अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

आश्रमकर्माधिकरणम्

विहि­त­त्वा­च्चा­श्र­म­क­र्मापि ।

नित्या­ग्नि­हो­त्रा­दि­क­र्मसु विहि­त­त्वा­द्वि­नि­यु­क्त­वि­नि­यो­ग­वि­रो­धाच्च संशये शास्त्रा­न्त­र­वि­रो­धा­त्स­र्वा­न्न­त्वोक्तेः स्तुति­त्व­व­न्नि­त्य­वि­नि­यु­क्त­त्व­श्रु­ति­वि­रो­धा­द्वि­वि­दि­षायां विनियोगश्रुतेः स्तुतित्वमिति पूर्वपक्षमाह -
तत्रेति ।
ज्ञान­का­म­न­या­नु­ष्ठाने कर्म­णा­म­नि­त्य­त्व­म­ना­व­श्य­क­त्वम् । तस्या अनि­त्य­त्वा­द्या­व­ज्जी­वा­दि­वि­धिना तु नित्यत्वं चेति विरु­द्ध­ध­र्म­द्व­या­पा­ता­द्वि­वि­दि­षा­श्रुतेः स्तुतित्वमिति फलं पूर्वपक्षे । सिद्धान्ते तूभयथानुष्ठानं फलम् ॥३२॥

सह मिलित्वा शुद्धिद्वारा विद्यां कुर्वन्तीति सहकारीणि कर्माणि । तेषां भावस्तत्वं तेनेत्यर्थः । विद्यया सह फलकारित्वं सह­का­रि­प­दा­त्प्राप्तं निरस्यति -
न चेदमिति ।
विद्याया अवि­हि­त­त्वा­न्ना­ङ्ग­पे­क्षास्ति । अतो विहितानि कर्माणि अविहिताया न सहकार्यङ्गानि मोक्ष­स्या­सा­ध्य­त्वाच्च न कर्माणां सहकारित्वसंभव इत्यर्थः । तुल्य­ब­ल­श्रु­ति­द्व­येन विनि­यो­ग­पृ­थक्त्वं संयोगभेदस्ततो न विरोधः । कामनाया अनित्यत्वेऽपि कर्मणां नानित्यत्वं नित्यविधिना प्रयोगस्य नित्यत्वात् । सत्यां कामनायां काम्यप्रयोगेनैव नित्य­त्व­सि­द्धेर्न कश्चिद्विरोधः । इदञ्चऽएकस्य तूभयत्वे संयो­ग­पृ­थ­क्त्व­म्ऽ­इति सूत्रे चिन्तितम् । यथाऽखादिरो यूपो भवतिऽइति श्रुत्या खादिरत्वस्य क्रत्वर्थता खादिरं वीर्यकामस्येति श्रुत्या पुरुषार्थता चेति । अतः सति वाक्यद्वये विनि­यु­क्त­वि­नि­योगो न विरुध्यत इत्यर्थः ॥३३॥

ननु नित्या­ग्नि­हो­त्रा­दिभ्यो भिन्ना एवा­पू­य­र्व­ज्ञा­दयो विविदिषायां विनियुज्यन्तां तत्र कुतो विनि­यु­क्त­वि­नि­यो­ग­स्त­त्राह -
सर्वथापीति ।
नित्यत्वे काम्यत्वे चेत्यर्थः । कुण्डपायिनामयने मासमग्निहोत्रं जुह्व­ती­त्या­ख्या­तस्य साध्य­हो­म­वा­चि­त्वा­त्त­दे­का­र्थ­का­ग्नि­हो­त्र­प­दस्य व्यव­हि­त­सि­द्धा­ग्नि­हो­त्र­प­रा­म­र्श­क­त्वा­यो­गा­न्मा­स­गु­ण­वि­शिष्टं कर्मान्तरं विधीयत इति युक्तमिह तु यज्ञेनेत्यादि सुब­न्ता­ना­मा­ख्या­ते­नै­का­र्थ­त्वा­भा­वा­त्सि­द्ध­व्य­व­हि­त­क­र्मा­नु­वा­द­क­त्वा­त्ते­षा­मेव कर्मणां ज्ञाना­र्थ­त्व­वि­धि­रिति भावः ।

सिद्धकर्मसु संस्का­र­त्व­प्र­सि­द्धि­रपि शुद्धा­ख्य­सं­स्का­र­द्वारा ज्ञाना­र्थ­क­क­र्मा­भेदे लिङ्गमित्याह -
यस्यैत इति ॥३४॥

ब्रह्म­च­र्या­दि­क­र्मणां प्रति­ब­न्ध­ध्वं­स­द्वारा विद्यार्थत्वे लिङ्गमाह -
अनभिभवं चेति ॥३५॥