भाष्यरत्नप्रभाव्याख्या
गतेरर्थवत्त्वाधिकरणम्
गतेरर्थवत्त्वं
क्वचित्सगुणविद्यायां मार्गः श्रूयते निर्गुणविद्यायां न श्रूयते । तत्र हानसंनिधौ मार्गस्य श्रुतत्वादनपेक्षितत्वाच्च संशये दृष्टान्तसंगत्या पूर्वपक्षमाह -
यथा तावदिति ।
उपायनवन्मार्गस्यापि क्वचिच्छ्रुतत्वात्सर्वत्रोपसंहार इत्यर्थः । अत्र निर्गुणविदोऽपि मुक्त्यर्थं मार्गापेक्षा पूर्वपक्षे, सिद्धान्ते त्वनपेक्षेति फलम् । देशादिव्यवहितवस्तुप्राप्तौ मार्गस्यापेक्षेतिन्यायानुगृहीतश्रुतिविरोधान्नोपसंहार इति सिद्धान्तः । निरञ्जनोऽसङ्गः, साम्यं ब्रह्म ॥२९॥
ननु तर्हि सगुणविद्यायामपि मार्गो व्यर्थ इत्यत आह -
उपपन्न इति ।
सा गतिर्लक्षणं कारणं यस्यार्थस्य स तल्लक्षणार्थः ॥३०॥