भाष्यरत्नप्रभाव्याख्या
अङ्गावबद्धाधिकरणम्
अङ्गावबद्धाः ।
उद्गीथावयवोङ्कारे प्राणदृष्टिः,'पृथिवी हिङ्कारेऽग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनम्' , इति हिङ्कारादिपञ्चविधे साम्नि पृथिव्यादिलोकदृष्टिः, उक्थाख्यशस्त्रे पृथिवीदृष्टिः, इष्टकाचिताग्नौ लोकदृष्टिरित्येवं कर्माङ्गाश्रितोपास्तयः सन्ति, तासूद्गीथादिसाधारणश्रुत्या विशेषसंनिधिना च संशयः ।
ननूद्गीथादीनां सर्वशाखास्वेकत्वादुपास्तयः सर्वत्रेति वेद्यैक्यान्निश्चये कथं संशय इत्यत आह -
प्रतिशाखं चेति ।
यथा देहात्मनोर्भेदादात्मधर्मा देहे न संभवन्ति तथा प्रतिवेदमुद्गीथादीनां भिन्नत्वादेकस्मिन्वेदे विहितोद्गीथाद्युपास्तयो वेदान्तरस्थोद्गीथादिषु न संभवन्तीति दृष्टान्तेन पूर्वपक्षयति -
स्वशाखेति ।
उद्गीथमुपासीतेति विधिवाक्यस्थोद्गीथत्वसामान्यस्य व्यक्त्यपेक्षत्वास्त्वशाखासंनिहितव्यक्तिग्रह इत्यर्थः ।
सामान्यश्रुतेः संनिहितव्यक्तिग्रहाख्यसंकोचस्तत्र कर्तव्यो यत्र व्यक्तिमात्रग्रहो नोपपद्यते, यथा शुक्लां गामानयेत्यत्र गोश्रुतेः संनिहितशुक्लव्यक्तिपरतया संकोचः, अत्र नानुपपत्त्यभावाद्व्यक्तिमात्रसंबन्धसामान्यमुपास्यमिति सिद्धान्तयति -
एवमित्यादिना ॥५५॥
पूर्वं शाखान्तरविहितोपास्तीनां शाखान्तरस्थाङ्गसंबन्धे यः प्रतीतो विरोधस्तमङ्गीकृत्य संबन्ध उक्तः, संप्रति विरोध एव नास्ति, शाखान्तरविहिताङ्गानां शाखान्तरस्थाङ्गिसंबन्धवदुक्तसंबन्धोपपत्तेरित्याह -
अथवेत्यादिना ।
यजुर्वेदिनां कुक्कुटोऽसीति मन्त्रोऽस्ति कुटरुरसीति नास्ति तथापि तण्डुलपेषणार्थाश्मादाने मन्त्रद्वयस्य विकल्पेन विनियोगात्सोऽपि प्राप्नोतीत्यर्थः ।
सूत्रस्थादिपदोपात्तकर्मणामुदाहरणमाह -
येषामिति ।
मैत्रायणीयानामित्यर्थः । हेमन्तशिशिरयोरैक्यादृतवः पञ्च तद्वत्पञ्चसंख्याकाः प्रयाजाः समानत्र तुल्यकर्मस्थले होतव्या इति पञ्चत्वगुणविधानाद्गुणिनः शाखान्तरविहिताः सम्बध्यन्त इति भावः ।
गुणमुदाहरति -
तथा येषामिति ।
यजुर्वेदिनामग्नीषोमीयः पशुः श्रुतो नाज इति जातिविशेषस्तथापि प्रैषमन्त्रलिङ्गाज्जातिविशेषसंग्रह इत्यर्थः ।
मन्त्राणमुदाहरणान्तरमाह -
तथेति ।
सामवेदस्थानां यजुर्वेदे परिग्रह इत्यर्थः । तथेति 'स जनास इन्द्र' इत्यनेनोपलक्षितं सूक्तं सजनीयं तस्य याजुषाध्वर्युकर्तृकप्रयोगे शंसनं दृष्टमित्यर्थः । यो जातो बाल एव प्रथमो गुणैः श्रेष्ठो मनस्वान्विवेकवान्स इन्द्र एवंविधो हे जानसो जना इति श्रुत्यर्थः ॥५६॥