वयमादाय स्यादेकः स्यादनेकः स्यादेकोऽनेकश्च स्यादवक्तव्यः स्यादेको वक्तव्यः स्याद­ने­कोऽ­व­क्तव्यः स्यादे­कोऽ­ने­क­श्चा­व­क्त­व्य­श्चेति, तथा स्यान्नित्यः स्यादनित्य इत्याद्यूह्यम् ।

एवमनेकरूपत्वे वस्तुनि प्राप्ति­त्या­गा­दि­व्य­व­हारः सम्भवति, एकरूपत्वे सर्वं सर्वत्र सर्व­दा­स्त्ये­वेति व्यव­हा­र­वि­लो­पा­पत्तिः स्यात् , तस्मादनैकान्तं सर्व­मि­त्ये­क­रू­प­ब्र­ह्म­वा­द­बाध इति प्राप्ते सिद्धान्तयति -
अत्रेति ।
यदस्ति तत्सर्वत्र सर्वदास्त्येव यथा ब्रह्मात्मा । न चैवं तत्प्राप्तये यत्नो न स्यादिति वाच्यम् , अप्रा­प्ति­भ्रान्त्या यत्नसम्भवात् । यन्नास्ति तन्नास्त्येव, यथा शशविषाणादि । प्रप­ञ्च­स्तू­भ­य­वि­ल­क्षण एवेत्येकान्तवाद एव युक्तो नानैकान्तवादः । तथा हि किं येनाकारेण वस्तुनः सत्त्वं तेनै­वा­का­रे­णा­स­त्त्व­मु­ता­का­रा­न्त­रेण । द्वितीये वस्तुन आका­रा­न्त­र­मे­वा­स­दिति वस्तुनः सदैकरूपत्वमेव । न हि दूरस्थग्रामस्य प्राप्ते­र­सत्त्वे ग्रामोऽप्यसन् भवति, प्राप्यासत्त्वे प्राप्ति­य­त्ना­नु­प­पत्तेः । अतो यथाव्यवहारं प्रप­ञ्च­स्यै­क­रू­प­त्व­मा­स्थे­यम् ।

नाद्य इत्याह -
नायमिति ।

ननु विमतमनैकात्मकम् , वस्तुत्वात् , नारसिंहवदिति चेत् । न । घट इदा­नी­म­स्त्ये­वे­त्य­नु­भ­व­बा­धात् । किञ्च जीवा­दि­प­दा­र्थानां सप्तत्वं जीवत्वादिरूपं चास्त्येव नास्त्येवेति च नियतमुतानियतम् । आद्ये व्यभिचार इत्याह -
य इति ।

द्वितीये पदार्थनिश्चयो न स्यादित्याह -
इतरथेति ।

अनैकान्तं सर्वमित्येव निश्चय इति शङ्कते -
नन्विति ।

तस्य निश्चयरूपत्वं नियतमनियतं वा । आद्ये वस्तुत्वस्य तस्मि­न्ने­वै­क­रूपे निश्चये व्यभिचारः । द्वितीये तस्य संशयत्वं स्यादित्याह -
नेति ब्रूम इति ।

प्रमा­या­मु­क्त­न्यायं प्रमा­त्रा­दा­व­ति­दि­शति -
एवमिति ।
निर्धारणं फलं यस्य प्रमा­णा­दे­स्त­स्ये­त्यर्थः ।

इत्येवं सर्व­त्रा­नि­र्धा­रणे सत्युपदेशो निष्क­म्प­प्र­वृ­त्तिश्च न स्यादित्याह -
एवं सतीति ।

अनैकान्तवादे अस्ति­का­य­प­ञ्च­त्व­मपि न स्यादित्याह -
तथा पञ्चानामिति ।

यदु­क्त­म­व­क्त­व्यत्वं तत्किं केनापि शब्दे­ना­वा­च्य­त्व­मुत सकृ­द­ने­क­श­ब्दा­वा­च्य­त्वम् । नाद्यः, व्याघातादित्याह -
न चैषामिति ।
उच्यन्ते च । अव­क्त­व्या­दि­प­दै­रिति शेषः । न द्वितीयः, सकृ­दे­क­व­क्तृ­मु­ख­जा­ने­क­श­ब्दा­ना­म­प्र­सि­द्धे­र्नि­षे­धा­यो­गात् , शेषस्यापि मुखभेदात् । न चार्थस्य युग­प­द्वि­रु­द्ध­ध­र्म­वा­ञ्छायां वक्तु­र्मू­क­त्व­मा­त्र­म­व­क्त­व्य­प­देन विवक्षितमिति वाच्यम् , तादृशवाञ्छाया एवा­नु­त्प­त्ते­रिति ।

किञ्च विरु­द्धा­ने­क­प्र­ला­पि­त्वा­द­र्ह­न्न­नाप्त इत्याह -
उच्य­मा­ना­श्चे­त्या­दिना ।
इति च प्रल­प­न्नि­त्य­न्वयः । अर्हन्निति शेषः । अना­प्त­प­क्ष­स्यै­वा­न्त­र्गतः स्यान्ना­प्त­प­क्ष­स्ये­त्यर्थः ।

इत­श्चा­स­ङ्ग­तोऽ­नै­का­न्त­वाद इत्याह -
स्वर्गेति ।

किञ्चा­ना­दि­सि­द्धोऽ­र्ह­न्मुनिः, अन्ये तु हेत्व­नु­ष्ठा­ना­न्मु­च्यन्ते, अन­नु­ष्ठा­ना­द्ब­ध्यन्त इत्या­र्ह­त­त­न्त्रा­व­धृ­त­स्व­भा­वानां त्रिविधजीवानां त्रैवि­ध्य­नि­य­मोऽपि न स्यादित्याह -
अनादीति ।

प्रपञ्चितं सूत्रार्थं निगमयति -
एवमिति ।

एतेनेति ।
सत्त्वा­स­त्त्व­यो­रे­कत्र निरासेनेत्यर्थः । परमाणुसङ्घाताः पृथिव्यादय इति ।

दिग­म्ब­र­सि­द्धान्तः किमिति सूत्र­कृ­तो­पे­क्षितः, तत्राह -
यत्त्विति ॥३३॥

जीवस्य देहपरिमाणतां दूषयति -
एवं चेति ।
अकार्त्स्न्यं मध्य­म­प­रि­मा­ण­त्वम् । तेनानित्यत्वं स्यादित्यर्थः ।

अर्थान्तरमाह -
शरीराणां चेति ।
विपाकः कर्म­णा­म­भि­व्यक्तिः । जीवस्य कृत्स्न­ग­ज­श­री­र­व्या­पि­त्व­म­का­र्त्स्न्यम् । शरीरैकदेशो निर्जीवः स्यादित्यर्थः । पुत्तिकादेहे कृत्स्नो जीवो न प्रविशेत् । देहाद्बहिरपि जीवः स्यादित्यर्थः ।

किञ्च बालदेहमात्र आत्मा ततः स्थूले युवदेहे क्वचित्स्यादिति कृत्स्नदेहः सजीवो न स्यादित्याह -
समान इति ।

यथा दीपावयवानां घटे सङ्कोचो गेहे विकासस्तथा जीवावयवानामिति देहमानत्वनियमं शङ्कते -
स्यादिति ।

दीपां­श­व­ज्जी­वांशा भिन्नदेशा एकदेशा वेति विक­ल्प्या­द्येऽ­ल्प­दे­हा­द्ब­हि­रपि जीवः स्यादिति दूषयति -
तेषामित्यादिना ।
दीपस्य तु न घटाद्बहिः सत्त्व­म­धि­का­व­य­वानां विनाशात् ।

द्वितीयं दूषयति -
अप्रतिघात इति ।

अवयवानां नित्यत्वं चासि­द्ध­म­ल्प­त्वा­द्दी­पां­श­व­दि­त्याह -
अपि चेति ॥३४॥

एवं जीवावयवा नित्या इति मते देहमानत्वं निरस्तम् । सम्प्रति जीवस्य केचिदेव कूटस्था अवयवा अन्ये त्वागमापायिन इति शङ्कते -
अथेति ।
बृह­त्त­नु­का­याप्तौ जीव­स्या­व­य­वा­ग­मा­पा­याभ्यां देह­मा­न­त्व­मि­त्यर्थः ।

सूत्रेण परिहरति -
न चेति ।
आगमापायौ पर्यायः ।

किमा­ग­मा­पा­यि­ना­म­व­य­वा­ना­मा­त्म­त्व­मस्ति न वा । आद्ये आह -
विकारादिदोषेति ।

कोऽसौ बन्ध­मो­क्षा­भ्यु­प­गम इत्यत आह -
कर्माष्टकेति ।
व्याख्यातमेतत् ।

आद्ये कल्पे दोषान्तरं वदन् कल्पान्तरमादाय दूषयति -
किञ्चेति ।
अव­शि­ष्ट­कू­ट­स्था­व­य­वस्य दुर्ज्ञा­न­त्वा­दा­त्म­ज्ञा­ना­भा­वान्न मुक्तिरित्यर्थः ।

यथा दीपा­व­य­व­ना­मा­का­र­स्ते­ज­स्त­था­त्मा­व­य­व­ना­मा­का­र­का­र­णा­भा­वा­न्ना­ग­मा­पायौ युक्तावित्याह -
किञ्चेति ।
सर्वजीवसाधारणः प्रति­जी­व­म­सा­धा­रणो वेत्यर्थः ।

किञ्चात्मन आग­मा­पा­यि­शी­ला­व­य­वत्वे सति कियन्त आयान्त्यवयवाः किय­न्तोऽ­प­य­न्ती­त्य­ज्ञा­ना­दा­त्म­नि­श्च­या­भा­वा­द­नि­र्मोक्षः स्यादित्याह -
किञ्चेति ।

अपि चाव­य­वा­र­ब्धा­व­य­वित्वे जीव­स्या­नि­त्य­त्वम् , अवयवसमूहत्वे चासत्त्वम् , आत्मत्वस्य याव­द­व­य­व­वृ­त्तित्वे यत्कि­ञ्चि­द­व­य­वा­पा­येऽपि सद्यः शरी­र­स्या­चे­त­न­त्वम् , गोत्व­व­त्प्र­त्येकं समा­प्ता­वे­क­स्मि­ञ्छ­रीर आत्मनानात्वं स्यादतो न देह­प­रि­मा­ण­त्व­सा­व­य­वत्वे आत्मन इत्युपसंहरति -
अत इति ।

सूत्र­स्या­र्था­न्त­र­माह -
अथवेति ।
स्थूल­सू­क्ष्म­श­री­र­प्रा­प्ता­व­का­र्त्स्न्यो­क्ति­द्वा­रे­णा­त्मा­नि­त्य­ता­या­मु­क्तायां सुग­त­व­त्स­न्ता­न­रू­पे­णा­त्म­नि­त्य­ता­मा­श­ङ्क्या­ने­नो­त्त­र­मु­च्यत इत्यन्वयः ।

पर्यायेणेत्यस्य व्याख्या -
स्रोत इति ।
देहभेदेन परि­मा­ण­स्या­त्म­न­श्चा­न­व­स्था­नेऽपि नाशेऽपि । स्रोतः प्रवाहः ।

तदा­त्म­क­स्या­त्म­व्य­क्ति­स­न्ता­नस्य नित्य­त­या­त्म­नि­त्यता स्यादित्यत्र दृष्टान्तमाह -
यथेति ।
सिग्वस्त्रं विगतं येभ्यस्ते विसिचो दिग­म्ब­रा­स्ते­षा­मि­त्यर्थः । पर्या­या­त्स­न्ता­ना­द­प्या­त्म­नि­त्य­त्व­स्या­वि­रोध इति न च । कुतः । विकारादिभ्यः । सन्ता­न­स्या­व­स्तुनः आत्मत्वे शून्यवादः, सन्तानस्य वस्तुत्वे सन्तान्यतिरेके च कूटस्थात्मवादः, अनतिरेके जन्मादिविकारो विनाशो मुक्त्यभाव इत्यु­क्त­दो­ष­प्र­स­ङ्गा­त्स­न्ता­ना­त्म­प­क्षोऽ­नु­प­पन्न इति सूत्रार्थः ॥३५॥

यं स्थूलं वा सूक्ष्मं वा देहं गृह्णाति तद्देहपरिमाण एव जीव इति नियमं दूषयति -
अन्त्येति ।
अन्त्य­श­री­र­प­रि­मा­ण­स्या­व­स्थि­ते­र्नि­त्य­त्व­द­र्श­ना­दु­भ­यो­रा­द्य­म­ध्य­म­प­रि­मा­ण­यो­र्नि­त्य­त्व­प्र­स­ङ्गा­द­वि­शे­ष­स्त्र­याणां नित्यपरिमाणानां साम्यं स्याद्वि­रु­द्ध­प­रि­मा­णा­ना­मे­क­त्रा­यो­गा­दिति सूत्रयोजना । आद्य­म­ध्य­म­प­रि­माणे नित्ये, आत्म­प­रि­मा­ण­त्वात् , अन्त्यपरिमाणवत् । न चाप्रयोजकता, परिमाणनाशे सत्यात्मनोऽपि नाशा­द­न्त्य­प­रि­मा­ण­नि­त्य­त्वा­यो­गा­दिति भावः ।

परि­मा­ण­त्र­य­सा­म्या­पा­दा­न­फ­ल­माह -
एकेति ।
अन्त्य­श­री­र­सा­मा­न्येव पूर्वशरीराणि स्युः, विष­म­श­री­र­प्रा­प्ता­वा­त्म­न­स्त­त्प­रि­मा­णत्वे परि­मा­ण­त्र­य­सा­म्या­नु­मा­न­वि­रो­धा­दि­त्यर्थः । पूर्वं कालत्रये परि­मा­ण­त्र­य­म­ङ्गी­कृ­त्या­न्त्य­दृ­ष्टा­न्तेन नित्यत्वमनुमाय साम्यमापादितम् ।

सम्प्र­त्य­न्त्यस्य मुक्त­प­रि­मा­ण­स्या­णु­त्व­स्थू­ल­त्व­यो­र­न्य­त­र­त्वे­ना­व­स्थि­ते­स्त­दे­वा­न्त्य­मा­द्य­म­ध्य­म­का­ल­यो­रपि नित्य­त्वा­त्स्यात् , प्रागसतो नित्यत्वायोगात् , तथा चाविशेषः कालत्रयेऽपि जीवपरिमाणाभेद इत्याह -
अथवेति ।
तस्मा­द्भ्रा­न्त्ये­क­श­र­ण­क्ष­प­ण­क­सि­द्धा­न्ते­ना­वि­रोधः समन्वयस्येति सिद्धम् ॥३६॥