अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

देवताधिकरणम्

शास्त्रस्य मनु­ष्या­धि­का­रत्वे देवादीनां ब्रह्म­वि­द्या­या­म­प्य­न­धि­कारः स्यादि­त्या­श­ङ्क्याह
तदुपर्यपि बादरायणः सम्भवात् ।

ननु सम­न्व­या­ध्या­येऽ­धि­का­र­चिन्ता न सङ्गतेत्यत आह
अङ्गुष्ठेति ।

स्मृत­स्यो­पे­क्षा­न­र्हत्वं प्रसङ्गः । अत्र मनु­ष्या­धि­का­र­त्वोक्त्या स्मृतानां देवादिनां वेदा­न्त­श्र­व­णा­दा­व­धि­का­रोऽस्ति न वेति सन्देहे भोगासक्तानां वैरा­ग्या­द्य­स­म्भ­वा­न्नेति प्राप्ते सिद्धान्तमाह
बाढमिति ।
एव­म­धि­का­र­वि­चा­रा­त्म­का­धि­क­र­ण­द्व­यस्य प्रासङ्गिकी सङ्गतिः । अत्र पूर्वपक्षे देवादिनां ज्ञाना­न­धि­का­रा­द्दे­व­त्व­प्रा­प्ति­द्वारा क्रममुक्तिफलासु दहराद्युपासनासु क्रम­मु­क्त्य­र्थिनां मनु­ष्या­णा­म­प्र­वृत्तिः फलम् , सिद्धान्ते तु प्रवृत्तिः । उपा­स­ना­भि­र्दे­वत्वं प्राप्तानां श्रवणादिना ज्ञाना­न्मु­क्ति­स­म्भ­वा­दिति सफलोऽयं विचारः ।

ननु भोगासक्तानां तेषां मोक्षा­र्थि­त्वा­भा­वा­न्ना­धि­कार इत्यत आह
अर्थित्वं तावदिति ।
विका­र­त्वे­ना­नृ­त­वि­ष­य­सु­खस्य क्षया­सू­या­दि­दो­ष­द्दष्ट्या निर­ति­श­य­सु­ख­मो­क्षा­र्थित्वं सत्त्व­प्र­कृ­तीनां देवानां सम्भवतीत्यर्थः ।

नन्विन्द्राय स्वाहेत्यादौ चतु­र्थ्य­न्त­श­ब्दा­ति­रिक्ता विग्रहवती देवता नास्ति, शब्दस्य चासा­म­र्थ्या­न्ना­धि­कार इत्यत आह
तथेति ।
अर्थि­त्व­व­दि­त्यर्थः ।

अप­र्यु­द­स्त­त्व­माह
नचतेषामिति ।
'शूद्रो यज्ञे नव­क्लृप्तः' इतिवद्देवादीनां विद्या­धि­का­र­नि­षेधो नास्तीत्यर्थः ।

ननु विग्रहवत्त्वेन दृष्टसामर्थ्ये सत्य­प्यु­प­न­य­ना­भा­वा­च्छा­स्त्रीयं सामर्थ्यं नास्तीत्यत आह
न चेति ।
जन्मा­न्त­रा­ध्य­य­न­ब­ला­त्स्व­य­मेव प्रतिभाताः स्मृता वेदा येषां ते तथा तद्भा­वा­दि­त्यर्थः । बालादिषु प्रवि­ष्ट­पि­शा­चा­दीनां वेदो­द्घो­ष­द­र्श­ना­द्दे­व­यो­नीनां जन्मा­न्त­र­स्म­र­ण­म­स्तीति स्मृत­वे­दा­न्ता­ना­म­र्थ­वि­चारो युक्त इत्यर्थः ।

देवानामृषीणां च विद्याधिकारे कार­ण­म­र्थि­त्वा­दि­क­मुक्त्वा श्रौतं गुरु­कु­ल­वा­सा­दि­लि­ङ्ग­माह
अपिचेति ।

ननु ब्रह्मविद्या देवा­दी­न्ना­धि­क­रोति, वेदार्थत्वात् , अग्नि­हो­त्र­व­दि­त्यत आह
यदपीति ।
देवानां कर्मसु नाधिकारः, देव­ता­न्त­रा­णा­मु­द्दे­श्या­ना­म­भा­वा­दिति प्रथमसूत्रार्थः । ऋषीणामनधिकारः, ऋष्य­न्त­रा­भा­वा­दृ­षि­युक्ते कर्म­ण्य­श­क्ते­रिति द्विती­य­सू­त्रार्थः ।

असा­म­र्थ्य­मु­पा­धि­रिति परिहरति
न तदिति ।
असामर्थ्यरूपं कारणमित्यर्थः । न ह्यस्ति येनासामर्थ्यं स्यादिति शेषः । 'तद्यो यो देवानां प्रत्यबुध्यत स एव तद­भ­व­त्त­थ­र्षी­णाम्' इति­वा­क्य­बा­धोऽ­प्य­नु­मा­नस्य द्रष्टव्यः ।

ननु देवा­दी­न्प्र­त्य­ङ्गु­ष्ठ­मा­त्र­श्रुतिः कथम् , तेषां महादेहत्वेन हृद­य­स्या­स्म­द­ङ्गु­ष्ठ­मा­त्र­त्वा­भा­वात् । अतः श्रुतिषु तेषां नाधिकार इत्यत आह
देवा­द्य­धि­का­रेऽ­पीति ॥ २६ ॥

ननु मन्त्रादीनां प्रती­य­मा­न­वि­ग्र­ह­वत्त्वे तात्पर्यं कल्पयित्वा देवादीनामधिकार उक्तः, स चायुक्तः, अन्यपराणां तेषां प्रत्य­क्षा­दि­वि­रो­धेन स्वार्थे तात्प­र्य­क­ल्प­ना­नु­प­प­त्ते­रि­त्या­क्षिप्य सूत्रचतुष्टयेन परिहरति
विरो­धः­क­र्म­णी­त्या­दिना ।
वर्ण्येत, तर्हीति शेषः । स्वरूपं विग्रहः ।

अभ्युपगमे प्रत्यक्षेण देवता दृश्येत, नच दृश्यते, अतो योग्या­नु­प­लब्ध्या देवताया विग्रहवत्या अभा­वा­त्स­म्प्र­दा­न­का­र­का­भा­वेन कर्म­नि­ष्प­त्तिर्न स्यादित्याह
तदा चेति ।

विग्र­ह­स्या­ङ्ग­त्व­मु­प­ल­ब्धि­बा­धितं युक्त्या च न सम्भवतीत्याह
न चेति ।
तस्मा­द­र्थो­प­हि­त­शब्द एव देवता, तस्या अचेतनत्वान्न विद्याधिकार इति शङ्कार्थः ।

परिहरति
नायमिति ।

एकस्यापि देवस्य योग­ब­ला­द­ने­क­दे­ह­प्राप्तिः श्रुति­स्मृ­ति­द­र्श­ना­त्स­म्भ­वति । अतो न कर्मणि विरोध इति व्याचष्टे
कस्मादित्यादिना ।
वैश्वदेवशस्त्रे शस्यमानदेवाः कतीति शाकल्येन पृष्टो याज्ञवल्क्यो निविदा 'त्रयश्च' इत्या­दि­रू­प­यो­त्तरं ददौ । निविन्नाम शस्य­मा­न­दे­व­स­ङ्ख्या­वा­चकः शब्दः । षडधिकानि त्रीणि शतानि त्रीणि सहस्राणीति सङ्ख्योक्तौ सङ्ख्ये­य­स्व­रू­प­प्रश्ने, महिमानो विभूतयः सर्वे देवा एषां त्रय­स्त्रिं­श­द्दे­वा­ना­म­तोऽष्टौ वसव एकादश रुद्रा द्वादशादित्या इन्द्रः प्रजापतिश्चेति त्रय­स्त्रिं­श­दे­वा­स्तेऽपि षण्णा­म­ग्नि­पृ­थि­वी­वा­य्व­न्त­रि­क्षा­दि­त्य­दिवां महिमानस्तेऽपि षट्सु देवे­ष्व­न्त­र्भ­वन्ति । षट्देवास्त्रिषु लोकेषु त्रयश्च द्वयो­र­न्न­प्रा­ण­योर्द्वै च एकस्मिन्प्राणे हिर­ण्य­ग­र्भेऽ­न्त­र्भ­वत इति दर्शितमित्यर्थः । त्रय­स्त्रिं­श­तोऽपि देवानामिति सम्बन्धः ।

दर्शनं श्रौतं व्याख्याय स्मार्तं व्याचष्टे
तथा स्मृतिरिति ।
बलं योगसिद्धिम् । 'अणिमा महिमा चैव लघिमा प्राप्तिरीशिता । प्राकाम्यं च वशित्वं च यत्र­का­मा­व­सा­यिता' ॥ इत्य­ष्टै­श्व­र्याणि । क्षणेन अणुर्महान् लघुर्गुरुश्च भवति योगी । अङ्गुल्या चन्द्रस्पर्शः प्राप्तिः । ईशिता सृष्टिशक्तिः । प्राका­म्य­मि­च्छा­ना­भि­घातः । वशित्वं नियमनशक्तिः । सङ्क­ल्प­मा­त्रा­दि­ष्ट­लाभो यत्र­का­मा­व­सा­यि­तेति भेदः । आजानसिद्धानां जन्मना सिद्धा­ना­मि­त्यर्थः ।

फलितमाह
अनेकेति ।
अनेकेषु कर्मस्वेकस्य प्रति­प­त्ति­र­ङ्ग­भावः ।

तस्य लोके दर्शनादिति वक्तुं व्यतिरेकमाह
क्वचिदेक इति ।

प्रकृ­तो­प­यु­क्त­म­न्व­य­दृ­ष्टा­न्त­माह
क्वचिच्चेति ॥ २७ ॥

कर्म­ण्य­वि­रो­ध­म­ङ्गी­कृत्य शब्द­प्रा­मा­ण्य­वि­रो­ध­मा­शङ्क्य परिहरति -
शब्द इति चेदिति ।
मा प्रसञ्जि प्रसक्तो मा भून्नामेत्यर्थः ।

औत्पत्तिकसूत्रे शब्दा­र्थ­यो­र­नाद्योः सम्ब­न्ध­स्या­ना­दि­त्वा­द्वे­दस्य स्वार्थे माना­न्त­रा­न­पे­क्ष­त्वेन प्रामा­ण्य­मु­क्तम् । इदा­नी­म­नि­त्य­वि­ग्र­ह­व्य­क्त्य­भ्यु­प­गमे तत्स­म्ब­न्ध­स्या­प्य­नि­त्य­त्वा­न्मा­ना­न्त­रेण व्यक्तिं ज्ञात्वा शब्दस्य सङ्केतः पुंसा कर्तव्य इति माना­न्त­रा­पे­क्ष­त्वा­त्प्रा­मा­ण्यस्य विरोधः स्यादित्याह
कथमित्यादिना ।

किं शब्दा­ना­म­नि­त्य­तया सम्बन्धस्य कार्य­त्व­मा­प­द्यते, उता­र्था­ना­म­नि­त्य­तया । नाद्य इत्याह
नायमपीति ।
कर्म­ण्य­वि­रो­ध­व­दि­त्य­पे­रर्थः । देवा­दि­व्य­क्ति­हे­तु­त्वेन प्रागेव शब्दानां सत्त्वा­न्ना­नि­त्य­त्व­मिति भावः ।

अत्र पूर्वापरविरोधं शङ्कते
नन्विति ।

शब्दस्य निमित्तत्वेन ब्रह्म­स­ह­का­रि­त्वा­द­वि­रोध इत्याशङ्क्य द्वितीयं कल्पमुत्थापयति
अपिचेति ।
अनित्यत्वं सादित्वम् । व्यक्ति­रू­पा­र्था­ना­म­नि­त्य­तया शब्दानां सम्ब­न्ध­स्या­नि­त्यत्वं दुर्वारम् , तस्मा­त्पौ­रु­षे­य­स­म्ब­न्ध­सा­पे­क्ष­त्वा­त्प्रा­मा­ण्य­वि­रोध इत्यर्थः । नच व्यक्ति­ना­म­नि­त्य­त्वेऽपि घट­त्वा­दि­जा­ति­स­म­वा­य­व­च्छ­ब्द­स­म्ब­न्धोऽपि नित्यः स्यादिति वाच्यम् , उभ­या­श्रि­त­स­म्ब­न्ध­स्या­न्य­त­रा­भावे स्थित्ययोगेन दृष्टा­न्ता­सि­द्वे­रिति भावः ।

यथा गोत्वादयो गवा­दि­श­ब्द­वा­च्या­स्तथा वसु­त्वा­द्या­कृ­तयो वस्वा­दि­श­ब्दार्था न व्यक्त्य इति परिहरति
नेत्यादिना ।

शब्दानां तदर्थानां जातीनां च नित्य­त्वा­त्त­त्स­म्ब­न्धोऽपि नित्य इति प्रतिपादयति
नहीत्यादिना ।

व्यक्ती­ना­मा­न­न्त्या­दिति ।
नच गोत्वावच्छेदेन व्यक्तिषु शक्तिः सुग्रहेति वाच्यम् , सामा­न्य­स्या­प्र­त्या­स­त्ति­त्वेन सर्व­व्य­क्त्यु­प­स्थि­त्य­भा­वात् , गोत्वं शक्य­ता­व­च्छे­द­क­मिति ग्रहापेक्षया गोत्वं शक्यमिति लाघवात् , निरू­ढा­ज­ह­ल्ल­क्ष­णया व्यक्ते­र्ला­भे­ना­न्य­ल­भ्य­त्वा­भा­वा­च्चेति भावः । यद्वा केवलव्यक्तिषु शक्तिरत्र निरस्यते, अनुपपत्तिज्ञानं विनैव व्यक्तेः शब्द­श­क्त्या­य­त्त­जा­ति­ज्ञा­न­वि­ष­य­त्वे­नो­भ­य­श­क्ते­रा­व­श्य­क­त्वात् । तथाच नित्य­जा­ति­ता­दा­त्म्येन व्यक्ते­र­ना­दि­त्वा­त्त­त्स­म्ब­न्धोऽ­प्य­नादिः, सत्कार्यवादात् । अत एव वाक्यवृत्तौ तत्त्व­म­स्या­दि­वाक्ये भागलक्षणोक्ता युज्यते, केवलसामान्यस्य वाच्य­त्वेऽ­ख­ण्डा­र्थस्य वाच्यै­क­दे­श­त्वा­भा­वात् । 'अतः­प्र­भ­वात्' इति सूत्र­स्वा­र­स्याच्च केव­ल­व्य­क्ति­श­क्ति­नि­रास इति गम्यते । केव­ल­व्य­क्ति­व­चनाः खलु डित्थादिशब्दा अर्था­न­न्त­र­भा­विनः साङ्केतिकाः गवादिशब्दास्तु व्यक्ति­प्र­भ­व­हे­तु­त्वेन प्रागेवसन्धीति न व्यक्ति­मा­त्र­व­चनाः साङ्केतिकाः किन्तु स्थूल­सू­क्ष्म­भा­वे­ना­नु­स्यू­त­व्य­क्त्य­वि­ना­भू­त­सा­मा­न्य­व­चना इति मन्तव्यम् । न चेन्द्रा­दि­व्य­क्ते­रे­क­त्वेन जात्य­भा­वा­दा­का­श­श­ब्द­व­दि­न्द्र­च­न्द्रा­दि­शब्दाः केवलव्यक्तिवचना इति साम्प्रतम् । अती­ता­ना­ग­त­व्य­क्ति­भे­देन जात्यु­प­प­त्ते­रि­त्यलं प्रपञ्चेन ।

दृष्टा­न्त­मु­प­सं­हृत्य दार्ष्टा­न्ति­क­माह
व्यक्ति­ष्वि­त्या­दिना ।
आकृतिर्जातिः ।

ननु का सा व्यक्तिः, यद­नु­ग­ते­न्द्र­त्वा­दि­जातिः शब्दार्थः स्यादित्यत आह
आकृ­ति­वि­शे­ष­स्त्विति ।
'वज्र­ह­स्तः­पु­र­न्दरः' इत्यादिभ्य इत्यर्थः ।

इन्द्रा­दि­श­ब्दानां जाति­रि­न्द्रा­दिषु प्रवृ­त्ति­नि­मि­त्त­मि­त्युक्त्वा उपाधिनिमित्तमाह
स्थानेति ।

व्यक्ति­प्र­ल­येऽपि स्थानस्य स्थायि­त्वा­च्छ­ब्दा­र्थ­स­म्ब­न्ध­नि­त्य­ते­त्यत आह
ततश्चेति ।

उक्तं पूर्वापरविरोधं परिहरति
नचेति ।

शब्दो निमि­त्त­मि­त्य­वि­रोधं मत्वा सूत्र­शे­ष­म­व­ता­र­यति
कथं पुनरिति ।
स्मृत्या स्वप्रा­मा­ण्यार्थं मूल­श्रु­ति­र­नु­मी­यत इत्यनुमानं स्मृतिः । 'एते असृ­ग्र­मि­न्द­व­स्तिरः पवित्रमाशवः । विश्वा­न्य­स्या­भि­सौ­भगा' । इत्ये­त­न्म­न्त्रस्थैः पदैः स्मृत्वा ब्रह्मा देवादीनसृजत् । तत्रैत इति पदं सर्व­ना­म­त्वा­द्दे­वानां स्मारकम् । असृग्रुधिरं तत्प्रधाने देहे रमन्त इति असृग्रा मनुष्याः । चन्द्रस्थानां पितृ­णा­मि­न्दु­शब्दः स्मारकः । पवित्रं सोमं स्वान्त­स्ति­र­स्कु­र्वतां ग्रहाणां तिरः पवित्रशब्दः । ऋचोऽश्नुवतां स्तोत्राणां गीति­रू­पा­णा­मा­शु­शब्दः । 'ऋच्य­ध्यूढं साम' इति श्रुतेः । स्तोत्रानन्तरं प्रयोगं विशतां शस्त्राणां विश्वशब्दः । सर्वत्र सौभा­ग्य­यु­क्ता­ना­म­भि­सौ­भ­ग­श­ब्दः­स्मा­रक इति छन्दो­ग­ब्रा­ह्म­ण­वा­क्यार्थः । स प्रजापतिर्मनसा वाचं त्रयीं मिथुनं सम­भ­व­त्म­नो­वा­ग्रूपं मिथुनं सम्भावितवान् । मनसा त्रयीप्रकाशितां सृष्टि­मा­लो­चि­त­वा­नि­त्यर्थः । 'रश्मि­रि­त्ये­वा­दि­त्य­म­सृ­जत' इत्या­दि­श्रु­ति­रा­दि­श­ब्दार्थः । सम्प्रदायो गुरु­शि­ष्य­प­र­म्प­रा­ध्य­य­नम् । संस्था अवस्थाः ।

या प्रजापतिसृष्टिः सा शब्दपूर्विका, सृष्टित्वात् , प्रत्य­क्ष­घ­टा­दि­व­दिति प्रत्य­क्षा­नु­मा­ना­भ्या­मि­त्य­स्या­र्था­न्त­र­माह
अपिचेति ।

अतः प्रभ­व­त्व­प्र­स­ङ्गा­च्छ­ब्द­स्व­रूपं वक्तु­मु­क्त­मा­क्षि­पति
किमात्मकमिति ।
वर्णरूपं तद­ति­रि­क्त­स्फो­ट­रूपं वेति किंशब्दार्थः ।

तत्र वर्णा­ना­म­नि­त्य­त्वा­त्स्फो­टस्य चासत्त्वान्न जग­द्धे­तु­त्व­मि­त्या­क्षेपे द्वितीयपक्षं वैयाकरणो गृह्णाति
स्फोटमिति ।
स्फुट्यते वर्णैर्व्यज्यत इति स्फोटो­व­र्णा­भि­व्य­ङ्ग्योऽ­र्थ­स्तस्य व्यञ्जको गवादिशब्दो नित्य­स्त­म­भि­प्रे­त्ये­द­मु­च्यत इति पूर्वेणान्वयः ।

स एवाद्यपक्षं दूषयति
वर्णेति ।

सोऽयं गकार इति प्रत्यभिज्ञया वर्ण­नि­त्य­त्व­सि­द्धे­र्ना­नु­प­प­त्ति­रि­त्यत आह
उत्पन्नेति ।
तार­त्व­म­न्द्र­त्वा­दि­वि­रु­द्ध­ध­र्म­व­त्त्वेन तारो गकारो मन्द्रो गकार इति प्रती­य­मा­न­ग­का­रस्य भेदा­नु­मा­ना­त्प्र­त्य­भिज्ञा गत्व­जा­ति­वि­ष­ये­त्यर्थः ।

ननु विरु­द्ध­ध­र्म­ज्ञानं ध्वन्युपाधिकं भ्रम इत्यत आह
नचेति ।
तथाच वर्णा­ना­म­नि­त्य­त्वान्न जगद्धेतुत्वमिति भावः ।

किञ्च तेषा­म­र्थ­बो­ध­क­त्वा­यो­गा­त्स्फो­टोऽ­ङ्गी­कार्य इत्याह
नच वर्णेभ्य इत्यादिना ।
व्यभि­चा­रा­दे­क­स्मा­द्व­र्णा­द­र्थ­प्र­ती­त्य­द­र्श­नात् , वर्णा­न्त­र­वै­य­र्थ्य­प्र­स­ङ्गा­च्चे­त्यर्थः ।

तर्हि वर्णानां समुदायो बोधक इत्याशङ्क्य क्षणिकानां स नास्तीत्याह
नचेति ।

वर्णानां स्वतः साहित्याभावेऽपि संस्का­र­ल­क्ष­णा­पू­र्व­द्वारा साहि­त्य­मा­ग्ने­या­दि­या­गा­ना­मि­वेति शङ्कते
पूर्वेति ।

किमयं संस्कारो वर्णै­र्ज­नि­तोऽ­पू­र्वाख्यः कश्चित् , उत वर्णानुभवजनितो भावनाख्यः । नाद्यः, मानाभावात् । किञ्चायमज्ञातो ज्ञातो वार्थधीहेतुः । नाद्य इत्याह
तन्नेति ।
संस्कारसहितः शब्दो ज्ञात एवार्थधीहेतुः, सम्ब­न्ध­ग्र­ह­ण­म­पेक्ष्य बोधकत्वात् , धूमा­दि­व­दि­त्यर्थः ।

द्वितीये किं प्रत्यक्षेण ज्ञात उत कार्यलिङ्गेन । नाद्य इत्याह
नचेति ।

द्वितीयं शङ्कते
कार्येति ।

कार्य­म­र्थ­धी­स्तस्यां जातायां संस्कारप्रत्ययः तस्मिञ्जाते सेति परस्पराश्रयेण दूषयति
नेति ।
पदा­र्थ­स्म­र­ण­स्यापि पद­ज्ञा­ना­न्त­र­भा­वि­त्वा­त्तेन संस्का­र­स­हि­ता­न्त्य­व­र्णा­त्म­क­प­दस्य ज्ञानं न युक्त­मि­त्य­क्ष­रार्थः । अपिशब्दः पर­स्प­रा­श्र­य­द्यो­त­नार्थः । एतेन भावा­ना­सं­स्का­र­प­क्षोऽपि निरस्तः । तस्य वर्ण­स्मृ­ति­मा­त्र­हे­तु­त्वे­ना­र्थ­धी­हे­तु­त्वा­यो­गात् । न चान्त्य­व­र्ण­सा­हि­त्या­द­र्थ­धी­हे­तु­त्वम् , केवलसंस्कारस्य तु वर्ण­स्मृ­ति­हे­तु­त्व­मिति वाच्यम् , अर्थधीपूर्वकाले भावनाया ज्ञाना­भा­वे­ना­र्थ­धी­हे­तु­त्वा­यो­गात् । नच वर्ण­स्म­र­णे­ना­नु­मिता सा अन्त्य­व­र्ण­स­हि­ता­र्थ­धी­हे­तु­रिति वाच्यम् , तत्कार्यस्य क्रमिकस्य वर्ण­स्म­र­ण­स्या­प्य­न्त्य­व­र्णा­नु­भ­वा­न­न्त­र­भा­वि­त्वेन तेना­नु­मि­त­भा­व­ना­ना­म­न्त्य­व­र्ण­सा­हि­त्या­भा­वा­दिति भावः ।

वर्णा­ना­म­र्थ­बो­ध­क­त्वा­स­म्भवे फलमाह
तस्मादिति ।

स्फोटेऽपि किं मान­मि­त्या­श­ङ्क्यैकं पदमिति प्रत्य­क्ष­प्र­मा­ण­मि­त्याह
स चेति ।
यथा रत्नतत्त्वं बहु­भि­श्चा­क्षु­ष­प्र­त्ययैः स्फुटं भासते तथा गवादिपदस्फोटो गका­र­द्ये­कै­क­व­र्ण­कृ­त­प्र­त्ययैः स्फोट­वि­ष­यै­रा­हिताः संस्कारा बीजं यस्मिन् चित्ते तस्मिन् अन्त्य­व­र्ण­कृ­त­प्र­त्य­येन जनितः परिपाकोऽन्त्यः संस्का­रो­य­स्मिं­स्त­स्मि­न्प्र­त्य­यिनि चित्ते एकं गौरितिपदमिति प्रत्ययः प्रत्य­क्ष­स्त­द्वि­ष­य­तया स्पष्टमवभासत इत्यर्थः । अनेन वर्णा­न्व­य­व्य­ति­रे­कयोः स्फोट­ज्ञा­नेऽ­न्य­था­सिद्धिः । नचै­क­स्मा­द्व­र्णा­त्स­म्य­क्स्फो­टा­भि­व्यक्तिः, येन वर्णा­न्त­र­वै­यर्थ्यं किन्तु रत्न­व­द्ब­हु­प्र­त्य­य­सं­स्कृते चित्ते सम्य­क्स्फो­टा­भि­व्य­क्ति­रि­त्युक्तं भवति ।

नन्वेकपदमेकं वाक्यमिति प्रत्ययः पद­वा­क्य­स्फो­ट­योर्न प्रमाणम् , तस्य वर्ण­स­मू­हा­ल­म्ब­न­स्मृ­ति­त्वा­दि­त्या­शङ्क्य निषेधति
न चेति ।

स्फोटस्य जग­द्धे­तु­त्वार्थं नित्यत्वमाह
तस्य चेति ।

ननु तदेवेदं पदमिति प्रत्यभिज्ञा भ्रमः, उदा­त्ता­दि­भे­द­प्र­त्य­या­दि­त्यत आह
भेदेति ।

आचा­र्य­स­म्प्र­दा­यो­क्ति­पू­र्वकं सिद्धान्तयति
वर्णा एवेति ।
वर्णा­ति­रि­क्त­स्फो­टा­त्म­क­श­ब्द­स्या­नु­भ­वा­ना­रो­हा­दि­त्यर्थः ।

सादृश्यदोषादियं भ्रान्तिरिति शङ्कते
सादृश्यादिति ।

वपनानन्तरं त एवेमे केशा इति धीर्भ्रा­न्ति­रिति युक्तम् , भेदधीविरोधात् । स एवायं वर्ण इति धीस्तु प्रमैव, बाध­का­भा­वा­दि­त्याह
नेति ।

गोत्वा­दि­प्र­त्य­भि­ज्ञा­व­द्व­र्णेषु प्रत्यभिज्ञा गवादिविषयेति शङ्कते
प्रत्य­भि­ज्ञा­न­मिति ।

व्यक्तिभेदे सिद्धे प्रत्यभिज्ञाया जातिविषयत्वं स्यात् , यत्त्वया पीतं जलं तदेव मया पीतमित्यादौ । न तथेह व्यक्तिभेदः सिद्ध इति परिहरति
न । व्यक्तीति ।

न त्वेतदिति ।
व्यक्त्य­न्य­त्व­ज्ञा­न­मि­त्यर्थः ।

उदा­त्त­त्वा­दि­वि­रु­द्ध­ध­र्म­त्वा­द्व्य­क्ति­भे­दोऽ­नु­मा­न­सिद्ध इत्यनुवदति
नन्विति ।

भेदप्रत्ययस्य कुम्भ­कू­पा­का­श­भे­द­प्र­त्य­य­व­दौ­पा­धि­क­भे­द­वि­ष­य­त्वा­द­न्य­था­सि­द्धे­र­न­न्य­था­सि­द्ध­व्य­क्त्यै­क्य­प्र­त्य­भि­ज्ञया निर­पे­क्ष­स्व­रू­पा­ल­म्ब­नया बाध इत्युत्तरमाह
अत्रेति ।
ताल्वादिदेशैः कोष्ठ­स्थ­वा­यु­सं­यो­ग­वि­भा­गाभ्यां विचित्राभ्यां व्यङ्ग्य­त्वा­द्व­र्णेषु वैचि­त्र्य­धी­रि­त्यर्थः ।

कल्पनागौरवाच्च वर्णेषु स्वतो भेदो नास्तीत्याह
अपिचेति ।
अनन्ता गका­रा­दि­व्य­क्त­य­स्तासु प्रत्य­भि­ज्ञा­नार्थं गत्वा­दि­जा­त­य­स्तासु चोदा­त्त­त्वा­दि­भे­द­स्यौ­पा­धि­क­त्व­मिति कल्पनाद्वरं वर्ण­व्य­क्ति­भे­द­मा­त्र­स्यौ­पा­धि­क­त्व­क­ल्प­न­मिति व्यक्त्या­न­न्त्यस्य जातीनां च कल्प­न­म­यु­क्त­मि­त्यर्थः ।

ननु भेदस्य बाध­का­भा­वा­न्नौ­पा­धि­क­त्व­मि­त्यत आह
एष इति ।

अस्तु तर्हि प्रत्य­य­द्व­य­प्रा­मा­ण्याय भेदाभेदयोः सत्यत्वम् , तत्राह
कथं हीति ।
उभ­यो­रे­क­त्व­वि­रो­धा­द्भेद औपाधिक एवेत्यर्थः ।

ननु वायु­सं­यो­गा­दे­र­ती­न्द्रि­य­त्वान्न तद्ग­त­वै­चि­त्र्य­स्यो­दा­त्त­त्वा­दे­र्व­र्णेषु प्रत्यक्षारोपः सम्भवतीत्यरुचिं वदि­ष्य­न्स्व­म­त­माह
अथवेति ।
ध्वनिधर्मा उदात्तत्वादयो ध्वन्य­भे­दा­ध्या­सा­द्व­र्णेषु भान्तीत्यर्थः ।

प्रश्नपूर्वकं ध्वनिस्वरूपमाह
क इति ।
अवतरति स ध्वनिरिति शेषः । वर्णातिरिक्तः शब्दो ध्वनिरित्यर्थः ।

समीपं गतस्य पुंस­स्ता­र­त्व­म­न्द­त्वा­दि­ध­र्मा­न्स्व­ग­ता­न्व­र्णेषु स एवारोपयतीत्याह
प्रत्या­सी­द­त­श्चेति ।

आदिपदं विवृणोति
तदिति ।

नन्वव्यक्तवर्ण एव ध्वनि­र्ना­ति­रिक्त इत्यत आह
वर्णानामिति ।
प्रत्युच्चारणं वर्णा अनुवर्तन्ते ध्वनि­र्व्या­व­र्तत इति भेद इत्यर्थः । अन्यथा वाचिके जपे वर्णे­ष्व­व्य­क्तेषु ध्वनिबुद्धिः स्यात् , दुन्दु­भ्या­दि­ध्वनौ शब्दत्वमात्रेण गृह्यमाणे अयमव्यक्तो वर्ण इति धीः स्यादिति मन्तव्यम् ।

एवं ध्वन्यु­पा­धि­कत्वे स्वमते गुणं वद­न्वा­यू­पा­धि­कत्वे पूर्वो­क्ता­म­रुचिं दर्शयति
एवंचेत्यादिना ।

अस्तु को दोषः, तत्राह
संयोगेति ।
वायु­सं­यो­गा­दे­र­श्रा­व­ण­त्वा­दि­त्यर्थः । तस्मा­त्श्रा­व­ण­ध्व­नि­रे­वो­दा­त्त­त्वा­द्या­रो­पो­पा­धि­रिति भावः ।

एवं विरु­द्ध­ध­र्म­क­ध्व­नीनां भेदेऽपि न तेष्वनुगता वर्णा भिद्यन्त इत्युक्तम् । तदेव दृष्टान्तेन द्रढयति
अपिचेति ।
यथा खण्ड­मु­ण्डा­दि­वि­रु­द्धा­ने­क­व्य­क्ति­ष्व­भिन्नं गोत्वं तथा ध्वनिषु वर्णा अभिन्ना एवेत्यर्थः । उदा­त्ता­दि­र्ध्व­नि­स्त­द्भे­देन हेतुना वर्णानामपीति योजना । प्रत्य­भि­ज्ञा­वि­रो­धा­दि­त्य­क्ष­रार्थः ।

यद्वा उदा­त्त­त्वा­दि­भे­द­वि­शि­ष्ट­तया प्रत्य­भि­ज्ञा­य­मा­न­त्वा­द्व­र्णानां भेद इत्याशङ्कां दृष्टान्तेन निरस्यति
अपिचेति ।

वर्णानां स्थायित्वं प्रसाध्य तेषामेव वाचकत्वं वक्तुं स्फोटं विघटयति
वर्णेभ्यश्चेति ।

कल्पनामसहमान आशङ्कते
नेति ।

चक्षुषा दर्पणयुक्तायां बुद्धौ मुखवच्छ्रोत्रेण वर्णयुक्तायां बुद्धौ विनैव हेत्वन्तरं स्फोटः प्रत्यक्ष इत्याह
झटितीति ।
यस्यां संविदि योऽर्थो भासते सा तत्र प्रमाणम् ।

एकपदमिति बुद्धौ वर्णा एव स्फुरन्ति नातिरिक्तस्फोट इति न सा स्फोटे प्रमाणमित्याह
न । अस्या अपीत्यादिना ।

ननु गोपदबुद्धेः स्फोटो विषयो गकारादीनां तु व्यञ्ज­क­त्वा­द­नु­वृ­त्ति­रि­त्यत आह
यदि हीति ।
व्यङ्ग्य­व­ह्नि­बुद्धौ व्यञ्ज­क­धू­मा­नु­वृ­त्ते­र­द­र्श­ना­दि­त्यर्थः ।

वर्ण­स­मू­हा­ल­म्ब­न­त्वो­प­प­त्तेर्न स्फोटः कल्पनीयः, पदा­र्था­न्त­र­क­ल्प­ना­गौ­र­वा­दि­त्याह
तस्मादिति ।

अने­क­स्या­प्यौ­पा­धि­क­मे­कत्वं युक्तमित्याह
सम्भवतीति ।

ननु तत्रै­क­दे­शा­दि­रू­पा­धि­रस्ति, प्रकृते क उपाधिरित्यत आह
या त्विति ।
एकार्थे शक्तमेकं पदम् , प्रधानार्थ एकस्मिन् तात्पर्यवदेकं वाक्य­मि­त्ये­का­र्थ­स­म्ब­न्धा­दे­क­त्वो­प­चार इत्यर्थः । न चैकपदत्वे ज्ञाते एकार्थज्ञानम् , अस्मिंज्ञाते तदि­त्य­न्यो­न्या­श्रय इति वाच्यम् , उत्त­म­वृ­द्धो­क्तानां वर्णानां क्रमे­णा­न्त्य­व­र्ण­श्र­व­णा­न­न्तरं बाल­स्यै­क­स्मृ­त्या­रू­ढानां मध्यमवृद्धस्य प्रवृ­त्त्या­दि­लि­ङ्गा­नु­मि­तै­का­र्थ­धी­हे­तु­त्व­नि­श्चये सत्ये­क­प­द­वा­क्य­त्व­नि­श्च­यात् ।

वर्णसाम्येऽपि पद­भे­द­दृ­ष्टे­र्व­र्णा­ति­रिक्तं पदं स्फोटा­ख्य­म­ङ्गी­का­र्य­मिति शङ्कते
अत्राहेति ।

क्रम­भे­दा­द्व­र्णे­ष्वेव पदभेददृष्टिरिति परिहरति
अत्रेति ।

ननु नित्यविभूनां वर्णानां कथं क्रमः कथं वा पद­त्व­ज्ञा­ने­ना­र्थ­धी­हे­तु­त्वम् , तत्राह
वृद्धेति ।
व्युत्प­त्ति­द­शा­या­मु­च्चा­र­ण­क्र­मे­णो­प­ल­ब्धि­क्र­म­मु­प­ल­भ्य­मा­न­व­र्णे­ष्वा­रो­प्यैते वर्णा एत­त्क्र­मै­त­त्स­ङ्ख्या­वन्त एतदर्थशक्ता इति गृहीताः सन्तः श्रोतुः प्रवृत्तिकाले तथैव स्मृत्यारूढाः स्वस्वार्थं बोधयन्तीत्यर्थः ।

स्थायि­व­र्ण­वा­द­मु­प­सं­ह­रति
वर्णेति ।

दृष्टं वर्णा­ना­म­र्थ­बो­ध­क­त्वम् , अदृष्टः स्फोटः । सम्प्रति वर्णा­ना­म­स्थि­र­त्व­म­ङ्गी­कृत्य प्रौढिवादेन स्फोटं विघटयति
अथापीति ।
स्थिराणि गत्या­दि­सा­मा­न्यानि क्रमविशेषवन्ति गृही­त­स­ङ्ग­ति­का­न्य­र्थ­बो­ध­का­नीति कॢप्तेषु सामान्येषु प्रक्रिया सञ्चारयितव्या न त्वकॢप्तः स्फोटः कल्पनीय इत्यर्थः ।

वर्णानां स्थायि­त्व­वा­च­क­त्वयोः सिद्धौ फलितमाह
ततश्चेति ॥ २८ ॥

पूर्व­त­न्त्र­वृ­त्ता­नु­वा­द­पू­र्वकं सूत्रं व्याचष्टे
कर्तुरित्यादिना ।
पूर्व­त­न्त्र­सि­द्ध­मेव वेदस्य नित्यत्वं देवा­दि­व्य­क्ति­सृष्टौ तद्वा­च­क­श­ब्द­स्यापि सृष्टे­र­सि­द्ध­मि­त्या­शङ्क्य नित्या­कृ­ति­वा­च­का­च्छ­ब्दा­द्व्य­क्ति­ज­न्मोक्त्या साङ्केतिकत्वं निरस्य वेदोऽ­वा­न्त­र­प्र­ल­या­व­स्थायी जाग­द्धे­तु­त्वा­दी­श्व­र­व­दि­त्य­नु­मा­नेन द्रढयतीत्यर्थः । यज्ञेन पूर्वसुकृतेन वाचो वेदस्य लाभयोग्यतां प्राप्ताः सन्तो याज्ञि­का­स्ता­मृ­षिषु स्थितां लब्धवन्त इति मन्त्रार्थः । अनु­वि­न्ना­मु­प­ल­ब्धाम् । पूर्व­म­वा­न्त­र­क­ल्पादौ ॥ २९ ॥

ननु महाप्रलये जाते­र­प्य­स­त्त्वा­च्छ­ब्दा­र्थ­स­म्ब­न्धा­नि­त्य­त्व­मि­त्या­श­ङ्क्याह
समानेति ।

सूत्रनिरस्यां शङ्कामाह
अथापीति ।
व्यक्तिसन्तत्या जाती­ना­म­वा­न्त­र­प्र­लये सत्त्वा­त्स­म्ब­न्ध­स्ति­ष्ठति, व्यव­हा­रा­वि­च्छे­दा­ज्ज्ञा­यते चेति वेद­स्या­न­पे­क्ष­त्वेन प्रामाण्ये न कश्चिद्विरोधः स्यात् । निर्लेपलये तु सम्ब­न्ध­ना­शा­त्पुनः सृष्टौ केनचित्पुंसा सङ्केतः कर्तव्य इति पुरु­ष­बु­द्धि­सा­पे­क्ष­त्वेन वेद­स्या­प्रा­मा­ण्यम् , अध्या­प­क­स्या­श्र­यस्य नाशादाश्रितस्य तस्यानित्यत्वं च प्राप्त­मि­त्यर्थः । महाप्रलयेऽपि निर्ले­प­ल­योऽ­सिद्धः, सत्कार्यवादात् । तथाच संस्कारात्मना शब्दा­र्थ­त­त्स­म्ब­न्धानां सतामेव पुनः सृष्टा­व­भि­व्य­क्ते­र्ना­नि­त्य­त्वम् । अभिव्यक्तानां पूर्व­क­ल्पी­य­ना­म­रू­प­स­मा­न­त्वान्न सङ्केतः केनचित्कार्यः ।

विषमसृष्टौ हि सङ्केतापेक्षा न तुल्यसृष्टाविति परिहरति
तत्रे­द­मि­त्या­दिना ।

नन्वाद्यसृष्टौ सङ्केतः केनचित्कार्य इत्यत आह
तदापीति ।
महा­स­र्ग­प्र­ल­य­प्र­वृ­त्ता­व­पी­त्यर्थः ।

नन्व­स्त्व­ना­दि­सं­सारे सम्ब­न्ध­स्या­ना­दित्वं तथापि महा­प्र­ल­य­व्य­व­धा­ना­द­स्म­रणे कथं वेदा­र्थ­व्य­व­हारः, तत्राह
अनादौ चेति ।
न कश्चिद्विरोधः, शब्दा­र्थ­स­म्ब­न्ध­स्म­र­णा­दे­रिति शेषः ।

स्वाप­प्र­बो­ध­यो­र्ल­य­स­र्गा­सि­द्धि­मा­शङ्क्य श्रुतिमाह
स्वापेति ।
अथ तदा सुषुप्तौ प्राणे परमात्मनि जीव एकीभवति एनं प्राणं स जीवः तदैतीति शेषः । एत­स्मा­त्प्रा­णा­त्मनः । आयतनं गोलकम् । आनन्तर्ये पञ्चमी प्राणेभ्य इत्याद्या द्रष्टव्या । स्वप्न­व­त्क­ल्पि­त­स्या­ज्ञा­त­स­त्त्वा­भा­वात् दर्शनं सृष्टिः अदर्शनं लय इति दृष्टि­सृ­ष्टि­पक्षः श्रुत्यभिप्रेत इति भावः ।

दृष्टा­न्त­वै­ष­म्य­मा­शङ्क्य परिहरति
स्यादित्यादिना ।
अवि­रु­द्ध­म­नु­स­न्धा­ना­दि­क­मिति शेषः ।

हिरण्यगर्भादयः पूर्व­क­ल्पा­नु­स­न्धा­न­शून्यः । संसारित्वात् , अस्मा­दा­दि­वा­दि­त्या­श­ङ्क्याह
यद्यपीति ।
इति यद्यपि तथापि न प्राकृतवदिति योजना ।

ज्ञाना­दे­र्नि­क­र्ष­व­दु­त्क­र्षोऽ­प्य­ङ्गी­कार्यः, बाधाभावादिति न्याया­नु­गृ­ही­त­श्रु­त्या­दिभिः सामान्यतो दृष्टानुमानं बाध्यमित्याह
यथा हीत्यादिना ।

ननु तथापि पूर्व­क­ल्पे­श्व­राणां मुक्त­त्वा­द­स्मि­न्कल्पे कोऽनु­स­न्धा­ते­त्यत आह
ततश्चेति ।
ज्ञाना­द्यु­त्क­र्षा­दि­त्यर्थः । मुक्ते­भ्योऽ­न्येऽ­नु­स­न्धा­तार इति भावः ।

पर­मे­श्व­रा­नु­गृ­ही­तानां ज्ञानातिशये पूर्वो­क्त­श्रु­ति­स्मृ­ति­वा­दा­नाह
तथा चेति ।
पूर्वं कल्पादौ सृजति तस्मै ब्रह्मणे प्रहिणोति गमयति तस्य बुद्धौ वेदा­ना­वि­र्भा­व­यति यस्तं देवं स्वात्माकारं महा­वा­क्यो­त्थ­बुद्धौ प्रकाशमानं शरणं परममभयस्थानं निःश्रेयसरूपमहं प्रपद्य इत्यर्थः ।

न केवलमेकस्यैव ज्ञानातिशयः किन्तु बहूनां शाखा­द्र­ष्टृ­णा­मिति विश्वासार्थमाह
स्मरन्तीति ।

ऋग्वेदो दश­म­ण्ड­ला­व­य­वा­स्तत्र भवा ऋचो दाशतम्यः । वेदान्तरेऽपि काण्ड­सू­क्त­म­न्त्राणां द्रष्टारो बौधायनादिभिः स्मृता इत्याह
प्रतीति ।

किञ्च मन्त्रा­णा­मृ­ष्या­दि­ज्ञा­ना­व­श्य­क­त्व­ज्ञा­पिका श्रुति­र्म­न्त्र­दृ­गृ­षीणां ज्ञानातिशयं दर्शयतीत्याह
श्रुतिरपीति ।
आर्षेय ऋषियोगः, छन्दो गायत्र्यादि, दैवतमग्न्यादि, ब्राह्मणं विनियोगः, एतान्यविदितानि यस्मिन्मन्त्रे तेनेत्यर्थः । स्थाणुं स्थावरम् , गर्तं नरकम् । तथाच ज्ञानाधिकैः कल्पान्तरितं वेदं स्मृत्वा व्यवहारस्य प्रव­र्ति­त­त्वा­द्वे­द­स्या­ना­दि­त्व­म­न­पे­क्षत्वं चाविरूद्धमिति भावः ।

अधुना समाननामरूपत्वं प्रपञ्चयति
प्राणिनां चेति ।

ततः किम् , तत्राह
दृष्टेति ।
ऐहि­का­मु­ष्मि­क­वि­ष­य­सु­ख­रा­ग­कृ­त­ध­र्मस्य फलं पश्वादिकं दृष्ट­प­श्वा­दि­स­दृ­श­मिति युक्तम् , विसदृशे कामाभावेन हेत्वभावात् । तथा दृष्ट­दुः­ख­द्वे­ष­कृ­ता­ध­र्म­फलं दृष्ट­स­दृ­श­दुः­ख­मेव न सुखम् , कृत­हा­न्या­दि­दो­षा­प­त्ते­रि­त्यर्थः ।

तर्कितेऽर्थे मानमाह
स्मृतिश्चेति ।
उत्तरसृष्टिः पूर्व­सृ­ष्टि­स­जा­तीया, कर्मफलत्वात् , पूर्व­सृ­ष्टि­व­दि­त्य­नु­मानं चशब्दार्थः ।

तेषां प्राणिनां मध्ये तान्येव तज्जातीयान्येव । तानि दर्शयन् तत्प्राप्तौ हेतुमाह
हिंस्रेति ।
कर्माणि विहि­त­नि­षि­द्ध­त्वा­का­रे­णा­पू­र्वम् , क्रियात्वेन संस्कारं च जनयन्ति । तत्रा­पू­र्वा­त्फलं भुङ्क्ते, संस्का­र­भा­वि­त­त्वा­त्पु­न­स्त­ज्जा­ती­यानि करोतीत्यर्थः ।

संस्कारे लिङ्गमाह
तस्मादिति ।
संस्कारवशादेव पुण्यं पापं वा रोचते । अतोऽ­भि­रु­चि­लि­ङ्गा­त्पु­ण्या­पु­ण्य­सं­स्का­रोऽ­नु­मेयः । स एव स्वभावः प्रकृ­ति­र्वा­स­नेति च गीयते ।

एवं कर्मणां सृष्टि­सा­दृ­श्य­मुक्त्वा स्वोपादाने लीन­का­र्य­सं­स्का­र­रू­प­श­क्ति­ब­ला­दपि सादृश्यमाह
प्रलीयमानमिति ।
इतरथा निःसं­स्का­र­प्र­लये जग­द्वै­चि­त्र्य­स्या­क­स्मि­कत्वं स्यादित्यर्थः ।

ननु जग­द्वै­चि­त्र्य­का­रि­ण्योऽन्याः शक्तयः कल्प्यन्ताम् , तत्राह
नचेति ।
अविद्यायां लीन­का­र्या­त्म­क­सं­स्का­रा­दन्याः शक्तयो न कल्प्याः मना­भा­वा­द्गौ­र­वाच्च । स्वोपादाने लीनकार्यरूपा शक्तिस्तु 'महा­न्न्य­ग्रो­ध­स्ति­ष्ठति' 'श्रद्धत्स्व सोम्य' इति­श्रु­ति­सिद्धा, अतोऽ­वि­द्या­त­त्का­र्या­दन्याः शक्तयो न सन्ति आत्माविद्यैव तच्छक्तिरिति सिद्धान्त इत्यर्थः । निमि­त्ते­ष्व­प्यु­पा­द­नस्थं कार्य­मे­वा­वि­द्या­घ­ट­नया शक्तिरन्या वेत्यनाग्रहः ।

उपादाने कार्य­सं­स्का­र­सिद्धेः फलमाह
ततश्चेति ।
यथा सुप्तोत्थितस्य पूर्व­च­क्षु­र्जा­ती­य­मेव चक्षुर्जायते तच्च पूर्व­रू­प­जा­ती­य­मेव रूपं गृह्णाति न रसादिकम् , एवं भोग्या लोका भोगाश्रयाः प्राणिनिकाया भोगहेतुकर्माणि संस्का­र­ब­ला­त्पू­र्व­लो­का­दि­तु­ल्या­न्ये­वेति नियम इत्यर्थः । निकायाः समूहाः ।

दृष्टा­न्ता­सि­द्धि­मा­श­ङ्क्य­माह
न हीति ।
यथा षष्ठेन्द्रियस्य मन­सोऽ­सा­धा­र­ण­वि­षयो नास्ति, सुखादेः साक्षि­वे­द्य­त्वात् , तथा व्यव­हा­रा­न्य­था­त्व­म­स­दि­त्यर्थः । षष्ठमिन्द्रियं तद्वि­ष­य­श्चा­स­न्निति वार्थः ।

उक्तार्थं सङ्क्षिपति
अतश्चेति ।
व्यव­हा­र­सा­म्या­त्स­म्भ­वाच्च व्यवह्रियमाणा व्यक्तयः समाना एवेत्यर्थः ।

सूत्रे योजयति
समानेत्यादिना ।
भाविदृष्ट्या यजमानोऽग्निः अन्ना­दोऽ­र­ग्नि­रहं स्यामिति कामयित्वा कृत्ति­का­न­क्ष­त्रा­भि­मा­नि­दे­वा­या­ग्नये अष्टसु कपालेषु पचनीयं हवि­र्नि­रु­प्त­वा­नि­त्यर्थः । नक्ष­त्र­व्य­क्ति­ब­हु­त्वा­द्ब­हु­व­च­नम् । [ननु यज­मा­नोऽ­ग्नि­र्भावी उद्देश्याग्निना समाननामरूपः कल्पान्तरे भवति । एवं 'रुद्रो वा अकामयत' 'विष्णुर्वा अकामयत' इत्यत्रापि तथा वक्तव्यम् , तदयुक्तम् । न ह्यग्नेरिव विष्णु­रु­द्र­यो­र­धि­का­रि­पु­रु­ष­त्वम् , तयो­र्ज­ग­त्का­र­ण­त्व­श्र­व­णात् । 'एक एव रुद्रो न' इति । 'एको विष्णुः' इत्यादि श्रुति­स्मृ­ति­वि­रो­धा­दिति । ] स्मृतौ वेदेष्विति विषयसप्तमी । शर्वर्यन्ते प्रलयान्ते । ऋतूनां वसन्तादीनां लिङ्गानि नवपल्लवादिनि । पर्यये घटी­य­न्त्र­व­दा­वृत्तौ । भावाः पदार्थाः तुल्या इति शेषः । तस्मा­ज्ज­न्म­ना­श­व­द्वि­ग्र­हा­ङ्गी­का­रेऽपि कर्मणि शब्दे च विरो­धा­भा­वा­द्दे­वा­ना­मस्ति विद्याधिकार इति स्थितम् ॥ ३० ॥

आक्षिपति
मध्वादिष्विति ।
ब्रह्मविद्या देवा­दी­न्ना­धि­क­रोति, विद्यात्वात् , मध्वा­दि­वि­द्या­व­दि­त्यर्थः ।

दृष्टान्तं विवृणोति
कथमित्यादिना ।

द्युलो­का­ख्य­वं­श­दण्डे अन्तरिक्षरूपे मध्वपूपे स्थित आदित्यो देवानां मोदनान्मध्विव मध्वित्यारोप्य ध्यानं कार्यम् । तत्रा­दि­त्य­स्या­धि­कारो न युक्तः, ध्यातृ­ध्ये­य­भे­दा­भा­वा­दि­त्याह
देवादिष्विति ।

अस्तु वस्वादीनां तत्राधिकार इत्याशङ्क्य तेषामपि तत्र ध्येय­त्वा­त्प्रा­प्य­त्वाच्च न ध्यातृ­त्व­मि­त्याह
पुनश्चेति ।
चतु­र्वे­दो­क्त­क­र्माणि प्रणवश्चेति पञ्च कुसुमानि, तेभ्यः सोमा­ज्या­दि­द्र­व्याणि हुतानि लोहि­त­शु­क्ल­कृ­ष्ण­परः कृष्ण­गो­प्या­ख्यानि पञ्चामृतानि तत्त­न्म­न्त्र­भागैः प्रागा­द्यू­र्ध्वा­न्त­र­प­ञ्च­दि­ग­व­स्थि­ता­भि­रा­दि­त्य­र­श्मि­ना­डी­भि­र्म­ध्व­पू­प­स्थि­त­च्छि­द्र­रू­पा­भि­रा­दि­त्य­म­ण्ड­ल­मा­नी­तानि यशस्तेज इन्द्रि­य­वी­र्या­न्ना­त्मना परिणतानि पञ्चदिक्षु स्थितै­र्व­स्वा­दि­भि­रू­प­जी­व्या­नीति ध्यायतो वस्वा­दि­प्रा­प्ति­रु­क्ते­त्यर्थः ।

सूत्र­स्था­दि­प­दा­र्थ­माह
तथाग्निरिति ।

आका­श­ब्र­ह्म­ण­श्च­त्वारः पादाः, द्वौ कर्णौ, द्वे नेत्रे, द्वे नासिके, एका वागिति सप्त­स्वि­न्द्रि­येषु शिर­श्च­म­स­ती­र­स्थेषु सप्तर्षिध्यानं कार्यमित्याह
तथेमावेवेति ।
अथ दक्षिणः कर्णः गौतमः, वामो भारद्वाजः, एवं दक्षि­ण­ने­त्र­ना­सिके विश्वा­मि­त्र­व­सिष्ठौ, वामे जमदग्निकश्यपौ, वाग­त्रि­रि­त्यर्थः । अत्र ऋषीणां ध्येय­त्वा­न्ना­धि­कारः ॥ ३१ ॥

किञ्च विग्र­हा­भा­वा­द्दे­वा­दीनां न क्वाप्यधिकार इत्याह
ज्योतिषि भावाच्चेति ।
आदित्यः सूर्यश्चन्द्रः शुक्रोऽङ्गारक इत्यादिशब्दानां ज्योतिःपिण्डेषु प्रयोगस्य भावा­त्स­त्त्वान्न विग्रहवान्देवः कश्चि­द­स्ती­त्यर्थः ।

'आदित्यः पुरस्तादुदेता पश्चा­द­स्त­मेता' इति मधु­वि­द्या­वा­क्य­शेषे ज्योति­ष्ये­वा­दि­त्य­शब्दः प्रसिद्धः । तर्हि ज्योतिः­पि­ण्डा­ना­मे­वा­धि­का­रोऽस्तु, तत्राह
न चेति ।

अग्न्या­दी­ना­म­धि­का­र­मा­श­ङ्क्याह
एतेनेति ।
अग्नि­र्वा­यु­र्भू­मि­रि­त्या­दि­श­ब्दा­ना­म­चे­त­न­वा­चि­त्वे­ने­त्यर्थः ।

सिद्धान्ती शङ्कते
स्यादे­त­दि­त्या­दिना ।
'वज्रहस्तः पुरन्दरः' इत्यादयो मन्त्राः । 'सोऽरो­दीत्' इत्या­द­योऽ­र्थ­वादाः । 'इष्टा­न्भो­गान्हि वो देवा दास्यन्ते यज्ञ­भा­विताः' । 'ते तृप्ता­स्त­र्प­य­न्त्येनं सर्वकामफलैः शुभैः' । इत्या­दी­ति­हा­स­पु­रा­णानि । लोकेऽपि यमं दण्डहस्तं लिखन्ति, इन्द्रं वज्रहस्तमिति विग्र­हा­दि­प­ञ्च­क­स­द्भा­वा­द­न­धि­का­र­दोषो नास्तीत्यर्थः । 'विग्रहो हविषां भोग ऐश्वर्यं च प्रसन्नता । फल­प्र­दा­न­मि­त्ये­त­त्प­ञ्चकं विग्रहादिकम् ' ॥

माना­भा­वा­दे­त­न्ना­स्तीति दूषयति
नेत्यादिना ।

न चात्रेति ।
विग्र­हा­दा­वि­त्यर्थः ।

आर्थवादा मन्त्रा वा मूल­मि­त्या­श­ङ्क्याह
अर्थवादा इत्यादिना ।
व्रीह्या­दि­व­द्प्र­यो­ग­वि­धि­गृ­हीता मन्त्राः प्रयो­ग­स­म्ब­न्द्धा­भि­धा­नार्था नाज्ञा­त­वि­ग्र­हा­दि­परा इति मीमांसका आचक्षत इत्यर्थः । तस्मात् विग्र­हा­भा­वा­दि­त्यर्थः ॥ ३२ ॥

सूत्राभ्यां प्राप्तं पूर्वपक्षं निरस्यति
तुशब्द इत्यादिना ।

ब्रह्मविद्या देवा­दी­न्ना­धि­क­रोति, विद्यात्वात् , मध्वा­दि­वि­द्या­व­दिति उक्त­हे­तु­र­प्र­यो­जक इत्याह
यद्यपीति ।

दर्शादिकम् , न ब्राह्म­ण­म­धि­क­रोति, कर्मत्वात् , राजसूयादिवदिति आभाससाम्यं विद्या­त्व­हे­तो­राह
नचेति ।
यत्र यस्याधिकारः सम्भवति स तत्राधिकारीति न्यायस्तुल्य इत्यर्थः । यतः सर्वेषां सर्वत्राधिकारो न सम्भवति ततो न चापो­द्ये­ते­त्य­न्वयः । तद्ब्रह्म यो यो देवादीनां मध्ये प्रत्य­क्त्वे­ना­बु­ध्यत स तद्ब्र­ह्मा­भ­व­दि­त्यर्थः । ते ह देवा ऊचुरन्योन्यम् , तत इन्द्रविरोचनौ सुरासुरराजौ प्रजापतिं ब्रह्म­वि­द्या­प्रदं जग्मतुरिति च लिङ्ग­म­स्ती­त्यर्थः ।

किमत्र ब्रह्मामृतमिति गन्धर्वप्रश्ने याज्ञवल्क्य उवाच तमिति मोक्षधर्मेषु श्रुतं देवा­दी­ना­म­धि­का­र­लि­ङ्ग­मि­त्याह
स्मार्तमिति ।

यथा बालानां गोलकेषु चक्षु­रा­दि­प­द­प्र­यो­गेऽपि शास्त्र­ज्ञै­र्गो­ल­का­ति­रि­क्ते­न्द्रि­याणि स्वीक्रियन्ते, यथा ज्योतिरादौ सूर्या­दि­श­ब्द­प्र­यो­गेऽपि विग्रहवद्देवता स्वीकार्या इत्याह
ज्योतिरादीति ।
तथा चेतनत्वेन व्यव­हा­रा­दि­त्यर्थः ।

एकस्य जड­चे­त­नो­भ­य­रू­पत्वं कथम् , तत्राह
अस्तिहीति ।

तथाहि विग्रहवत्तया देव­व्य­व­हा­रः­श्रू­यते । सुब्रह्मण्य उद्गातृगणस्थ ऋत्वि­क्त­त्स­म्बन्धी योऽर्थवादः इन्द्र, अगच्छऽइत्यादिः । तत्र मेधातिथेर्मेष, इती­न्द्र­स­म्बो­धनं श्रुतम् , तद्व्याचष्टे
मेधेति ।
मुनिं मेषो भूत्वा जहारेति ज्ञापनार्थं मेष, इती­न्द्र­स­म्बो­ध­न­मि­त्यर्थः ।

यदु­क्त­मा­दि­त्या­दयो मृदादिवदचेतना एवेति, तन्न, सर्वत्र जड­ज­डां­श­द्व­य­स­त्त्वा­दि­त्याह
मृदिति ।

आदित्यादौ को जडभागः कश्चेतनांश इति, तत्राह
ज्योति­रा­दे­स्त्विति ।

मन्त्रादिकं पदशक्त्या भासमानविग्रहादौ स्वार्थे न प्रमाणम् , अन्यपरत्वात् , विषं भुङ्क्ष्वेति वाक्यवदित्याह
यदपीति ।

अन्यपरादपि वाक्या­द्बा­धा­भावे स्वार्थो ग्राह्य इत्याह
अत्र ब्रूम इति ।

तात्प­र्य­शू­न्येऽ­प्यर्थे प्रत्य­य­मा­त्रे­णा­स्ति­त्व­मु­दा­ह­रति
तथाहीति ।

तृणादौ प्रत्ययोऽस्ति विग्रहादौ स नास्तीति वैषम्यं शङ्कते
अत्राहेति ।
विध्युद्देशो विधिवाक्यम् , तदेकवाक्यतया प्रशस्तो विधि­रि­त्ये­वा­र्थ­वा­देषु प्रत्ययः । वृत्तान्तो भूतार्थः । विग्रहादिः तद्विषयः प्रत्ययो नास्तीत्यर्थः ।

नन्व­वा­न्त­र­वा­क्येन विग्र­हा­दि­प्र­त्य­योऽ­स्त्वि­त्यत आह
नहीति ।
सुरा­पा­न­प्र­त्य­योऽपि स्यादिति भावः ।

पदै­क­वा­क्य­त्व­वा­क्यै­क­वा­क्य­त्व­वै­ष­म्या­न्मै­व­मि­त्याह
अत्रोच्यत इति ।
नञ्पदमेकं यदा सुरां पिबेदिति पदाभ्यामन्वेति तदा पदै­क­वा­क्य­मे­क­मे­वा­र्था­नु­भवं करोति नतु पदद्वयं पृथक्सुरापानं बोधयति, तस्य विधौ निषे­धा­नु­प­प­त्ते­र्वा­क्या­र्था­नु­भवं प्रत्य­द्वा­र­त्वात् । अर्थवादस्तु भूतार्थसंसर्गं स्तुतिद्वारं बोधयन्विधिना वाक्यैकवाक्यतां भजत इत्यस्ति विग्रहाद्यनुभव इत्यर्थः ।

नन्व­र्थ­वा­द­स्थ­प­दा­ना­म­वा­न्त­र­सं­स­र्ग­बो­ध­कत्वं विना साक्षादेव विध्यन्वयोऽस्तु तत्राह
यथा हीति ।

साक्षा­द­न्व­या­योगं दर्शयति
न हीति ।

अर्थ­वा­दा­त्स­र्वत्र स्वार्थ­ग्र­ह­ण­मा­श­ङ्क्या­र्थ­वा­दा­न्वि­भ­जते
तद्यत्रेति ।
तत्त­त्रा­र्थ­वा­देषु यत्र 'अग्नि­र्हि­मस्य भेषजम्' इत्या­दा­वि­त्यर्थः । 'आदित्यो यूपः' इत्यभेदो बाधित इति तेज­स्वि­त्वा­दि­गु­ण­वादः । यत्र 'वज्रहस्तः पुरन्दरः' इत्यादौ माना­न्त­र­सं­वा­द­वि­सं­वादौ न स्तस्तत्र भूतार्थवाद इत्यर्थः । इति विमृ­श्ये­त्य­ध्या­हारः ।

विग्रहार्थवादः स्वार्थेऽपि तात्पर्यवान्, अन्यपरत्वे सत्य­ज्ञा­ता­बा­धि­ता­र्थ­क­श­ब्द­त्वात् , प्रया­जा­दि­वा­क्य­व­दिति न्यायं मन्त्रे­ष्व­ति­दि­शति
एतेनेति ।
वेदा­न्ता­नु­वा­द­गु­ण­वा­दानां निरासाय हेतौ पदानि । न चोभयपरत्वे वाक्यभेदः, अवान्तरार्थस्य महा­वा­क्या­र्थ­त्वा­दिति भावः ।

विध्य­नु­प­प­त्त्यापि स्वर्ग­व­द्दे­व­ता­वि­ग्र­होऽ­ङ्गी­कार्य इत्याह
अपिचेति ।

ननु क्लेशात्मके कर्मणि विधिः फलं विनानुपपन्न इति भवतु 'यन्न दुःखेन सम्भि­न्नम्' इत्य­र्थ­वा­द­सिद्धः स्वर्गो विधिप्रमाणकः । विग्रहं विना विधेः कानुपपत्तिः, तामाह
न हीति ।

उद्दिश्य त्यागा­नु­प­पत्त्या चेत­स्या­रो­होऽ­ङ्गी­कार्य इत्यत्र श्रुतिमप्याह
यस्या इति ।
अत­श्चे­त­स्या­रो­हार्थं विग्रह एष्टव्यः । किञ्च कर्म­प्र­क­र­ण­पा­ठा­द्वि­ग्र­ह­प्र­मितिः प्रया­ज­व­त्क­र्मा­ङ्ग­त्वे­ना­ङ्गी­कार्या, तां विना कर्मा­पू­र्वा­सिद्धेः ।

किञ्च सुप्र­स­न्न­वि­ग्र­ह­व­द्दे­वतां त्यक्त्वा शब्दमात्रं देवतेति भक्ति­र­यु­क्ते­त्याह
नच शब्देति ।

न चाकृतिमात्रं शब्दशक्यमस्तु किं विग्रहेणेति वाच्यम् , निर्व्य­क्त्या­कृ­त्य­यो­गात् । अतः शब्द­स्या­र्था­का­ङ्क्षायां मन्त्रा­दि­प्र­मि­त­वि­ग्र­होऽ­ङ्गी­कार्य इत्याह
तत्रेति ।

एवं मन्त्रा­र्थ­वा­द­मू­ल­क­मि­ति­हा­सा­दि­क­मपि विग्रहे मानमित्याह
इतिहासेति ।
प्रमाणत्वेन सम्भवदित्यर्थः ।

व्यासादीनां योगिनां देव­ता­दि­प्र­त्य­क्ष­म­पी­ति­हा­सा­दे­र्मू­ल­मि­त्याह
प्रत्यक्षेति ।

व्यासादयो देवा­दि­प्र­त्य­क्ष­शून्याः, प्राणित्वात् , अस्म­द्व­दि­त्य­नु­मा­न­म­ति­प्र­स­ङ्गेन दूषयति
यस्त्वित्यादिना ।
सर्वं घटाभिन्नम् , वस्तुत्वात् , घटवदिति जगद्वैचित्र्यं नास्तीत्यपि स ब्रूयात् । तथा क्षत्रियाभावं वर्णाश्रमाभावं वर्णा­श्र­मा­द्य­व्य­वस्थां च ब्रूयात् , निर­ङ्कु­श­बु­द्धि­त्वात् । तथाच राज­सू­या­दि­शा­स्त्रस्य कृता­दि­यु­ग­ध­र्म­व्य­व­स्था­शा­स्त्रस्य बाध इत्यर्थः ।

योग­सू­त्रा­र्था­दपि देवा­दि­प्र­त्य­क्ष­सि­द्धि­रि­त्याह
अपिचेति ।
मन्त्र­ज­पा­द्दे­व­ता­सां­निध्यं तत्सम्भाषणं चेति सूत्रार्थः ।

योगमाहात्म्यस्य श्रुति­स्मृ­ति­सि­द्ध­त्वा­द्यो­गि­ना­मस्ति देवा­दि­प्र­त्य­क्ष­मि­त्याह
योग इति ।
पाद­त­ला­दा­जा­नो­र्जा­नो­रा­ना­भे­र्ना­भे­रा­ग्रीवं ग्रीवा­या­श्चा­के­श­प्र­रोहं तत­श्च­ब्र­ह्म­रन्ध्रं पृथि­व्या­दि­प­ञ्चके समुत्थिते धारणया जिते योगगुणे चाणिमादिके प्रवृत्ते योगाभिव्यक्तं तेजोमयं शरीरं प्राप्तस्य योगिनो न रोगादिस्पर्श इत्यर्थः ।

चित्र­का­रा­दि­प्र­सि­द्धि­रपि विग्रहे मानमित्याह
लोकेति ।

अधि­क­र­णा­र्थ­मु­प­सं­ह­रति
तस्मादिति ।

चिन्तायाः फलमाह
क्रमेति ।
एवमेव देवादीनां ब्रह्म­वि­द्या­धि­कारे सत्येव देव­त्व­प्रा­प्ति­द्वारा क्रम­मु­क्ति­फ­ला­न्यु­पा­स­नानि युज्यन्ते । देवानामनधिकारे ज्ञाना­भा­वा­त्क्र­म­मु­क्त्य­र्थि­ना­मु­पा­स­नेषु प्रवृत्तिर्न स्यात् , अतोऽ­धि­का­र­नि­र्ण­या­त्प्र­वृ­त्ति­सि­द्धि­रिति भावः ॥ ३३ ॥