अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

श्रेष्ठाणुत्वाधिकरणम्

एवं मुख्य­प्रा­ण­स्यो­त्पत्तिं स्वरूपं चोक्त्वा परि­मा­ण­स­न्दे­हेऽ­णु­त्व­मु­प­दि­शति -
अणुश्चेति ।

अधिकाशङ्कामाह -
ननु विभुत्वमपीति ।
प्लुषिर्मशकादपि सूक्ष्मो जन्तुः पुत्ति­के­त्यु­च्यते । नागो हस्ती ।

प्राण उत्क्रामतीति श्रुत्याल्पत्वं प्राणस्य भाति, समोऽनेन सर्वेणेति, श्रुत्या विभुत्वमिति विरोधे आध्या­त्मि­क­प्रा­ण­स्या­ल्प­त्व­मा­धि­दै­वि­कस्य विभुत्वमिति विष­य­भे­दा­च्छ्रु­त्यो­र­वि­रोध इति समाधत्ते -
तदुच्यत इति ।
किञ्चोपक्रमे प्राणस्य प्लुष्या­दि­स­म­त्वे­ना­ल्प­त्वोक्तेः सम एभि­स्त्रि­भि­र्लो­कै­रिति विरा­ड्दे­ह­सा­म्यम् ।

समोऽनेनेति सूत्रा­त्म­त्व­मिति विषयव्यवस्था सुस्थेत्याह -
अपि चेति ।
अणवश्चेत्यत्र सर्वेऽनन्ता इति इन्द्रि­या­न­न्त्य­मु­पा­स­ना­र्थ­मिति समाहितम् , अत्र तु प्राण­वि­भु­त्व­मा­धि­दै­वि­क­मिति समा­धा­ना­न्त­रो­क्ते­र­पौ­न­रु­क्त्यम् । अन्ये तु प्रसङ्गात्तत्र साङ्ख्याक्षेपो निरस्तः, अत्र तु श्रुतिविरोधो निरस्त इत्य­पौ­न­रु­क्त्य­माहुः ॥१३॥