भाष्यरत्नप्रभाव्याख्या
आनन्दाद्यधिकरणम्
आनन्दादयः प्रधानस्य ।
ब्रह्मणो ज्ञेयस्यैक्यान्निर्विशेषत्वाच्च संशयमाह -
तेषु संशय इति ।
पूर्वपक्षे सत्यादिपदानुपसंहाराद्वाक्यार्थानवधारणं, सिद्धान्ते त्ववधारणमिति फलम् । प्राणस्यसविशेषत्वाद्युक्तः शाखान्तरीयवसिष्ठत्वाद्युपसंहारः, ब्रह्मणस्तु निर्विशेषत्वात्स्वशाखागतपदैरेव प्रमितिसिद्धेर्व्यर्थः पदान्तरोपसंहार इति प्रत्युदाहरणेन पूर्वपक्षः ।
सिद्धान्तमाह -
इदमिति ।
आनन्दत्वसत्यत्वज्ञानत्वादिसामान्यानि ब्रह्मणि कल्पिता धर्मास्तेषां सर्वशाखासूपसंहारो नाम तद्वाचकानन्दादिपदानामेकवाक्यतयोच्चारणमानन्दः सत्यं ज्ञानमनन्तं ब्रह्म शुद्धमद्वयमात्मेति । तानि च समानाधिकरणानि पदानि विरुद्धधर्मत्यागेन सर्वाधिष्ठानभूतामेकामखण्डव्यक्तिं लक्षयन्ति । न चैकेनैव पदेन लक्ष्यसिद्धेः पदान्तरं व्यर्थमिति वाच्यं, एकस्मिन्पदे विरोधाभावेन लक्षणानवतारात् । यद्यपि पदद्वयेऽपि लक्षणावतरति तथाप्यानन्दो ब्रह्मेत्युक्ते दुःखत्वाल्पत्वभ्रन्तिनिरासेऽप्यसत्त्वजडत्वादिभ्रमो भवेदतस्तन्निरासार्थं सत्यज्ञानादिपदानि प्रयोक्तव्यानि । न च भ्रमस्यानवधित्वाद्वाक्यमपर्यवसितं स्यादिति वाच्यम् । सच्चिदानन्दात्मकं सर्वधर्मशून्यमद्वयमविकल्पं ब्रह्माहमिति विशेषदर्शने सर्वभ्रमनिरासात् । तच्च विशेषदर्शनं यावद्भिः पदैर्भवति तावन्ति पदान्युपसंहर्तव्यानीति भावः ॥११॥
ब्रह्मैक्याच्चेदानन्दत्वादिधर्माणां सर्वत्र प्राप्तिस्तर्हि सगुणब्रह्मविद्यागतधर्मप्राप्तिरपि स्यादिति शङ्कानिरासार्थं सूत्रं व्याचष्टे -
प्रियेति ।
पुत्रदर्शनसुखं प्रियं तद्वार्तादिना मोदस्तस्य विद्याद्यतिशये प्रमोद इत्येवं तारतम्यवन्तो धर्मास्त्वद्वये ज्ञेये न प्राप्नुवन्ति तेषामब्रह्मस्वरूपाणां ब्रह्मज्ञानानुपयोगादिति भावः ।
तेषां ब्रह्म धर्मत्वं चासिद्धमित्याह -
न चैत इति ।
ब्रह्मणि चित्तावतारोपायत्वेऽपि तेषां प्राप्तिः स्यादित्याशङ्क्याह -
एवमपीति ।
अज्ञेयत्वादेषां न ज्ञेये ब्रह्मणि प्राप्तिरित्यर्थः ।
किमर्थं तर्हि सूत्रमित्यत आह -
ब्रह्मधर्मानिति ।
कृत्वाचिन्ताफलमाह -
स चेति ।
ज्ञेये बाह्यधर्माणामनुपयोगादप्राप्तिरिति न्यायात्संयद्वामत्वादीनामप्राप्तिरिति सूत्रं व्याख्येयमित्यर्थः ।
ज्ञानानुपयोगेऽपि ध्याने तेषां धर्माणामुपयोगादुपास्यब्रह्मैक्यात्प्राप्तिरन्योन्यविद्यासु स्यादित्याशङ्क्याह -
तेषु हीति ।
ध्यानविधिपरतन्त्राणां धर्माणां यथाविधि व्यवस्थेत्यर्थः ॥१२॥
संयद्वामत्वादिधर्मेभ्य आनन्दादीनां वैषम्यं ज्ञानोपयोगित्वादित्याह -
इतरे त्विति ।
सत्यज्ञानानन्दात्मब्रह्मशब्दाः पञ्च सर्वत्रोपसंहर्तव्या इति सिद्धम् ॥१३॥