भाष्यरत्नप्रभाव्याख्या
देवताधिकरणम्
शास्त्रस्य मनुष्याधिकारत्वे देवादीनां ब्रह्मविद्यायामप्यनधिकारः स्यादित्याशङ्क्याह
तदुपर्यपि बादरायणः सम्भवात् ।
ननु समन्वयाध्यायेऽधिकारचिन्ता न सङ्गतेत्यत आह
अङ्गुष्ठेति ।
स्मृतस्योपेक्षानर्हत्वं प्रसङ्गः । अत्र मनुष्याधिकारत्वोक्त्या स्मृतानां देवादिनां वेदान्तश्रवणादावधिकारोऽस्ति न वेति सन्देहे भोगासक्तानां वैराग्याद्यसम्भवान्नेति प्राप्ते सिद्धान्तमाह
बाढमिति ।
एवमधिकारविचारात्मकाधिकरणद्वयस्य प्रासङ्गिकी सङ्गतिः । अत्र पूर्वपक्षे देवादिनां ज्ञानानधिकाराद्देवत्वप्राप्तिद्वारा क्रममुक्तिफलासु दहराद्युपासनासु क्रममुक्त्यर्थिनां मनुष्याणामप्रवृत्तिः फलम् , सिद्धान्ते तु प्रवृत्तिः । उपासनाभिर्देवत्वं प्राप्तानां श्रवणादिना ज्ञानान्मुक्तिसम्भवादिति सफलोऽयं विचारः ।
ननु भोगासक्तानां तेषां मोक्षार्थित्वाभावान्नाधिकार इत्यत आह
अर्थित्वं तावदिति ।
विकारत्वेनानृतविषयसुखस्य क्षयासूयादिदोषद्दष्ट्या निरतिशयसुखमोक्षार्थित्वं सत्त्वप्रकृतीनां देवानां सम्भवतीत्यर्थः ।
नन्विन्द्राय स्वाहेत्यादौ चतुर्थ्यन्तशब्दातिरिक्ता विग्रहवती देवता नास्ति, शब्दस्य चासामर्थ्यान्नाधिकार इत्यत आह
तथेति ।
अर्थित्ववदित्यर्थः ।
अपर्युदस्तत्वमाह
नचतेषामिति ।
'शूद्रो यज्ञे नवक्लृप्तः' इतिवद्देवादीनां विद्याधिकारनिषेधो नास्तीत्यर्थः ।
ननु विग्रहवत्त्वेन दृष्टसामर्थ्ये सत्यप्युपनयनाभावाच्छास्त्रीयं सामर्थ्यं नास्तीत्यत आह
न चेति ।
जन्मान्तराध्ययनबलात्स्वयमेव प्रतिभाताः स्मृता वेदा येषां ते तथा तद्भावादित्यर्थः । बालादिषु प्रविष्टपिशाचादीनां वेदोद्घोषदर्शनाद्देवयोनीनां जन्मान्तरस्मरणमस्तीति स्मृतवेदान्तानामर्थविचारो युक्त इत्यर्थः ।
देवानामृषीणां च विद्याधिकारे कारणमर्थित्वादिकमुक्त्वा श्रौतं गुरुकुलवासादिलिङ्गमाह
अपिचेति ।
ननु ब्रह्मविद्या देवादीन्नाधिकरोति, वेदार्थत्वात् , अग्निहोत्रवदित्यत आह
यदपीति ।
देवानां कर्मसु नाधिकारः, देवतान्तराणामुद्देश्यानामभावादिति प्रथमसूत्रार्थः । ऋषीणामनधिकारः, ऋष्यन्तराभावादृषियुक्ते कर्मण्यशक्तेरिति द्वितीयसूत्रार्थः ।
असामर्थ्यमुपाधिरिति परिहरति
न तदिति ।
असामर्थ्यरूपं कारणमित्यर्थः । न ह्यस्ति येनासामर्थ्यं स्यादिति शेषः । 'तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणाम्' इतिवाक्यबाधोऽप्यनुमानस्य द्रष्टव्यः ।
ननु देवादीन्प्रत्यङ्गुष्ठमात्रश्रुतिः कथम् , तेषां महादेहत्वेन हृदयस्यास्मदङ्गुष्ठमात्रत्वाभावात् । अतः श्रुतिषु तेषां नाधिकार इत्यत आह
देवाद्यधिकारेऽपीति ॥ २६ ॥
ननु मन्त्रादीनां प्रतीयमानविग्रहवत्त्वे तात्पर्यं कल्पयित्वा देवादीनामधिकार उक्तः, स चायुक्तः, अन्यपराणां तेषां प्रत्यक्षादिविरोधेन स्वार्थे तात्पर्यकल्पनानुपपत्तेरित्याक्षिप्य सूत्रचतुष्टयेन परिहरति
विरोधःकर्मणीत्यादिना ।
वर्ण्येत, तर्हीति शेषः । स्वरूपं विग्रहः ।
अभ्युपगमे प्रत्यक्षेण देवता दृश्येत, नच दृश्यते, अतो योग्यानुपलब्ध्या देवताया विग्रहवत्या अभावात्सम्प्रदानकारकाभावेन कर्मनिष्पत्तिर्न स्यादित्याह
तदा चेति ।
विग्रहस्याङ्गत्वमुपलब्धिबाधितं युक्त्या च न सम्भवतीत्याह
न चेति ।
तस्मादर्थोपहितशब्द एव देवता, तस्या अचेतनत्वान्न विद्याधिकार इति शङ्कार्थः ।
परिहरति
नायमिति ।
एकस्यापि देवस्य योगबलादनेकदेहप्राप्तिः श्रुतिस्मृतिदर्शनात्सम्भवति । अतो न कर्मणि विरोध इति व्याचष्टे
कस्मादित्यादिना ।
वैश्वदेवशस्त्रे शस्यमानदेवाः कतीति शाकल्येन पृष्टो याज्ञवल्क्यो निविदा 'त्रयश्च' इत्यादिरूपयोत्तरं ददौ । निविन्नाम शस्यमानदेवसङ्ख्यावाचकः शब्दः । षडधिकानि त्रीणि शतानि त्रीणि सहस्राणीति सङ्ख्योक्तौ सङ्ख्येयस्वरूपप्रश्ने, महिमानो विभूतयः सर्वे देवा एषां त्रयस्त्रिंशद्देवानामतोऽष्टौ वसव एकादश रुद्रा द्वादशादित्या इन्द्रः प्रजापतिश्चेति त्रयस्त्रिंशदेवास्तेऽपि षण्णामग्निपृथिवीवाय्वन्तरिक्षादित्यदिवां महिमानस्तेऽपि षट्सु देवेष्वन्तर्भवन्ति । षट्देवास्त्रिषु लोकेषु त्रयश्च द्वयोरन्नप्राणयोर्द्वै च एकस्मिन्प्राणे हिरण्यगर्भेऽन्तर्भवत इति दर्शितमित्यर्थः । त्रयस्त्रिंशतोऽपि देवानामिति सम्बन्धः ।
दर्शनं श्रौतं व्याख्याय स्मार्तं व्याचष्टे
तथा स्मृतिरिति ।
बलं योगसिद्धिम् । 'अणिमा महिमा चैव लघिमा प्राप्तिरीशिता । प्राकाम्यं च वशित्वं च यत्रकामावसायिता' ॥ इत्यष्टैश्वर्याणि । क्षणेन अणुर्महान् लघुर्गुरुश्च भवति योगी । अङ्गुल्या चन्द्रस्पर्शः प्राप्तिः । ईशिता सृष्टिशक्तिः । प्राकाम्यमिच्छानाभिघातः । वशित्वं नियमनशक्तिः । सङ्कल्पमात्रादिष्टलाभो यत्रकामावसायितेति भेदः । आजानसिद्धानां जन्मना सिद्धानामित्यर्थः ।
फलितमाह
अनेकेति ।
अनेकेषु कर्मस्वेकस्य प्रतिपत्तिरङ्गभावः ।
तस्य लोके दर्शनादिति वक्तुं व्यतिरेकमाह
क्वचिदेक इति ।
प्रकृतोपयुक्तमन्वयदृष्टान्तमाह
क्वचिच्चेति ॥ २७ ॥
कर्मण्यविरोधमङ्गीकृत्य शब्दप्रामाण्यविरोधमाशङ्क्य परिहरति -
शब्द इति चेदिति ।
मा प्रसञ्जि प्रसक्तो मा भून्नामेत्यर्थः ।
औत्पत्तिकसूत्रे शब्दार्थयोरनाद्योः सम्बन्धस्यानादित्वाद्वेदस्य स्वार्थे मानान्तरानपेक्षत्वेन प्रामाण्यमुक्तम् । इदानीमनित्यविग्रहव्यक्त्यभ्युपगमे तत्सम्बन्धस्याप्यनित्यत्वान्मानान्तरेण व्यक्तिं ज्ञात्वा शब्दस्य सङ्केतः पुंसा कर्तव्य इति मानान्तरापेक्षत्वात्प्रामाण्यस्य विरोधः स्यादित्याह
कथमित्यादिना ।
किं शब्दानामनित्यतया सम्बन्धस्य कार्यत्वमापद्यते, उतार्थानामनित्यतया । नाद्य इत्याह
नायमपीति ।
कर्मण्यविरोधवदित्यपेरर्थः । देवादिव्यक्तिहेतुत्वेन प्रागेव शब्दानां सत्त्वान्नानित्यत्वमिति भावः ।
अत्र पूर्वापरविरोधं शङ्कते
नन्विति ।
शब्दस्य निमित्तत्वेन ब्रह्मसहकारित्वादविरोध इत्याशङ्क्य द्वितीयं कल्पमुत्थापयति
अपिचेति ।
अनित्यत्वं सादित्वम् । व्यक्तिरूपार्थानामनित्यतया शब्दानां सम्बन्धस्यानित्यत्वं दुर्वारम् , तस्मात्पौरुषेयसम्बन्धसापेक्षत्वात्प्रामाण्यविरोध इत्यर्थः । नच व्यक्तिनामनित्यत्वेऽपि घटत्वादिजातिसमवायवच्छब्दसम्बन्धोऽपि नित्यः स्यादिति वाच्यम् , उभयाश्रितसम्बन्धस्यान्यतराभावे स्थित्ययोगेन दृष्टान्तासिद्वेरिति भावः ।
यथा गोत्वादयो गवादिशब्दवाच्यास्तथा वसुत्वाद्याकृतयो वस्वादिशब्दार्था न व्यक्त्य इति परिहरति
नेत्यादिना ।
शब्दानां तदर्थानां जातीनां च नित्यत्वात्तत्सम्बन्धोऽपि नित्य इति प्रतिपादयति
नहीत्यादिना ।
व्यक्तीनामानन्त्यादिति ।
नच गोत्वावच्छेदेन व्यक्तिषु शक्तिः सुग्रहेति वाच्यम् , सामान्यस्याप्रत्यासत्तित्वेन सर्वव्यक्त्युपस्थित्यभावात् , गोत्वं शक्यतावच्छेदकमिति ग्रहापेक्षया गोत्वं शक्यमिति लाघवात् , निरूढाजहल्लक्षणया व्यक्तेर्लाभेनान्यलभ्यत्वाभावाच्चेति भावः । यद्वा केवलव्यक्तिषु शक्तिरत्र निरस्यते, अनुपपत्तिज्ञानं विनैव व्यक्तेः शब्दशक्त्यायत्तजातिज्ञानविषयत्वेनोभयशक्तेरावश्यकत्वात् । तथाच नित्यजातितादात्म्येन व्यक्तेरनादित्वात्तत्सम्बन्धोऽप्यनादिः, सत्कार्यवादात् । अत एव वाक्यवृत्तौ तत्त्वमस्यादिवाक्ये भागलक्षणोक्ता युज्यते, केवलसामान्यस्य वाच्यत्वेऽखण्डार्थस्य वाच्यैकदेशत्वाभावात् । 'अतःप्रभवात्' इति सूत्रस्वारस्याच्च केवलव्यक्तिशक्तिनिरास इति गम्यते । केवलव्यक्तिवचनाः खलु डित्थादिशब्दा अर्थानन्तरभाविनः साङ्केतिकाः गवादिशब्दास्तु व्यक्तिप्रभवहेतुत्वेन प्रागेवसन्धीति न व्यक्तिमात्रवचनाः साङ्केतिकाः किन्तु स्थूलसूक्ष्मभावेनानुस्यूतव्यक्त्यविनाभूतसामान्यवचना इति मन्तव्यम् । न चेन्द्रादिव्यक्तेरेकत्वेन जात्यभावादाकाशशब्दवदिन्द्रचन्द्रादिशब्दाः केवलव्यक्तिवचना इति साम्प्रतम् । अतीतानागतव्यक्तिभेदेन जात्युपपत्तेरित्यलं प्रपञ्चेन ।
दृष्टान्तमुपसंहृत्य दार्ष्टान्तिकमाह
व्यक्तिष्वित्यादिना ।
आकृतिर्जातिः ।
ननु का सा व्यक्तिः, यदनुगतेन्द्रत्वादिजातिः शब्दार्थः स्यादित्यत आह
आकृतिविशेषस्त्विति ।
'वज्रहस्तःपुरन्दरः' इत्यादिभ्य इत्यर्थः ।
इन्द्रादिशब्दानां जातिरिन्द्रादिषु प्रवृत्तिनिमित्तमित्युक्त्वा उपाधिनिमित्तमाह
स्थानेति ।
व्यक्तिप्रलयेऽपि स्थानस्य स्थायित्वाच्छब्दार्थसम्बन्धनित्यतेत्यत आह
ततश्चेति ।
उक्तं पूर्वापरविरोधं परिहरति
नचेति ।
शब्दो निमित्तमित्यविरोधं मत्वा सूत्रशेषमवतारयति
कथं पुनरिति ।
स्मृत्या स्वप्रामाण्यार्थं मूलश्रुतिरनुमीयत इत्यनुमानं स्मृतिः । 'एते असृग्रमिन्दवस्तिरः पवित्रमाशवः । विश्वान्यस्याभिसौभगा' । इत्येतन्मन्त्रस्थैः पदैः स्मृत्वा ब्रह्मा देवादीनसृजत् । तत्रैत इति पदं सर्वनामत्वाद्देवानां स्मारकम् । असृग्रुधिरं तत्प्रधाने देहे रमन्त इति असृग्रा मनुष्याः । चन्द्रस्थानां पितृणामिन्दुशब्दः स्मारकः । पवित्रं सोमं स्वान्तस्तिरस्कुर्वतां ग्रहाणां तिरः पवित्रशब्दः । ऋचोऽश्नुवतां स्तोत्राणां गीतिरूपाणामाशुशब्दः । 'ऋच्यध्यूढं साम' इति श्रुतेः । स्तोत्रानन्तरं प्रयोगं विशतां शस्त्राणां विश्वशब्दः । सर्वत्र सौभाग्ययुक्तानामभिसौभगशब्दःस्मारक इति छन्दोगब्राह्मणवाक्यार्थः । स प्रजापतिर्मनसा वाचं त्रयीं मिथुनं समभवत्मनोवाग्रूपं मिथुनं सम्भावितवान् । मनसा त्रयीप्रकाशितां सृष्टिमालोचितवानित्यर्थः । 'रश्मिरित्येवादित्यमसृजत' इत्यादिश्रुतिरादिशब्दार्थः । सम्प्रदायो गुरुशिष्यपरम्पराध्ययनम् । संस्था अवस्थाः ।
या प्रजापतिसृष्टिः सा शब्दपूर्विका, सृष्टित्वात् , प्रत्यक्षघटादिवदिति प्रत्यक्षानुमानाभ्यामित्यस्यार्थान्तरमाह
अपिचेति ।
अतः प्रभवत्वप्रसङ्गाच्छब्दस्वरूपं वक्तुमुक्तमाक्षिपति
किमात्मकमिति ।
वर्णरूपं तदतिरिक्तस्फोटरूपं वेति किंशब्दार्थः ।
तत्र वर्णानामनित्यत्वात्स्फोटस्य चासत्त्वान्न जगद्धेतुत्वमित्याक्षेपे द्वितीयपक्षं वैयाकरणो गृह्णाति
स्फोटमिति ।
स्फुट्यते वर्णैर्व्यज्यत इति स्फोटोवर्णाभिव्यङ्ग्योऽर्थस्तस्य व्यञ्जको गवादिशब्दो नित्यस्तमभिप्रेत्येदमुच्यत इति पूर्वेणान्वयः ।
स एवाद्यपक्षं दूषयति
वर्णेति ।
सोऽयं गकार इति प्रत्यभिज्ञया वर्णनित्यत्वसिद्धेर्नानुपपत्तिरित्यत आह
उत्पन्नेति ।
तारत्वमन्द्रत्वादिविरुद्धधर्मवत्त्वेन तारो गकारो मन्द्रो गकार इति प्रतीयमानगकारस्य भेदानुमानात्प्रत्यभिज्ञा गत्वजातिविषयेत्यर्थः ।
ननु विरुद्धधर्मज्ञानं ध्वन्युपाधिकं भ्रम इत्यत आह
नचेति ।
तथाच वर्णानामनित्यत्वान्न जगद्धेतुत्वमिति भावः ।
किञ्च तेषामर्थबोधकत्वायोगात्स्फोटोऽङ्गीकार्य इत्याह
नच वर्णेभ्य इत्यादिना ।
व्यभिचारादेकस्माद्वर्णादर्थप्रतीत्यदर्शनात् , वर्णान्तरवैयर्थ्यप्रसङ्गाच्चेत्यर्थः ।
तर्हि वर्णानां समुदायो बोधक इत्याशङ्क्य क्षणिकानां स नास्तीत्याह
नचेति ।
वर्णानां स्वतः साहित्याभावेऽपि संस्कारलक्षणापूर्वद्वारा साहित्यमाग्नेयादियागानामिवेति शङ्कते
पूर्वेति ।
किमयं संस्कारो वर्णैर्जनितोऽपूर्वाख्यः कश्चित् , उत वर्णानुभवजनितो भावनाख्यः । नाद्यः, मानाभावात् । किञ्चायमज्ञातो ज्ञातो वार्थधीहेतुः । नाद्य इत्याह
तन्नेति ।
संस्कारसहितः शब्दो ज्ञात एवार्थधीहेतुः, सम्बन्धग्रहणमपेक्ष्य बोधकत्वात् , धूमादिवदित्यर्थः ।
द्वितीये किं प्रत्यक्षेण ज्ञात उत कार्यलिङ्गेन । नाद्य इत्याह
नचेति ।
द्वितीयं शङ्कते
कार्येति ।
कार्यमर्थधीस्तस्यां जातायां संस्कारप्रत्ययः तस्मिञ्जाते सेति परस्पराश्रयेण दूषयति
नेति ।
पदार्थस्मरणस्यापि पदज्ञानान्तरभावित्वात्तेन संस्कारसहितान्त्यवर्णात्मकपदस्य ज्ञानं न युक्तमित्यक्षरार्थः । अपिशब्दः परस्पराश्रयद्योतनार्थः । एतेन भावानासंस्कारपक्षोऽपि निरस्तः । तस्य वर्णस्मृतिमात्रहेतुत्वेनार्थधीहेतुत्वायोगात् । न चान्त्यवर्णसाहित्यादर्थधीहेतुत्वम् , केवलसंस्कारस्य तु वर्णस्मृतिहेतुत्वमिति वाच्यम् , अर्थधीपूर्वकाले भावनाया ज्ञानाभावेनार्थधीहेतुत्वायोगात् । नच वर्णस्मरणेनानुमिता सा अन्त्यवर्णसहितार्थधीहेतुरिति वाच्यम् , तत्कार्यस्य क्रमिकस्य वर्णस्मरणस्याप्यन्त्यवर्णानुभवानन्तरभावित्वेन तेनानुमितभावनानामन्त्यवर्णसाहित्याभावादिति भावः ।
वर्णानामर्थबोधकत्वासम्भवे फलमाह
तस्मादिति ।
स्फोटेऽपि किं मानमित्याशङ्क्यैकं पदमिति प्रत्यक्षप्रमाणमित्याह
स चेति ।
यथा रत्नतत्त्वं बहुभिश्चाक्षुषप्रत्ययैः स्फुटं भासते तथा गवादिपदस्फोटो गकारद्येकैकवर्णकृतप्रत्ययैः स्फोटविषयैराहिताः संस्कारा बीजं यस्मिन् चित्ते तस्मिन् अन्त्यवर्णकृतप्रत्ययेन जनितः परिपाकोऽन्त्यः संस्कारोयस्मिंस्तस्मिन्प्रत्ययिनि चित्ते एकं गौरितिपदमिति प्रत्ययः प्रत्यक्षस्तद्विषयतया स्पष्टमवभासत इत्यर्थः । अनेन वर्णान्वयव्यतिरेकयोः स्फोटज्ञानेऽन्यथासिद्धिः । नचैकस्माद्वर्णात्सम्यक्स्फोटाभिव्यक्तिः, येन वर्णान्तरवैयर्थ्यं किन्तु रत्नवद्बहुप्रत्ययसंस्कृते चित्ते सम्यक्स्फोटाभिव्यक्तिरित्युक्तं भवति ।
नन्वेकपदमेकं वाक्यमिति प्रत्ययः पदवाक्यस्फोटयोर्न प्रमाणम् , तस्य वर्णसमूहालम्बनस्मृतित्वादित्याशङ्क्य निषेधति
न चेति ।
स्फोटस्य जगद्धेतुत्वार्थं नित्यत्वमाह
तस्य चेति ।
ननु तदेवेदं पदमिति प्रत्यभिज्ञा भ्रमः, उदात्तादिभेदप्रत्ययादित्यत आह
भेदेति ।
आचार्यसम्प्रदायोक्तिपूर्वकं सिद्धान्तयति
वर्णा एवेति ।
वर्णातिरिक्तस्फोटात्मकशब्दस्यानुभवानारोहादित्यर्थः ।
सादृश्यदोषादियं भ्रान्तिरिति शङ्कते
सादृश्यादिति ।
वपनानन्तरं त एवेमे केशा इति धीर्भ्रान्तिरिति युक्तम् , भेदधीविरोधात् । स एवायं वर्ण इति धीस्तु प्रमैव, बाधकाभावादित्याह
नेति ।
गोत्वादिप्रत्यभिज्ञावद्वर्णेषु प्रत्यभिज्ञा गवादिविषयेति शङ्कते
प्रत्यभिज्ञानमिति ।
व्यक्तिभेदे सिद्धे प्रत्यभिज्ञाया जातिविषयत्वं स्यात् , यत्त्वया पीतं जलं तदेव मया पीतमित्यादौ । न तथेह व्यक्तिभेदः सिद्ध इति परिहरति
न । व्यक्तीति ।
न त्वेतदिति ।
व्यक्त्यन्यत्वज्ञानमित्यर्थः ।
उदात्तत्वादिविरुद्धधर्मत्वाद्व्यक्तिभेदोऽनुमानसिद्ध इत्यनुवदति
नन्विति ।
भेदप्रत्ययस्य कुम्भकूपाकाशभेदप्रत्ययवदौपाधिकभेदविषयत्वादन्यथासिद्धेरनन्यथासिद्धव्यक्त्यैक्यप्रत्यभिज्ञया निरपेक्षस्वरूपालम्बनया बाध इत्युत्तरमाह
अत्रेति ।
ताल्वादिदेशैः कोष्ठस्थवायुसंयोगविभागाभ्यां विचित्राभ्यां व्यङ्ग्यत्वाद्वर्णेषु वैचित्र्यधीरित्यर्थः ।
कल्पनागौरवाच्च वर्णेषु स्वतो भेदो नास्तीत्याह
अपिचेति ।
अनन्ता गकारादिव्यक्तयस्तासु प्रत्यभिज्ञानार्थं गत्वादिजातयस्तासु चोदात्तत्वादिभेदस्यौपाधिकत्वमिति कल्पनाद्वरं वर्णव्यक्तिभेदमात्रस्यौपाधिकत्वकल्पनमिति व्यक्त्यानन्त्यस्य जातीनां च कल्पनमयुक्तमित्यर्थः ।
ननु भेदस्य बाधकाभावान्नौपाधिकत्वमित्यत आह
एष इति ।
अस्तु तर्हि प्रत्ययद्वयप्रामाण्याय भेदाभेदयोः सत्यत्वम् , तत्राह
कथं हीति ।
उभयोरेकत्वविरोधाद्भेद औपाधिक एवेत्यर्थः ।
ननु वायुसंयोगादेरतीन्द्रियत्वान्न तद्गतवैचित्र्यस्योदात्तत्वादेर्वर्णेषु प्रत्यक्षारोपः सम्भवतीत्यरुचिं वदिष्यन्स्वमतमाह
अथवेति ।
ध्वनिधर्मा उदात्तत्वादयो ध्वन्यभेदाध्यासाद्वर्णेषु भान्तीत्यर्थः ।
प्रश्नपूर्वकं ध्वनिस्वरूपमाह
क इति ।
अवतरति स ध्वनिरिति शेषः । वर्णातिरिक्तः शब्दो ध्वनिरित्यर्थः ।
समीपं गतस्य पुंसस्तारत्वमन्दत्वादिधर्मान्स्वगतान्वर्णेषु स एवारोपयतीत्याह
प्रत्यासीदतश्चेति ।
आदिपदं विवृणोति
तदिति ।
नन्वव्यक्तवर्ण एव ध्वनिर्नातिरिक्त इत्यत आह
वर्णानामिति ।
प्रत्युच्चारणं वर्णा अनुवर्तन्ते ध्वनिर्व्यावर्तत इति भेद इत्यर्थः । अन्यथा वाचिके जपे वर्णेष्वव्यक्तेषु ध्वनिबुद्धिः स्यात् , दुन्दुभ्यादिध्वनौ शब्दत्वमात्रेण गृह्यमाणे अयमव्यक्तो वर्ण इति धीः स्यादिति मन्तव्यम् ।
एवं ध्वन्युपाधिकत्वे स्वमते गुणं वदन्वायूपाधिकत्वे पूर्वोक्तामरुचिं दर्शयति
एवंचेत्यादिना ।
अस्तु को दोषः, तत्राह
संयोगेति ।
वायुसंयोगादेरश्रावणत्वादित्यर्थः । तस्मात्श्रावणध्वनिरेवोदात्तत्वाद्यारोपोपाधिरिति भावः ।
एवं विरुद्धधर्मकध्वनीनां भेदेऽपि न तेष्वनुगता वर्णा भिद्यन्त इत्युक्तम् । तदेव दृष्टान्तेन द्रढयति
अपिचेति ।
यथा खण्डमुण्डादिविरुद्धानेकव्यक्तिष्वभिन्नं गोत्वं तथा ध्वनिषु वर्णा अभिन्ना एवेत्यर्थः । उदात्तादिर्ध्वनिस्तद्भेदेन हेतुना वर्णानामपीति योजना । प्रत्यभिज्ञाविरोधादित्यक्षरार्थः ।
यद्वा उदात्तत्वादिभेदविशिष्टतया प्रत्यभिज्ञायमानत्वाद्वर्णानां भेद इत्याशङ्कां दृष्टान्तेन निरस्यति
अपिचेति ।
वर्णानां स्थायित्वं प्रसाध्य तेषामेव वाचकत्वं वक्तुं स्फोटं विघटयति
वर्णेभ्यश्चेति ।
कल्पनामसहमान आशङ्कते
नेति ।
चक्षुषा दर्पणयुक्तायां बुद्धौ मुखवच्छ्रोत्रेण वर्णयुक्तायां बुद्धौ विनैव हेत्वन्तरं स्फोटः प्रत्यक्ष इत्याह
झटितीति ।
यस्यां संविदि योऽर्थो भासते सा तत्र प्रमाणम् ।
एकपदमिति बुद्धौ वर्णा एव स्फुरन्ति नातिरिक्तस्फोट इति न सा स्फोटे प्रमाणमित्याह
न । अस्या अपीत्यादिना ।
ननु गोपदबुद्धेः स्फोटो विषयो गकारादीनां तु व्यञ्जकत्वादनुवृत्तिरित्यत आह
यदि हीति ।
व्यङ्ग्यवह्निबुद्धौ व्यञ्जकधूमानुवृत्तेरदर्शनादित्यर्थः ।
वर्णसमूहालम्बनत्वोपपत्तेर्न स्फोटः कल्पनीयः, पदार्थान्तरकल्पनागौरवादित्याह
तस्मादिति ।
अनेकस्याप्यौपाधिकमेकत्वं युक्तमित्याह
सम्भवतीति ।
ननु तत्रैकदेशादिरूपाधिरस्ति, प्रकृते क उपाधिरित्यत आह
या त्विति ।
एकार्थे शक्तमेकं पदम् , प्रधानार्थ एकस्मिन् तात्पर्यवदेकं वाक्यमित्येकार्थसम्बन्धादेकत्वोपचार इत्यर्थः । न चैकपदत्वे ज्ञाते एकार्थज्ञानम् , अस्मिंज्ञाते तदित्यन्योन्याश्रय इति वाच्यम् , उत्तमवृद्धोक्तानां वर्णानां क्रमेणान्त्यवर्णश्रवणानन्तरं बालस्यैकस्मृत्यारूढानां मध्यमवृद्धस्य प्रवृत्त्यादिलिङ्गानुमितैकार्थधीहेतुत्वनिश्चये सत्येकपदवाक्यत्वनिश्चयात् ।
वर्णसाम्येऽपि पदभेददृष्टेर्वर्णातिरिक्तं पदं स्फोटाख्यमङ्गीकार्यमिति शङ्कते
अत्राहेति ।
क्रमभेदाद्वर्णेष्वेव पदभेददृष्टिरिति परिहरति
अत्रेति ।
ननु नित्यविभूनां वर्णानां कथं क्रमः कथं वा पदत्वज्ञानेनार्थधीहेतुत्वम् , तत्राह
वृद्धेति ।
व्युत्पत्तिदशायामुच्चारणक्रमेणोपलब्धिक्रममुपलभ्यमानवर्णेष्वारोप्यैते वर्णा एतत्क्रमैतत्सङ्ख्यावन्त एतदर्थशक्ता इति गृहीताः सन्तः श्रोतुः प्रवृत्तिकाले तथैव स्मृत्यारूढाः स्वस्वार्थं बोधयन्तीत्यर्थः ।
स्थायिवर्णवादमुपसंहरति
वर्णेति ।
दृष्टं वर्णानामर्थबोधकत्वम् , अदृष्टः स्फोटः । सम्प्रति वर्णानामस्थिरत्वमङ्गीकृत्य प्रौढिवादेन स्फोटं विघटयति
अथापीति ।
स्थिराणि गत्यादिसामान्यानि क्रमविशेषवन्ति गृहीतसङ्गतिकान्यर्थबोधकानीति कॢप्तेषु सामान्येषु प्रक्रिया सञ्चारयितव्या न त्वकॢप्तः स्फोटः कल्पनीय इत्यर्थः ।
वर्णानां स्थायित्ववाचकत्वयोः सिद्धौ फलितमाह
ततश्चेति ॥ २८ ॥
पूर्वतन्त्रवृत्तानुवादपूर्वकं सूत्रं व्याचष्टे
कर्तुरित्यादिना ।
पूर्वतन्त्रसिद्धमेव वेदस्य नित्यत्वं देवादिव्यक्तिसृष्टौ तद्वाचकशब्दस्यापि सृष्टेरसिद्धमित्याशङ्क्य नित्याकृतिवाचकाच्छब्दाद्व्यक्तिजन्मोक्त्या साङ्केतिकत्वं निरस्य वेदोऽवान्तरप्रलयावस्थायी जागद्धेतुत्वादीश्वरवदित्यनुमानेन द्रढयतीत्यर्थः । यज्ञेन पूर्वसुकृतेन वाचो वेदस्य लाभयोग्यतां प्राप्ताः सन्तो याज्ञिकास्तामृषिषु स्थितां लब्धवन्त इति मन्त्रार्थः । अनुविन्नामुपलब्धाम् । पूर्वमवान्तरकल्पादौ ॥ २९ ॥
ननु महाप्रलये जातेरप्यसत्त्वाच्छब्दार्थसम्बन्धानित्यत्वमित्याशङ्क्याह
समानेति ।
सूत्रनिरस्यां शङ्कामाह
अथापीति ।
व्यक्तिसन्तत्या जातीनामवान्तरप्रलये सत्त्वात्सम्बन्धस्तिष्ठति, व्यवहाराविच्छेदाज्ज्ञायते चेति वेदस्यानपेक्षत्वेन प्रामाण्ये न कश्चिद्विरोधः स्यात् । निर्लेपलये तु सम्बन्धनाशात्पुनः सृष्टौ केनचित्पुंसा सङ्केतः कर्तव्य इति पुरुषबुद्धिसापेक्षत्वेन वेदस्याप्रामाण्यम् , अध्यापकस्याश्रयस्य नाशादाश्रितस्य तस्यानित्यत्वं च प्राप्तमित्यर्थः । महाप्रलयेऽपि निर्लेपलयोऽसिद्धः, सत्कार्यवादात् । तथाच संस्कारात्मना शब्दार्थतत्सम्बन्धानां सतामेव पुनः सृष्टावभिव्यक्तेर्नानित्यत्वम् । अभिव्यक्तानां पूर्वकल्पीयनामरूपसमानत्वान्न सङ्केतः केनचित्कार्यः ।
विषमसृष्टौ हि सङ्केतापेक्षा न तुल्यसृष्टाविति परिहरति
तत्रेदमित्यादिना ।
नन्वाद्यसृष्टौ सङ्केतः केनचित्कार्य इत्यत आह
तदापीति ।
महासर्गप्रलयप्रवृत्तावपीत्यर्थः ।
नन्वस्त्वनादिसंसारे सम्बन्धस्यानादित्वं तथापि महाप्रलयव्यवधानादस्मरणे कथं वेदार्थव्यवहारः, तत्राह
अनादौ चेति ।
न कश्चिद्विरोधः, शब्दार्थसम्बन्धस्मरणादेरिति शेषः ।
स्वापप्रबोधयोर्लयसर्गासिद्धिमाशङ्क्य श्रुतिमाह
स्वापेति ।
अथ तदा सुषुप्तौ प्राणे परमात्मनि जीव एकीभवति एनं प्राणं स जीवः तदैतीति शेषः । एतस्मात्प्राणात्मनः । आयतनं गोलकम् । आनन्तर्ये पञ्चमी प्राणेभ्य इत्याद्या द्रष्टव्या । स्वप्नवत्कल्पितस्याज्ञातसत्त्वाभावात् दर्शनं सृष्टिः अदर्शनं लय इति दृष्टिसृष्टिपक्षः श्रुत्यभिप्रेत इति भावः ।
दृष्टान्तवैषम्यमाशङ्क्य परिहरति
स्यादित्यादिना ।
अविरुद्धमनुसन्धानादिकमिति शेषः ।
हिरण्यगर्भादयः पूर्वकल्पानुसन्धानशून्यः । संसारित्वात् , अस्मादादिवादित्याशङ्क्याह
यद्यपीति ।
इति यद्यपि तथापि न प्राकृतवदिति योजना ।
ज्ञानादेर्निकर्षवदुत्कर्षोऽप्यङ्गीकार्यः, बाधाभावादिति न्यायानुगृहीतश्रुत्यादिभिः सामान्यतो दृष्टानुमानं बाध्यमित्याह
यथा हीत्यादिना ।
ननु तथापि पूर्वकल्पेश्वराणां मुक्तत्वादस्मिन्कल्पे कोऽनुसन्धातेत्यत आह
ततश्चेति ।
ज्ञानाद्युत्कर्षादित्यर्थः । मुक्तेभ्योऽन्येऽनुसन्धातार इति भावः ।
परमेश्वरानुगृहीतानां ज्ञानातिशये पूर्वोक्तश्रुतिस्मृतिवादानाह
तथा चेति ।
पूर्वं कल्पादौ सृजति तस्मै ब्रह्मणे प्रहिणोति गमयति तस्य बुद्धौ वेदानाविर्भावयति यस्तं देवं स्वात्माकारं महावाक्योत्थबुद्धौ प्रकाशमानं शरणं परममभयस्थानं निःश्रेयसरूपमहं प्रपद्य इत्यर्थः ।
न केवलमेकस्यैव ज्ञानातिशयः किन्तु बहूनां शाखाद्रष्टृणामिति विश्वासार्थमाह
स्मरन्तीति ।
ऋग्वेदो दशमण्डलावयवास्तत्र भवा ऋचो दाशतम्यः । वेदान्तरेऽपि काण्डसूक्तमन्त्राणां द्रष्टारो बौधायनादिभिः स्मृता इत्याह
प्रतीति ।
किञ्च मन्त्राणामृष्यादिज्ञानावश्यकत्वज्ञापिका श्रुतिर्मन्त्रदृगृषीणां ज्ञानातिशयं दर्शयतीत्याह
श्रुतिरपीति ।
आर्षेय ऋषियोगः, छन्दो गायत्र्यादि, दैवतमग्न्यादि, ब्राह्मणं विनियोगः, एतान्यविदितानि यस्मिन्मन्त्रे तेनेत्यर्थः । स्थाणुं स्थावरम् , गर्तं नरकम् । तथाच ज्ञानाधिकैः कल्पान्तरितं वेदं स्मृत्वा व्यवहारस्य प्रवर्तितत्वाद्वेदस्यानादित्वमनपेक्षत्वं चाविरूद्धमिति भावः ।
अधुना समाननामरूपत्वं प्रपञ्चयति
प्राणिनां चेति ।
ततः किम् , तत्राह
दृष्टेति ।
ऐहिकामुष्मिकविषयसुखरागकृतधर्मस्य फलं पश्वादिकं दृष्टपश्वादिसदृशमिति युक्तम् , विसदृशे कामाभावेन हेत्वभावात् । तथा दृष्टदुःखद्वेषकृताधर्मफलं दृष्टसदृशदुःखमेव न सुखम् , कृतहान्यादिदोषापत्तेरित्यर्थः ।
तर्कितेऽर्थे मानमाह
स्मृतिश्चेति ।
उत्तरसृष्टिः पूर्वसृष्टिसजातीया, कर्मफलत्वात् , पूर्वसृष्टिवदित्यनुमानं चशब्दार्थः ।
तेषां प्राणिनां मध्ये तान्येव तज्जातीयान्येव । तानि दर्शयन् तत्प्राप्तौ हेतुमाह
हिंस्रेति ।
कर्माणि विहितनिषिद्धत्वाकारेणापूर्वम् , क्रियात्वेन संस्कारं च जनयन्ति । तत्रापूर्वात्फलं भुङ्क्ते, संस्कारभावितत्वात्पुनस्तज्जातीयानि करोतीत्यर्थः ।
संस्कारे लिङ्गमाह
तस्मादिति ।
संस्कारवशादेव पुण्यं पापं वा रोचते । अतोऽभिरुचिलिङ्गात्पुण्यापुण्यसंस्कारोऽनुमेयः । स एव स्वभावः प्रकृतिर्वासनेति च गीयते ।
एवं कर्मणां सृष्टिसादृश्यमुक्त्वा स्वोपादाने लीनकार्यसंस्काररूपशक्तिबलादपि सादृश्यमाह
प्रलीयमानमिति ।
इतरथा निःसंस्कारप्रलये जगद्वैचित्र्यस्याकस्मिकत्वं स्यादित्यर्थः ।
ननु जगद्वैचित्र्यकारिण्योऽन्याः शक्तयः कल्प्यन्ताम् , तत्राह
नचेति ।
अविद्यायां लीनकार्यात्मकसंस्कारादन्याः शक्तयो न कल्प्याः मनाभावाद्गौरवाच्च । स्वोपादाने लीनकार्यरूपा शक्तिस्तु 'महान्न्यग्रोधस्तिष्ठति' 'श्रद्धत्स्व सोम्य' इतिश्रुतिसिद्धा, अतोऽविद्यातत्कार्यादन्याः शक्तयो न सन्ति आत्माविद्यैव तच्छक्तिरिति सिद्धान्त इत्यर्थः । निमित्तेष्वप्युपादनस्थं कार्यमेवाविद्याघटनया शक्तिरन्या वेत्यनाग्रहः ।
उपादाने कार्यसंस्कारसिद्धेः फलमाह
ततश्चेति ।
यथा सुप्तोत्थितस्य पूर्वचक्षुर्जातीयमेव चक्षुर्जायते तच्च पूर्वरूपजातीयमेव रूपं गृह्णाति न रसादिकम् , एवं भोग्या लोका भोगाश्रयाः प्राणिनिकाया भोगहेतुकर्माणि संस्कारबलात्पूर्वलोकादितुल्यान्येवेति नियम इत्यर्थः । निकायाः समूहाः ।
दृष्टान्तासिद्धिमाशङ्क्यमाह
न हीति ।
यथा षष्ठेन्द्रियस्य मनसोऽसाधारणविषयो नास्ति, सुखादेः साक्षिवेद्यत्वात् , तथा व्यवहारान्यथात्वमसदित्यर्थः । षष्ठमिन्द्रियं तद्विषयश्चासन्निति वार्थः ।
उक्तार्थं सङ्क्षिपति
अतश्चेति ।
व्यवहारसाम्यात्सम्भवाच्च व्यवह्रियमाणा व्यक्तयः समाना एवेत्यर्थः ।
सूत्रे योजयति
समानेत्यादिना ।
भाविदृष्ट्या यजमानोऽग्निः अन्नादोऽरग्निरहं स्यामिति कामयित्वा कृत्तिकानक्षत्राभिमानिदेवायाग्नये अष्टसु कपालेषु पचनीयं हविर्निरुप्तवानित्यर्थः । नक्षत्रव्यक्तिबहुत्वाद्बहुवचनम् । [ननु यजमानोऽग्निर्भावी उद्देश्याग्निना समाननामरूपः कल्पान्तरे भवति । एवं 'रुद्रो वा अकामयत' 'विष्णुर्वा अकामयत' इत्यत्रापि तथा वक्तव्यम् , तदयुक्तम् । न ह्यग्नेरिव विष्णुरुद्रयोरधिकारिपुरुषत्वम् , तयोर्जगत्कारणत्वश्रवणात् । 'एक एव रुद्रो न' इति । 'एको विष्णुः' इत्यादि श्रुतिस्मृतिविरोधादिति । ] स्मृतौ वेदेष्विति विषयसप्तमी । शर्वर्यन्ते प्रलयान्ते । ऋतूनां वसन्तादीनां लिङ्गानि नवपल्लवादिनि । पर्यये घटीयन्त्रवदावृत्तौ । भावाः पदार्थाः तुल्या इति शेषः । तस्माज्जन्मनाशवद्विग्रहाङ्गीकारेऽपि कर्मणि शब्दे च विरोधाभावाद्देवानामस्ति विद्याधिकार इति स्थितम् ॥ ३० ॥
आक्षिपति
मध्वादिष्विति ।
ब्रह्मविद्या देवादीन्नाधिकरोति, विद्यात्वात् , मध्वादिविद्यावदित्यर्थः ।
दृष्टान्तं विवृणोति
कथमित्यादिना ।
द्युलोकाख्यवंशदण्डे अन्तरिक्षरूपे मध्वपूपे स्थित आदित्यो देवानां मोदनान्मध्विव मध्वित्यारोप्य ध्यानं कार्यम् । तत्रादित्यस्याधिकारो न युक्तः, ध्यातृध्येयभेदाभावादित्याह
देवादिष्विति ।
अस्तु वस्वादीनां तत्राधिकार इत्याशङ्क्य तेषामपि तत्र ध्येयत्वात्प्राप्यत्वाच्च न ध्यातृत्वमित्याह
पुनश्चेति ।
चतुर्वेदोक्तकर्माणि प्रणवश्चेति पञ्च कुसुमानि, तेभ्यः सोमाज्यादिद्रव्याणि हुतानि लोहितशुक्लकृष्णपरः कृष्णगोप्याख्यानि पञ्चामृतानि तत्तन्मन्त्रभागैः प्रागाद्यूर्ध्वान्तरपञ्चदिगवस्थिताभिरादित्यरश्मिनाडीभिर्मध्वपूपस्थितच्छिद्ररूपाभिरादित्यमण्डलमानीतानि यशस्तेज इन्द्रियवीर्यान्नात्मना परिणतानि पञ्चदिक्षु स्थितैर्वस्वादिभिरूपजीव्यानीति ध्यायतो वस्वादिप्राप्तिरुक्तेत्यर्थः ।
सूत्रस्थादिपदार्थमाह
तथाग्निरिति ।
आकाशब्रह्मणश्चत्वारः पादाः, द्वौ कर्णौ, द्वे नेत्रे, द्वे नासिके, एका वागिति सप्तस्विन्द्रियेषु शिरश्चमसतीरस्थेषु सप्तर्षिध्यानं कार्यमित्याह
तथेमावेवेति ।
अथ दक्षिणः कर्णः गौतमः, वामो भारद्वाजः, एवं दक्षिणनेत्रनासिके विश्वामित्रवसिष्ठौ, वामे जमदग्निकश्यपौ, वागत्रिरित्यर्थः । अत्र ऋषीणां ध्येयत्वान्नाधिकारः ॥ ३१ ॥
किञ्च विग्रहाभावाद्देवादीनां न क्वाप्यधिकार इत्याह
ज्योतिषि भावाच्चेति ।
आदित्यः सूर्यश्चन्द्रः शुक्रोऽङ्गारक इत्यादिशब्दानां ज्योतिःपिण्डेषु प्रयोगस्य भावात्सत्त्वान्न विग्रहवान्देवः कश्चिदस्तीत्यर्थः ।
'आदित्यः पुरस्तादुदेता पश्चादस्तमेता' इति मधुविद्यावाक्यशेषे ज्योतिष्येवादित्यशब्दः प्रसिद्धः । तर्हि ज्योतिःपिण्डानामेवाधिकारोऽस्तु, तत्राह
न चेति ।
अग्न्यादीनामधिकारमाशङ्क्याह
एतेनेति ।
अग्निर्वायुर्भूमिरित्यादिशब्दानामचेतनवाचित्वेनेत्यर्थः ।
सिद्धान्ती शङ्कते
स्यादेतदित्यादिना ।
'वज्रहस्तः पुरन्दरः' इत्यादयो मन्त्राः । 'सोऽरोदीत्' इत्यादयोऽर्थवादाः । 'इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः' । 'ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः' । इत्यादीतिहासपुराणानि । लोकेऽपि यमं दण्डहस्तं लिखन्ति, इन्द्रं वज्रहस्तमिति विग्रहादिपञ्चकसद्भावादनधिकारदोषो नास्तीत्यर्थः । 'विग्रहो हविषां भोग ऐश्वर्यं च प्रसन्नता । फलप्रदानमित्येतत्पञ्चकं विग्रहादिकम् ' ॥
मानाभावादेतन्नास्तीति दूषयति
नेत्यादिना ।
न चात्रेति ।
विग्रहादावित्यर्थः ।
आर्थवादा मन्त्रा वा मूलमित्याशङ्क्याह
अर्थवादा इत्यादिना ।
व्रीह्यादिवद्प्रयोगविधिगृहीता मन्त्राः प्रयोगसम्बन्द्धाभिधानार्था नाज्ञातविग्रहादिपरा इति मीमांसका आचक्षत इत्यर्थः । तस्मात् विग्रहाभावादित्यर्थः ॥ ३२ ॥
सूत्राभ्यां प्राप्तं पूर्वपक्षं निरस्यति
तुशब्द इत्यादिना ।
ब्रह्मविद्या देवादीन्नाधिकरोति, विद्यात्वात् , मध्वादिविद्यावदिति उक्तहेतुरप्रयोजक इत्याह
यद्यपीति ।
दर्शादिकम् , न ब्राह्मणमधिकरोति, कर्मत्वात् , राजसूयादिवदिति आभाससाम्यं विद्यात्वहेतोराह
नचेति ।
यत्र यस्याधिकारः सम्भवति स तत्राधिकारीति न्यायस्तुल्य इत्यर्थः । यतः सर्वेषां सर्वत्राधिकारो न सम्भवति ततो न चापोद्येतेत्यन्वयः । तद्ब्रह्म यो यो देवादीनां मध्ये प्रत्यक्त्वेनाबुध्यत स तद्ब्रह्माभवदित्यर्थः । ते ह देवा ऊचुरन्योन्यम् , तत इन्द्रविरोचनौ सुरासुरराजौ प्रजापतिं ब्रह्मविद्याप्रदं जग्मतुरिति च लिङ्गमस्तीत्यर्थः ।
किमत्र ब्रह्मामृतमिति गन्धर्वप्रश्ने याज्ञवल्क्य उवाच तमिति मोक्षधर्मेषु श्रुतं देवादीनामधिकारलिङ्गमित्याह
स्मार्तमिति ।
यथा बालानां गोलकेषु चक्षुरादिपदप्रयोगेऽपि शास्त्रज्ञैर्गोलकातिरिक्तेन्द्रियाणि स्वीक्रियन्ते, यथा ज्योतिरादौ सूर्यादिशब्दप्रयोगेऽपि विग्रहवद्देवता स्वीकार्या इत्याह
ज्योतिरादीति ।
तथा चेतनत्वेन व्यवहारादित्यर्थः ।
एकस्य जडचेतनोभयरूपत्वं कथम् , तत्राह
अस्तिहीति ।
तथाहि विग्रहवत्तया देवव्यवहारःश्रूयते । सुब्रह्मण्य उद्गातृगणस्थ ऋत्विक्तत्सम्बन्धी योऽर्थवादः इन्द्र, अगच्छऽइत्यादिः । तत्र मेधातिथेर्मेष, इतीन्द्रसम्बोधनं श्रुतम् , तद्व्याचष्टे
मेधेति ।
मुनिं मेषो भूत्वा जहारेति ज्ञापनार्थं मेष, इतीन्द्रसम्बोधनमित्यर्थः ।
यदुक्तमादित्यादयो मृदादिवदचेतना एवेति, तन्न, सर्वत्र जडजडांशद्वयसत्त्वादित्याह
मृदिति ।
आदित्यादौ को जडभागः कश्चेतनांश इति, तत्राह
ज्योतिरादेस्त्विति ।
मन्त्रादिकं पदशक्त्या भासमानविग्रहादौ स्वार्थे न प्रमाणम् , अन्यपरत्वात् , विषं भुङ्क्ष्वेति वाक्यवदित्याह
यदपीति ।
अन्यपरादपि वाक्याद्बाधाभावे स्वार्थो ग्राह्य इत्याह
अत्र ब्रूम इति ।
तात्पर्यशून्येऽप्यर्थे प्रत्ययमात्रेणास्तित्वमुदाहरति
तथाहीति ।
तृणादौ प्रत्ययोऽस्ति विग्रहादौ स नास्तीति वैषम्यं शङ्कते
अत्राहेति ।
विध्युद्देशो विधिवाक्यम् , तदेकवाक्यतया प्रशस्तो विधिरित्येवार्थवादेषु प्रत्ययः । वृत्तान्तो भूतार्थः । विग्रहादिः तद्विषयः प्रत्ययो नास्तीत्यर्थः ।
नन्ववान्तरवाक्येन विग्रहादिप्रत्ययोऽस्त्वित्यत आह
नहीति ।
सुरापानप्रत्ययोऽपि स्यादिति भावः ।
पदैकवाक्यत्ववाक्यैकवाक्यत्ववैषम्यान्मैवमित्याह
अत्रोच्यत इति ।
नञ्पदमेकं यदा सुरां पिबेदिति पदाभ्यामन्वेति तदा पदैकवाक्यमेकमेवार्थानुभवं करोति नतु पदद्वयं पृथक्सुरापानं बोधयति, तस्य विधौ निषेधानुपपत्तेर्वाक्यार्थानुभवं प्रत्यद्वारत्वात् । अर्थवादस्तु भूतार्थसंसर्गं स्तुतिद्वारं बोधयन्विधिना वाक्यैकवाक्यतां भजत इत्यस्ति विग्रहाद्यनुभव इत्यर्थः ।
नन्वर्थवादस्थपदानामवान्तरसंसर्गबोधकत्वं विना साक्षादेव विध्यन्वयोऽस्तु तत्राह
यथा हीति ।
साक्षादन्वयायोगं दर्शयति
न हीति ।
अर्थवादात्सर्वत्र स्वार्थग्रहणमाशङ्क्यार्थवादान्विभजते
तद्यत्रेति ।
तत्तत्रार्थवादेषु यत्र 'अग्निर्हिमस्य भेषजम्' इत्यादावित्यर्थः । 'आदित्यो यूपः' इत्यभेदो बाधित इति तेजस्वित्वादिगुणवादः । यत्र 'वज्रहस्तः पुरन्दरः' इत्यादौ मानान्तरसंवादविसंवादौ न स्तस्तत्र भूतार्थवाद इत्यर्थः । इति विमृश्येत्यध्याहारः ।
विग्रहार्थवादः स्वार्थेऽपि तात्पर्यवान्, अन्यपरत्वे सत्यज्ञाताबाधितार्थकशब्दत्वात् , प्रयाजादिवाक्यवदिति न्यायं मन्त्रेष्वतिदिशति
एतेनेति ।
वेदान्तानुवादगुणवादानां निरासाय हेतौ पदानि । न चोभयपरत्वे वाक्यभेदः, अवान्तरार्थस्य महावाक्यार्थत्वादिति भावः ।
विध्यनुपपत्त्यापि स्वर्गवद्देवताविग्रहोऽङ्गीकार्य इत्याह
अपिचेति ।
ननु क्लेशात्मके कर्मणि विधिः फलं विनानुपपन्न इति भवतु 'यन्न दुःखेन सम्भिन्नम्' इत्यर्थवादसिद्धः स्वर्गो विधिप्रमाणकः । विग्रहं विना विधेः कानुपपत्तिः, तामाह
न हीति ।
उद्दिश्य त्यागानुपपत्त्या चेतस्यारोहोऽङ्गीकार्य इत्यत्र श्रुतिमप्याह
यस्या इति ।
अतश्चेतस्यारोहार्थं विग्रह एष्टव्यः । किञ्च कर्मप्रकरणपाठाद्विग्रहप्रमितिः प्रयाजवत्कर्माङ्गत्वेनाङ्गीकार्या, तां विना कर्मापूर्वासिद्धेः ।
किञ्च सुप्रसन्नविग्रहवद्देवतां त्यक्त्वा शब्दमात्रं देवतेति भक्तिरयुक्तेत्याह
नच शब्देति ।
न चाकृतिमात्रं शब्दशक्यमस्तु किं विग्रहेणेति वाच्यम् , निर्व्यक्त्याकृत्ययोगात् । अतः शब्दस्यार्थाकाङ्क्षायां मन्त्रादिप्रमितविग्रहोऽङ्गीकार्य इत्याह
तत्रेति ।
एवं मन्त्रार्थवादमूलकमितिहासादिकमपि विग्रहे मानमित्याह
इतिहासेति ।
प्रमाणत्वेन सम्भवदित्यर्थः ।
व्यासादीनां योगिनां देवतादिप्रत्यक्षमपीतिहासादेर्मूलमित्याह
प्रत्यक्षेति ।
व्यासादयो देवादिप्रत्यक्षशून्याः, प्राणित्वात् , अस्मद्वदित्यनुमानमतिप्रसङ्गेन दूषयति
यस्त्वित्यादिना ।
सर्वं घटाभिन्नम् , वस्तुत्वात् , घटवदिति जगद्वैचित्र्यं नास्तीत्यपि स ब्रूयात् । तथा क्षत्रियाभावं वर्णाश्रमाभावं वर्णाश्रमाद्यव्यवस्थां च ब्रूयात् , निरङ्कुशबुद्धित्वात् । तथाच राजसूयादिशास्त्रस्य कृतादियुगधर्मव्यवस्थाशास्त्रस्य बाध इत्यर्थः ।
योगसूत्रार्थादपि देवादिप्रत्यक्षसिद्धिरित्याह
अपिचेति ।
मन्त्रजपाद्देवतासांनिध्यं तत्सम्भाषणं चेति सूत्रार्थः ।
योगमाहात्म्यस्य श्रुतिस्मृतिसिद्धत्वाद्योगिनामस्ति देवादिप्रत्यक्षमित्याह
योग इति ।
पादतलादाजानोर्जानोरानाभेर्नाभेराग्रीवं ग्रीवायाश्चाकेशप्ररोहं ततश्चब्रह्मरन्ध्रं पृथिव्यादिपञ्चके समुत्थिते धारणया जिते योगगुणे चाणिमादिके प्रवृत्ते योगाभिव्यक्तं तेजोमयं शरीरं प्राप्तस्य योगिनो न रोगादिस्पर्श इत्यर्थः ।
चित्रकारादिप्रसिद्धिरपि विग्रहे मानमित्याह
लोकेति ।
अधिकरणार्थमुपसंहरति
तस्मादिति ।
चिन्तायाः फलमाह
क्रमेति ।
एवमेव देवादीनां ब्रह्मविद्याधिकारे सत्येव देवत्वप्राप्तिद्वारा क्रममुक्तिफलान्युपासनानि युज्यन्ते । देवानामनधिकारे ज्ञानाभावात्क्रममुक्त्यर्थिनामुपासनेषु प्रवृत्तिर्न स्यात् , अतोऽधिकारनिर्णयात्प्रवृत्तिसिद्धिरिति भावः ॥ ३३ ॥