अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

वैषम्यनैर्घृण्याधिकरणम्

वैष­म्य­नै­र्घृण्ये न ।
निर्दे­षा­द्ब्र­ह्मणो जगत्सर्गं ब्रुवन् समन्वयो विषयः ।

स किं यो विषमकारी स दोषवानिति न्यायेन विरुध्यते न वेति सन्देहे पूर्वत्र लीलया यत्स्र­ष्टृ­त्व­मुक्तं तदेव कर्मा­दि­सा­पे­क्षस्य न युक्त­म­नी­श्व­र­त्वा­पत्तेः, निरपेक्षत्वे रागा­दि­दो­षा­प­त्ते­रि­त्या­क्षे­प­स­ङ्गत्या पूर्वपक्षयति -
पुनश्चेत्यादिना ।
ब्रह्मैव जगत्कारणमिति जन्मादिसूत्रे प्रति­ज्ञा­तोऽर्थः । पृथग्जनः पामरः, 'निरवद्यं निरञ्जनम्' इति श्रुतिः, 'न मे द्वेष्योऽस्ति न प्रियः' इति स्मृतिः । स्वच्छ­त्वा­दी­त्या­दि­प­देन कूट­स्थ­त्वा­ग्रहः, स्वच्छ­त्वा­दि­श्चा­सा­वी­श्व­र­स्व­भा­व­श्चेति विग्रहः ।

निमि­त्त­म­न­पेक्ष्य विषमकारित्वे वैषम्यादिदोषः स्यात् , न त्वन­पे­क्ष­त्व­मी­श्व­र­स्या­स्तीति सिद्धान्तयति -
एवं प्राप्त इत्यादिना ।
न च सापेक्षत्वे अनीश्वरत्वम् , सेवामपेक्ष्य फलदातरि राज्ञी­श्व­र­त्वा­न­पा­यात् ।

ननु तर्हि धर्मा­ध­र्मा­भ्या­मेव विचित्रा सृष्टिरस्तु किमीश्वरेणेत्यत आह -
ईश्वरस्तु पर्जन्यवदिति ।
साधा­र­ण­हे­तु­स­हि­त­स्यै­वा­सा­धा­र­ण­हेतोः कार्य­का­रि­त्वा­न्ने­श्व­र­वै­य­र्थ्यम् , अन्यथा पर्ज­न्य­वै­य­र्थ्य­प्र­स­ङ्गा­दिति भावः । यं जनमुन्निनीषते ऊर्ध्वं नेतुमिच्छति तं साधु कारयत्येष ईश्वर इत्यन्वयः । न च कञ्चिज्जनं साधु कञ्चिदसाधु कर्म कारयतो वैषम्यं तदवस्थमिति वाच्यम् , अना­दि­पू­र्वा­र्जि­त­सा­ध्व­सा­धु­वा­स­नया स्वभावेन जनस्य तत्तत्कर्मसु प्रवृ­त्ता­वी­श्व­रस्य साधा­र­ण­हे­तु­त्वात् । अतोऽनवद्य ईश्वर इति भावः ॥३४॥

प्रथमसर्गस्य वैष­म्य­हे­तु­क­र्मा­भा­वा­दे­क­रू­पत्वं स्यात् , तथा तथा तदु­त्त­र­क­ल्पा­ना­म­पी­त्या­क्षिप्य समाधत्ते सूत्रकारः -
न कर्मेति ।

प्रथमसृष्टेः पश्चा­द्भा­वि­क­र्म­कृतं वैष­म्य­मि­त्या­श­ङ्क्या­न्यो­न्या­श्र­य­माह -
सृष्ट्युत्तरेति ।
आद्या सृष्टि­रि­त्यु­प­ल­क्ष­णम् । आदावेकरूपत्वे मध्ये विष­म­क­र्मो­त्पत्तौ हेत्व­भा­वे­नो­त्त­र­सृ­ष्टी­ना­मपि तुल्यत्वस्य दुर्वारत्वादिति द्रष्टव्यम् । परिहारः सुगमः ॥३५॥

प्रथमः सर्गः कश्चि­न्ना­स्ती­त्यत्र प्रमाणं पृच्छति -
कथं पुनरिति ।

उप­प­त्ति­स­हि­त­श्रु­त्या­दिकं प्रमाणमिति सूत्रव्याख्यया दर्शयति -
उपपद्यत इति ।
हेतुं विनैव सर्गाङ्गीकारे ज्ञान­क­र्म­का­ण्ड­वै­यर्थ्यं स्यादित्यर्थः ।

ननु सुखादिवैषम्ये ईश्वरोऽविद्या वा हेतु­र­स्त्वि­त्या­शङ्क्य क्रमेण दूषयति -
न चेश्वर इत्यादिना ।

कस्तर्हि हेतुः, तत्राह -
रागादीति ।
रागद्वैषमोहाः क्लेशास्तेषां वास­ना­भि­रा­क्षि­प्तानि कर्माणि धर्मा­ध­र्म­व्या­मि­श्र­रू­पाणि, तदपेक्षा त्वविद्या सुखा­दि­स­र्ग­वै­चि­त्र्य­हेतुः । तस्मा­द­वि­द्या­स­ह­का­रि­त्वेन क्लेश­क­र्म­णा­म­ना­दि­प्र­वा­होऽ­ङ्गी­क­र्तव्य इति भावः ।

किञ्च सृष्टेः सादित्वे प्रथ­म­श­री­र­स्यो­त्प­त्तिर्न सम्भवति, हेत्वभावात् । न च कर्म हेतुः, शरी­रा­त्प्रा­क्क­र्मा­स­म्भ­वात् । तस्मा­त्क­र्म­श­री­र­यो­र­न्यो­न्या­श्र­य­प­रि­हा­राय सर्वैरेव वादिभिः संसा­र­स्या­ना­दि­त्व­म­ङ्गी­का­र्य­मि­त्याह -
न चेति ।

सर्गप्रमुखे सृष्ट्यादौ प्राग­न­व­धा­रि­त­प्रा­णोऽपि सन् प्रत्यगात्मा भावि­धा­र­ण­नि­मि­त्तेन जीव­श­ब्दे­नो­च्य­ता­मि­त्य­त्राह -
न च धारयिष्यतीति ।
'गृहस्थः सदृशीं भार्या­मु­पे­यात्' इत्यादावगत्या भावि­वृ­त्त्या­श्र­य­ण­मिति भावः । अस्य संसारवृक्षस्य स्वरूपं सत्यं मिथ्या वेत्युपदेशं विना नोपलभ्यते । ज्ञानं विनान्तोऽपि नास्ति । नाप्या­दि­रु­प­ल­भ्यते, असत्त्वादेव । न च सम्प्रतिष्ठा मध्ये स्थितिः, दृष्ट­न­ष्ट­स्व­रू­प­त्वा­दिति गीतावाक्यार्थः । संसा­र­स्या­ना­दि­त्वेऽपि मिथ्यात्वात् 'एक­मे­वा­द्वि­ती­यम्' इत्य­व­धा­र­ण­मु­प­प­न्नम् । तस्मान्निरवद्ये ब्रह्मणि समन्वयाविरोध इति सिद्धम् ॥३६॥