भाष्यरत्नप्रभाव्याख्या
समानाधिकरणम्
समान एवञ्चाभेदात् ।
शाण्डिल्येन दृष्टा तन्नाऽम्नाङ्किता, अन्तर्हृदये व्रीह्यादिवत्सूक्ष्मस्तिष्ठतीत्यर्थः ।
अभ्यासप्रत्यभिज्ञाभ्यां संशयमाह -
तत्रेति ।
गुणानुपसंहारोपसंहारौ पूर्वोत्तरपक्षयोः फलम् ।
पूर्वत्र प्राप्ताचमनानुवादेनानग्नताध्यानविधिरुक्तः । इह त्वेकशाखायां विप्रकृष्टदेशस्थवाक्ययोरेकस्य विधित्वमन्यस्यानुवादत्वमित्यनिश्चयाद्द्वयोरपि विद्याविधित्वमिति प्रत्युदाहरणेन पूर्वपक्षयति -
किं तावदिति ।
यत्पुनरुक्तं, तद्विद्यान्तरमिति न व्याप्तिः प्राणपञ्चाग्न्यादिविद्यासु व्यभिचारादित्याशङ्क्य शाखाभेदे पुनरुक्तिरसिद्धेत्युक्तमित्याह -
भिन्नास्विति ।
यथाऽग्निहोत्रवाक्ये कर्मविधिः, 'दध्ना जुहोति' इति वाक्ये गुणविधिस्तथात्राप्यस्तु न विद्याभेद इत्याशङ्क्याह -
न चात्रैकमिति ।
उक्तगुणानां पुनरुक्तिर्वृथास्यादतोऽभ्यासाद्विद्याभेदः प्रयाजभेदवदिति भावः ।
उक्तगुणोक्तिर्न वृथा कतिपयगुणविशिष्टोपास्याभेदप्रत्यभिज्ञानार्थत्वादत उपास्यरूपाभेदाद्भिन्नशाखास्विव समानशाखायामपि विद्यैक्यमिति सिद्धान्तसूत्रं योजयति -
यथेति ।
सौत्रश्चकारोऽप्यर्थो व्याख्यातः । यत्र बहवो गुणाः श्रुतास्तत्र प्रधानविधिरन्यत्र तदनुवादेन गुणविधिरिति निश्चयादग्निरहस्ये प्रधानविधिवदुत्तरत्र गुणविधिरिति भावः ॥१९॥