भाष्यरत्नप्रभाव्याख्या
आनुमानिकाधिकरणम्
तत्किं प्रधानपरं पूर्वोक्तशरीरपरं वेति स्मृतिप्रकरणाभ्यां संशये पूर्वमप्रसिद्धब्रह्मपरत्वं यथा षष्ठाध्यायस्य दर्शितं तद्वदव्यक्तपदमप्रसिद्धप्रधानपरमिति पूर्वपक्षयति
आनुमानिकमिति ।
अपिशब्दाद्ब्रह्माङ्गीकारेणायमशब्दत्वाक्षेप इति सूचयति । तथा च ब्रह्मप्रधानयोर्विकल्पेन कारणत्वात् ब्रह्मण्येव वेदान्तानां समन्वय इति नियमासिद्धिः फलम् , सिद्धान्ते नियमसिद्धिरिति विवेकः । पदविचारत्वादधिकरणानामेतत्पादसङ्गतिर्बोध्या ।
स्मार्तक्रमरूढिभ्यामव्यक्तशब्दः प्रधानपरः शब्दस्पर्शादिशून्यत्वेन योगसम्भवाच्चेत्याह
शब्दादीति ।
प्रधानस्य वैदिकशब्दवाच्यत्वे का क्षतिरित्यत आह
तदेवेति ।
'अजामेकाम्' इत्याद्या श्रुतिः । 'हेतुः प्रकृतिरुच्यते' इत्याद्या स्मृतिः । 'यदल्पं तज्जडप्रकृतिकम्' इति न्यायः । ततो ब्रह्मैव कारणमिति मतक्षतिरिति भावः ।
सूत्रे नञर्थं वदन्सिद्धान्तयति
नैतदिति ।
प्रधानं वैदिकं नेत्यत्र तात्पर्याभावं हेतुमाह
नहीति ।
ननु प्रधानस्यात्र प्रत्यभिज्ञानाद्वैदिकत्वमित्यत आह
न ह्यत्रेति ।
ननु शब्दप्रत्यभिज्ञायामर्थोऽपि प्रत्यभिज्ञायत इत्याशङ्क्य यौगिकाच्छब्दादसति नियामके नार्थविशेषधीरित्याह
स चेति ।
रूढ्या तद्धीरित्याशङ्क्य रूढिः किं लौकिकी स्मार्ता वा । नाद्य इत्याह
न चेति ।
द्वितीयंप्रत्याह
या त्विति ।
पुरुषसङ्केतो नानादिवेदार्थनिर्णयहेतुः, पुंमतेर्विचित्रत्वादित्यर्थः ।
यत्तु स्मार्तक्रमप्रत्यभिज्ञया क्रमिकार्थः स्मार्त एवेति, तत्राह
नच क्रमेति ।
स्थानात्तद्रूपप्रत्यभिज्ञानाशङ्कायामसतीत्यन्वयान्नञो व्यत्यासेनातद्रूपस्य तद्रूपविरुद्धस्य प्रत्यभिज्ञाने सतीत्यर्थः ।
पूर्वज्ञातरूपार्थस्य स्थाने तद्विरुद्धार्थज्ञाने सति तस्य धीर्नास्तीत्यत्र दृष्टान्तमाह
न हीति ।
प्रकृते नास्ति विरुद्धज्ञानमित्याशङ्क्य प्रकरणाच्छरीरज्ञानमस्तीत्याह
प्रकरणेति ।
शरीरमेव रूपकेण रथसादृश्येन विन्यस्तं शरीररूपकविन्यस्तम् , तस्य पूर्ववाक्ये आत्मबुद्ध्योर्मध्यस्थानपठितस्यात्रापि मध्यस्थेनाव्यक्तशब्देन ग्रहणान्न प्रधानस्य वैदिकत्वमिति सूत्रार्थः ।
स्मार्तक्रमः किमिति त्यक्तव्य इत्याशङ्क्य श्रौतक्रमस्य प्रकरणाद्यनुग्रहेण बलवत्त्वादित्याह
कुत इत्यादिना ।
तदुभयं विवृणोति
तथा हीति ।
रूपककॢप्तिः सादृश्यकल्पना । प्रग्रहोऽश्वरशना । यदा बुद्धिसारथिर्विवेकी तदा मनसेन्द्रियहयान्विषमविषयमार्गादाकर्षति । यद्यविवेकी तदा मनोरशनाबद्धांस्तान् प्रवर्तयतीति मनसः प्रग्रहत्वं युक्तम् । तेषु हयेषु । गोचरान्मार्गान् ।
ननु स्वतश्चिदात्मनो भोगसम्भवात्किं रथादिनेत्यत आह
आत्मेति ।
आत्मा देहः, देहादिसङ्ककल्पनया भोक्तृत्वं न स्वतोऽसङ्गत्वादित्यर्थः ।
अधुना रथादिभिर्गन्तव्यं वदन्नाकाङ्क्षापूर्वकमुत्तरवाक्यमाह
तैश्चेत्यादिना ।
शरीरस्य प्रकृतत्वेऽप्यव्यक्तपदेन प्रधानं गृह्यतामित्यत आह
तत्र य एवेति ।
एवं प्रकरणं शोधयित्वा शरीरस्य परिशेषतामानयति
तत्रेन्द्रियेत्यादिना ।
अर्थानां पूर्वमनुक्तिशङ्कां वारयन् परत्वमुपपादयति
अर्था इति ।
गृह्णन्ति पुरुषपशुं बध्नन्तीति ग्रहा इन्द्रियाणि । तेषां ग्रहत्वं विषयाधीनम् । असति विषये तेषामकिञ्चित्करत्वात् । ततो ग्रहेभ्यः श्रेष्ठा अतिग्रहा विषया इति बृहदारण्यके श्रवणात् । परत्वं श्रैष्ठ्याभिप्रायम् , न त्वान्तरत्वेनेति भावः । सविकल्पकं ज्ञानं मनः, निर्विकल्पकं निश्चयात्मिका बुद्धिः, आत्मशब्दात्स एव बुद्धेः परः, प्रत्यभिज्ञायत इति शेषः ।
हिरण्यगर्भाभेदेन ब्रह्मादिपदवेद्या समष्टिबुद्धिर्महानित्याह
अथवेति ।
मननशक्तिः, व्यापिनी, भाविनिश्चयः, ब्रह्मा आत्मा, भोग्यवर्गाश्रयः, तात्कालिकनिश्चयः, कीर्तिशक्तिः, नियमनशक्तिः, त्रैकालनिश्चयः, संविदभिव्यञ्जिका चिदध्यस्तातीतसर्वार्थग्राहिणी समष्टिबुद्धिरित्यर्थः ।
हिरण्यगर्भस्येयं बुद्धिरस्तीत्यत्र श्रुतिमाह
य इति ।
नन्वप्रकृता सा कथमुच्यते, तदुक्तौ च प्रधानेन किमपराद्धमित्यत आह
सा चेति ।
हिरुक्पृथक् । पूर्वं व्यष्टिबुद्ध्यभेदेनोक्तात्र ततो भेदेन परत्वमुच्यत इत्यर्थः ।
तर्हि रथरथिनौ द्वौ परिशिष्टौ स्याताम् , नेत्याह
एतस्मिंस्त्विति ।
अतो रथ एव परिशिष्ट इत्याह
तदेवमिति ।
तेषु पूर्वोक्तेषु षट्पदार्थेष्वित्यर्थः ।
परिशेषस्य फलमाह
इतराणीति ।
वेदो यमो वेति शेषः । दर्शयति चेति सूत्रभागो व्याख्यातः ।
किञ्च ब्रह्मात्मैकत्वपरत्वे ग्रन्थे भेदवादिनां प्रधानस्यावकाशो नास्तीत्याह
शरीरेत्यादिना ।
भोगो वेदना ।
काठकग्रन्थस्यैक्यतात्पर्ये गूढत्वज्ञेयत्वज्ञानहेतुयोगविधयो लिङ्गानि सन्तीत्याह
तथा चैष इत्यादिना ।
अग्र्या समाधिपरिपाकजा । वागित्यत्र द्वितीयालोपश्छान्दसः, मनसीति दैर्घ्यं च ॥ १ ॥
शङ्कोत्तरत्वेन सूत्रं व्याचष्टे
उक्तमेतदित्यादिना ।
कार्यकारणयोरभेदान्मूलप्रकृतिवाचकाव्यक्तशब्देन विकारो लक्ष्यत इत्यर्थः । गोभिर्गोविकारैः पयोभिर्मत्सरं सोमं श्रीणीत । मिश्रितं कुर्यादिति यावत् । 'श्रीञ्पाके' इति धातोर्लोटि मध्यमपुरुषबहुवचनमेतत् ।
अव्यक्तात्मना कार्यस्याव्यक्तशब्दयोग्यत्वे मानमाह
श्रुतिश्चेति ।
तर्हि प्रागवस्थायामिदं जगदव्याकृतमासीत् ह किलेत्यर्थः । बीजरूपा शक्तिः संस्कारस्तदवस्थम् ॥ २ ॥
अपसिद्धान्तशङ्कोत्तरत्वेन सूत्रं व्याचष्टे
अत्राहेत्यादिना ।
तर्हि तदा । एवं सति सूक्ष्मशब्दितप्रागवस्थाभ्युपगमे सति ।
ईश्वरे कल्पिता तन्नियम्येत्यङ्गीकारान्नापसिद्धान्त इत्याह
अत्रोच्यत इत्यादिना ।
कूटस्थब्रह्मणः स्रष्टृत्वसिद्ध्यर्थमविद्या स्वीकार्येत्युक्तम् । बन्धमुक्तिव्यवस्थार्थमपि सा स्वीकार्येत्याह
मुक्तानामिति ।
यन्नाशान्मुक्तिः सा स्वीकार्या, तां विनैव सृष्टौ मुक्तानां पुनर्बन्धापत्तेरित्यर्थः ।
तस्याः परपरिकल्पितसत्यस्वतन्त्रप्रधानाद्वैलक्षण्यमाह
अविद्येत्यादिना ।
मायामयी प्रसिद्धमायोपमिता । लोके मायाविनो मायावत्परतन्त्रेत्यर्थः ।
जीवभेदोपाधित्वेनापि सा स्वीकार्येत्याह
महासुषुप्तिरिति ।
बुद्ध्याद्युपाधिभेदाज्जीवा इति बहूक्तिः ।
अविद्यायां श्रुतिमप्याह
तदेतदिति ।
आकाशहेतुत्वादाकाशः । ज्ञानं विनान्ताभावादक्षरम् । विचित्रकारित्वान्मायेति भेदः ।
इदानीमविद्याया ब्रह्माभेदान्यत्वाभ्यामनिर्वाच्यत्वेनाव्यक्तशब्दार्हत्वमाह
अव्यक्तेति ।
तस्य महतः परत्वं कथमित्यत आह
तदिदमिति ।
यदा बुद्धिर्महांस्तदा तद्धेतुत्वात्परत्वमित्युक्तमित्यन्वयः ।
प्रतिबिम्बस्योपाधिपरतन्त्रत्वादुपाधेः प्रतिबिम्बात्परत्वमाह
यदा त्विति ।
हेतुं स्फुटयति
अविद्येति ।
अव्यक्तस्य परत्वेऽपि शरीरस्य किं जातम् , तदाह
तच्चेति ।
नन्विन्द्रियादीनामप्यव्यक्ताभेदादव्यक्तत्वं परत्वं च किमिति नोच्यते, तत्राह
सत्यपीति ।
सूत्रद्वयस्य वृत्तिकृद्ध्याख्यानमुत्थापयति
अन्ये त्विति ।
पञ्चीकृतभूतानां सूक्ष्मा अवयवाः स्थूलदेहारम्भकाः । सूक्ष्मशरीरं प्रतिजीवं लिङ्गस्याश्रयत्वेन नियतमस्तीति वक्ष्यते । देहान्तरप्राप्तौ तेन युक्तो गच्छति परलोकमित्यर्थः ।
कथं तस्य महतो जीवात्परत्वमित्याशङ्क्य द्वितीयसूत्रं व्याचष्टे
तदधीनत्वाच्चेति ।
अर्थवदिति ।
सूत्रस्थदृष्टान्तमाह
यथेति ।
तद्ध्याख्यानं दूषयति
तैरिति ।
अव्यक्तपदबलात्प्रकृतमपि स्थूलं त्यज्यत इति शङ्कते
आम्नातस्येति ।
एकार्थबोधकानां शब्दानां मिथ आकाङ्क्षयैकस्यां बुद्धावारूढत्वमेकवाक्यता । तव मते तस्या अभावात्कुतोऽर्थबोध इति समाधत्ते
नेति ।
तां विनाप्यर्थधीः किं न स्यादित्यत आह
नहीति ।
शरीरशब्देन रूढ्या स्थूलं प्रकृतम् , तस्य हानिरप्रकृतस्य भूतसूक्ष्मस्याव्यक्तपदेन ग्रहणमन्याय्यं स्यादित्यर्थः ।
अस्त्वेकवाक्यतेत्यत आह
न चेति ।
ततः किं तत्राह
तत्रेति ।
आकाङ्क्षया वाक्यैकवाक्यत्वे सति प्रकृतं शरीरद्वयमव्यक्तपदेन ग्राह्यम् । आकाङ्क्षायास्तुल्यत्वादिति भावः ।
अनात्मनिश्चयः शुद्धिः, तदर्थं सूक्ष्ममेवाकाङ्क्षितं ग्राह्यम् , तस्य सूक्ष्मत्वेनात्माभेदेन गृहीतस्य दुःशोधत्वात् । स्थूलस्य दृष्टदौर्गन्ध्यादिना लशुनादिवदनात्मत्वधीवैराग्ययोः सुलभत्वादिति शङ्कते
न चेति ।
दृष्टा बीभत्सा घृणा यस्मिन् तस्य भावस्तत्ता तयेत्यर्थः ।
दूषयति
यत इति ।
वैराग्यायशुद्धिरत्र न विवक्षिता, विध्यभावात् , किन्तु वैष्णवं परमं पदं विवक्षितमिति तद्दर्शनार्थं प्रकृतं स्थूलमेवाव्यक्तपदेन ग्राह्यमिति भावः । किञ्च सूक्ष्मस्य लिङ्गान्तःपातिन इन्द्रियादिग्रहणेनैव ग्रहणान्न पृथगव्यक्तशरीरपदाभ्यां ग्रहः ।
अभ्युपेत्याह
सर्वथेति ।
स्थूलस्य सूक्ष्मस्य वा ग्रहेऽपीत्यर्थः ।
तथा नामेति ।
सूक्ष्ममेवाव्यक्तमस्त्वित्यर्थः ॥ ३ ॥
अत्राव्यक्तं प्रधानं नेत्यत्र हेत्वन्तरार्थं सूत्रम्
ज्ञेयत्वेति ।
सत्त्वादिगुणरूपात्प्रधानात्पुरुषस्यान्तरं भेदस्तज्ज्ञानादित्यर्थः । नहि शक्यमिति च वदद्भिः प्रधानं ज्ञेयत्वेन स्मर्यत इति सम्बन्धः ।
न केवलं भेदप्रतियोगित्वेन प्रधानस्य ज्ञेयत्वं तैरिष्टं किन्तु तस्योपासनयाणिमादिप्राप्तयेऽपीत्याह
क्वचिच्चेति ।
ज्ञानविध्यभावेऽप्यव्यक्तपदजन्यज्ञानगम्यत्वमार्थिकं ज्ञेयत्वमस्तीत्यत आह
न चानुपदिष्टमिति ।
उपदिष्टं हि ज्ञानं फलवदिति ज्ञातुं शक्यं निष्फलस्योपदेशायोगादव्यक्तस्य च ज्ञानानुपदेशात्फलवज्ज्ञानगम्यत्वासिद्धिरित्यर्थः ।
फलितमाह
तस्मादिति ।
साङ्ख्येष्टसफलज्ञानगम्यत्वावचनाच्चेत्यर्थः ।
ननु शरीरस्यापि ज्ञेयत्वानुक्तेः कथमिह ग्रहणम् , तत्राह
अस्माकं त्विति ।
अस्मन्मते विष्ण्वाख्यपदस्यैकस्यैव ज्ञेयत्वात्तद्दर्शनार्थमव्यक्तपदेन शरीरोपन्यासो युक्त इत्यर्थः । साधारणशब्दमात्रान्न प्रधानस्य प्रत्यभिज्ञा स्मार्तलिङ्गस्यानुक्त्या नियामकाभावादिति तात्पर्यम् ॥ ४ ॥
लिङ्गोक्तिमाशङ्क्य निषेधति
वदतीति चेदिति ।
अत्र हि तादृशमेव निर्दिष्टमित्यन्वयः । स्पष्टमन्यत् ॥ ५ ॥
किञ्चात्र कठवल्ल्यां प्रधानस्य प्रश्नोत्तरयोरसत्त्वान्न ग्रहणमित्याह
त्रयाणामिति ।
मृत्युना नचिकेतसं प्रति त्रीन्वरान्वृणीष्वेत्युक्तेः त्रयाणामेव प्रश्नो नचिकेतसा कृतः । उपन्यासश्च मृत्युना कृतः । नान्यस्येत्यर्थः ।
प्रश्नत्रयं क्रमेण पठति
तत्र तावदिति ।
हे मृत्यो, स मह्यं दत्तवरस्त्वं स्वर्गहेतुमग्निं स्मरसि । प्रेते मृते । देहादन्योऽस्ति न वेति संशयोऽस्ति । अत एतदात्मतत्त्वमसन्दिग्धं जानीयामित्यर्थः ।
क्रमेणोत्तरत्रयमाह
प्रतिवचनमपीति ।
लोकहेतुविराडात्मनोपास्यत्वाल्लोकादिश्चित्योऽग्निस्तं मृत्युरुवाच नचिकेतसे । याः स्वरूपतो यावतीः सङ्ख्यातो यथा वा क्रमेणाग्निश्चीयते तत्सर्वमुवाचेत्यर्थः । हन्तेदानीं ब्रह्म वक्ष्यामीति ब्रह्मवाक्येन जीवप्रश्नाद्व्यवहितमपि 'यथा च मरणं प्राप्य' इत्यादि वाक्यं जीवविषयमुत्तरम् , योग्यत्वादित्यर्थः । वाक्यार्थस्तु आत्मा मरणं प्राप्य यथा भवति तथा वक्ष्यामीति ।
प्रतिज्ञातमाह
योनिमिति ।
चराचरदेहप्राप्तौ निमित्तमाह
यथेति ।
श्रुतमुपासनम् । सूत्रे आद्यश्चकारो यत इत्यर्थे । एवं च त्रयाणामेवोपन्यासः प्रश्नश्च यतः अतो न प्रधानमव्यक्तमिति योजना ।
उक्तार्थे सूत्रमाक्षिपति
अत्राहेति ।
एकः प्रश्नः द्वौ प्रश्नौ वेति पक्षद्वये फलितं पृच्छति
किञ्चात इति ।
सप्तम्यर्थे तसिः । अत्र च पक्षद्वयेऽपि किमित्यर्थः ।
प्रश्नैक्ये सूत्रासङ्गतिः । भेदे प्रधानस्य श्रौतत्वसिद्धिरिति पूर्ववाद्याह
स एवेत्यादिना ।
प्रश्नैक्यपक्षमादाय सिद्धान्त्याह
अत्रोच्यत इति ।
येन प्रधानसिद्धिः स्यादिति शेषः ।
चतुर्थप्रश्नकल्पने वरत्रित्वोपक्रमविरोधः स्यादिति विवृणोति
वरेत्यादिना ।
वरप्रदानमुपक्रमो यस्याः सा । प्रहिताय यमलोकं प्रति प्रेषिताय । इतः पुनः मर्त्यलोकं प्राप्तस्य मम पिता यथापूर्वं सुमनाः स्यादिति प्रथमं वव्रे ।
ननु द्वितीयवरो जीवविद्या तृतीयो ब्रह्मविद्येति प्रश्नभेदः किं न स्यादित्यत आह
येयमिति ।
प्रेते इत्युपक्रम्य तृतीयत्वोक्तिलिङ्गाज्जीवात्मविद्यैव तृतीयो वर इत्यर्थः ।
एवं वाक्योपक्रमे सति प्रश्नान्तरं न युक्तमित्याह
तत्रेति ।
मरणधर्माद्यस्पर्शलिङ्गाभ्यां प्रष्टव्ययोर्जीवेश्वरयोर्भेदात्प्रश्नभेदसिद्धेर्वाक्यबाधो युक्त इति शङ्कते
नन्वित्यादिना ।
गोचरत्वादाश्रयत्वात् ।
न केवलं प्रष्टव्यभेदात्प्रश्नभेदः किन्तु प्रश्नवाक्ययोः सादृश्याभावादपीत्याह
प्रश्नच्छायेति ।
प्रष्टव्यभेदोऽसिद्ध इति परिहरति
नेत्यादिना ।
किञ्च ब्रह्मप्रश्ने जन्मादिनिषेधेन जीवस्वरूपं वदन् यमस्तयोरैक्यं सूचयतीत्याह
इह चान्यत्रेति ।
तन्निषेधवाक्ये शिवोक्तिरसिद्धेत्यत आह
सतीति ।
भागी युक्तः । तस्मादविद्यया जीवस्य प्राप्तजन्मादिनिषेधेन स्वरूपमुक्तमित्यर्थः ।
किञ्च जीवो ब्रह्माभिन्नः, मोक्षहेतुज्ञानविषयत्वात् , ब्रह्मवदित्याह
तथा स्वप्नेति ।
अन्तोऽवस्था । येन साक्षिणा प्रमाता पश्यति तमात्मानमिति सम्बन्धः ।
हेतोरप्रयोजकत्वमाशङ्क्य 'तमेव विदित्वा' इति श्रुतिविरोधमाह
प्राज्ञेति ।
किञ्चाभेदमुक्त्वा भेदस्य निन्दितत्वादभेद एव सत्य इत्याह
तथेति ।
इह देहे यच्चैतन्यं तदेवामुत्र सूर्यादौ । एवमिहाखण्डैकरसे ब्रह्मणि यो नानेव मिथ्याभेदं पश्यति स भेददर्शी मरणान्मरणं प्राप्नोति संसारभयान्न मुच्यत इत्यर्थः । किञ्च जीवप्रश्नानन्तरं 'तं दुर्दर्शम्' इति यदुत्तरमुवाच तेनाप्युत्तरेणाभेदो गम्यत इति सम्बन्धः ।
प्रष्टृप्रश्नयोः प्रशंसयापि लिङ्गेन पृष्टस्य दौर्लभ्यद्योतनाद्ब्रह्मत्वसिद्धिरित्याह
अन्यं वरमित्यादिना ।
पुत्रादिकं वृणीष्वेत्युक्तेऽपि विषयांस्तुच्छीकृत्यात्मज्ञानान्न चचाल 'नान्यं तस्मान्नचिकेता वृणीते' इति श्रवणात् । तदा सन्तुष्टो यमः 'अन्यच्छ्रेयोऽन्यदुतैव प्रेयः' इति भोगापवर्गमार्गयोर्वैलक्षण्यं प्रतिज्ञाय 'दूरमेते विपरीते विषूची अविद्या या च विद्या' इति दर्शितवानित्यर्थः । प्रेयः प्रियतमं स्वर्गादिकम् , विषूची विरुद्धफले, अविद्या कर्म, विद्या तत्त्वधीः । विद्याभीप्सिनं विद्यार्थिनं त्वामहं मन्ये, यतः त्वा त्वां बहवोऽपि कामाः पुत्रादयो मया दीयमाना दुर्लभा अपि नालोलुपन्त लोभवन्तं न कृतवन्त इति प्रष्टारं स्तुत्वा प्रश्नमपि 'त्वादृङ्नो भूयान्नचिकेतः प्रष्टा' इति स्तुवन्नित्यक्षरार्थः ।
इयं प्रशंसा प्रश्नभेदपक्षे न घटत इत्याह
यत्प्रश्नेति ।
यत्प्रश्नेन स्तुतिं लब्धवांस्तं प्रश्नं विहाय यद्यन्यमेवोत्थापयेत्तर्ह्यनवसरे स्तुतिः कृता स्यादित्यर्थः ।
तस्मादिति ।
प्रष्टव्यभेदाभावादित्यर्थः ।
प्रश्नवाक्यव्यक्त्योः सादृश्याभावात्प्रश्नभेद इत्युक्तं निरस्यति
यत्त्वित्यादिना ।
धर्माद्याश्रयस्य जीवस्य ब्रह्मत्वं कथमित्यत आह
यावदिति ।
अविद्यानाशानन्तरं ब्रह्मत्वं चेदागन्तुकमनित्यं च स्यादित्यत आह
न चाविद्यावत्त्व इति ।
जीवस्य ब्रह्मत्वे स्वाभाविके सति ब्रह्मप्रश्नस्य यदुत्तरं तज्जीवप्रश्नस्यापि भवतीति लाभं दर्शयति
ततश्च न जायत इति ।
जीवब्रह्मैक्ये 'त्रयाणाम्' इति सूत्रं कथमित्यत आह
सूत्रं त्विति ।
कल्पितभेदात्प्रश्नभेदकल्पनेत्याह
ततश्चेति ।
परमात्मनः सकाशात्प्रधानस्य वैषम्यमनात्मत्वेन तृतीयवरान्तर्भावायोगादिति भावः ॥ ६ ॥
श्रौतोऽव्यक्तशब्दो न साङ्ख्यासाधारणतत्त्वगोचरः, वैदिकशब्दत्वात् , महच्छब्दवदित्याह
महद्वच्चेति ।
सूत्रं व्याचष्टे
यथेत्यादिना ।
न चाकाशादिशब्दे व्यभिचारः, आकाशादेर्मतान्तरसाधारणत्वेन साङ्ख्यासाधारणत्वासिद्धेः साध्यस्यापि सत्त्वादिति मन्तव्यम् ।
सत्तामात्रे ।
सत्त्वप्रधानप्रकृतेराद्यपरिणामे । निर्विकल्पकबुद्धावित्यर्थः । आत्मा महानित्यात्मशब्दप्रयोगात् , तं मत्वा न शोचति, 'तमसः परस्तादि' त्यादिना शोकात्ययतमः परत्वादिभ्यश्च महच्छब्दः साङ्ख्यतत्त्वं नाभिधत्त इति सम्बन्धः ।
अधिकरणार्थमुपसंहरति
अतश्चेति ॥ ७ ॥