भाष्यरत्नप्रभाव्याख्या
चतुर्थाध्याये चतुर्थः पादः
चतुर्थेऽध्याये चतुर्थः पादः ।
पूर्वपादे ब्रह्मोपासकानां कार्यब्रह्मप्राप्तिरुक्ता, सम्प्रति तेषामैश्वर्यविशेषं ब्राह्मलौकिकं पादस्योत्तरार्धेन प्रपञ्चयिष्यन्नादावभ्यर्हितपरविद्याप्राप्यं निर्विशेषब्रह्मभावमाह -
सम्पद्याविर्भावः स्वेनशब्दात् ।
निर्गुणविद्याफलवाक्यमुदाहृत्य स्वशब्दस्य स्वीयागन्तुकरूपस्वात्मरूपवाचित्वाभ्यां संशयमाह -
एवमिति ।
पूर्वपक्षे मोक्षस्य स्वर्गादविशेषः, सिद्धान्ते विशेष इति फलम् , तत्र मोक्ष आगन्तुकः, फलत्वात्स्वर्गवदिति न्यायोपेतयाभिनिष्पत्तिश्रुत्या पूर्वपक्षमाह -
किमित्यादिना ।
स्वशब्दश्रुतिबाधितो न्यायः अभिनिष्पत्तिश्च साक्षात्कारवृत्त्यभिप्राया बन्धध्वंसजन्मन्यौपचारिक्येवेति मत्वा सिद्धान्तयति -
एवमिति ।
मोक्षस्य फलत्वेन प्राप्तागन्तुकत्वनिरासार्थः स्वशब्द इति युक्तं स्वीयवाचित्वेऽत्वनर्थकानुवादः स्यादित्यर्थः ॥१॥