अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

चतुर्थाध्याये चतुर्थः पादः

चतुर्थेऽध्याये चतुर्थः पादः ।
पूर्वपादे ब्रह्मोपासकानां कार्य­ब्र­ह्म­प्रा­प्ति­रुक्ता, सम्प्रति तेषा­मै­श्व­र्य­वि­शेषं ब्राह्मलौकिकं पाद­स्यो­त्त­रा­र्धेन प्रप­ञ्च­यि­ष्य­न्ना­दा­व­भ्य­र्हि­त­प­र­वि­द्या­प्राप्यं निर्वि­शे­ष­ब्र­ह्म­भा­व­माह -
सम्प­द्या­वि­र्भावः स्वेनशब्दात् ।

निर्गु­ण­वि­द्या­फ­ल­वा­क्य­मु­दा­हृत्य स्वशब्दस्य स्वीया­ग­न्तु­क­रू­प­स्वा­त्म­रू­प­वा­चि­त्वाभ्यां संशयमाह -
एवमिति ।

पूर्वपक्षे मोक्षस्य स्वर्गादविशेषः, सिद्धान्ते विशेष इति फलम् , तत्र मोक्ष आगन्तुकः, फल­त्वा­त्स्व­र्ग­व­दिति न्यायो­पे­त­या­भि­नि­ष्प­त्ति­श्रुत्या पूर्वपक्षमाह -
किमित्यादिना ।

स्वश­ब्द­श्रु­ति­बा­धितो न्यायः अभिनिष्पत्तिश्च साक्षा­त्का­र­वृ­त्त्य­भि­प्राया बन्ध­ध्वं­स­ज­न्म­न्यौ­प­चा­रि­क्ये­वेति मत्वा सिद्धान्तयति -
एवमिति ।
मोक्षस्य फलत्वेन प्राप्ता­ग­न्तु­क­त्व­नि­रा­सार्थः स्वशब्द इति युक्तं स्वीय­वा­चि­त्वेऽ­त्व­न­र्थ­का­नु­वादः स्यादित्यर्थः ॥१॥