भाष्यरत्नप्रभाव्याख्या
कारणत्वाधिकरणम्
कारणत्वेन चाकाशादिषु तथाव्यपदिष्टोक्तेः । पूर्वग्रन्थेनास्य सङ्गतिं वक्तुं वृत्तमनुवदति
प्रतिपादितमिति ।
अधिकरणत्रयेण प्रधानस्याश्रौतत्वोक्त्या जगत्कारणत्वलक्षणेन ब्रह्मण एव बुद्धिस्थता, तस्मिन्नेव बुद्धिस्थे निर्विशेषे ब्रह्मणि वेदान्तानां समन्वय इति साधितं पूर्वसूत्रसन्दर्भेण । तत्र लक्षणसमन्वययोरसिद्धिरेव, श्रुतीनां विरोधदर्शनादित्याक्षेपरूपां तेनास्य सङ्गतिमाह
तत्रेति ।
न चाविरोधचिन्ताया द्वितीयाध्याये सङ्गतिर्नास्मिन्नध्याय इति वाच्यम् , सिद्धे समन्वये स्मृत्यादिमानान्तरविरोधनिरासस्य द्वितीयाध्यायार्थत्वात् , तत्पदवाच्यजगत्कारणवादिश्रुतीनां मिथो विरोधाद्वाच्यार्थानिर्णयेन लक्ष्ये समन्वयासिद्धौ प्राप्तायां तत्साधकाविरोधचिन्ताया अत्रैव सङ्गतत्वात् । न चैवं सृष्टिश्रुतीनामप्यविरोधोऽत्रैव चिन्तनीय इति वाच्यम् , स्वप्नवत्कल्पितसृष्टौ विरोधस्यैवाभावात् । किमर्थं तर्हि द्वितीये तच्चिन्तनम् , स्थूलबुद्धिसमाधानार्थमिति ब्रूमः । इह तु सूक्ष्मदृशां वाक्यार्थे समन्वयज्ञानाय तत्पदार्थश्रुतिविरोधः परिह्रियते । यद्यपि त्वम्पदार्थश्रुतिविरोधोऽत्र परिहर्तव्यः तथापि प्रथमसूत्रेण बन्धमिथ्यात्वसूचनादविरोधः सिद्धः । प्रपञ्चस्तु स्थूलबुद्धिसमाधनप्रसङ्गेन भविष्यतीति मन्यते सूत्रकारः । अत्र जगत्कारणश्रुतयो विषयः ।
ताः किं ब्रह्मणि मानं न वेति संशयेऽन्नज्योतिषोः सङ्ख्यादृष्टिक्रियायां विकल्पेऽपि कारणे वस्तुन्यसद्वा सद्वा कारणमित्यादिविकल्पासम्भवादप्रामाण्यमिति प्रत्युदाहरणेन पूर्वपक्षयन्नुक्ताक्षेपं विवृणोति
प्रतिवेदान्तमित्यादिना ।
वेदान्तानां समन्वयसाधनाच्छ्रुत्यध्यायसङ्गतिः । असदादिपदानां सत्कारणे समन्वयोक्तेः पादसङ्गतिः । पूर्वपक्षे समन्वयासिद्धिः फलम् , सिद्धान्ते तत्सिद्धिरिति विवेकः ।
क्रमाक्रमाभ्यां सृष्टिविरोधं तावद्दर्शयतितथाहि
क्वचिदित्यादिना ।
स परमात्मा लोकानसृजत । अंमयशरीरप्रचुरस्वर्गलोकोऽम्भः शब्दार्थः । सूर्यरश्मिमव्याप्तोऽन्तरिक्षलोको मरीचयः । मरो मर्त्यलोकः । अब्बहुलाः पाताललोका आप इति श्रुत्यर्थः ।
सृष्टिविरोधमुक्त्वा कारणविरोधमाह
तथेति ।
असदनभिव्यक्तनामरूपात्मकं कारणम् , ततः कारणात्सदभिव्यक्तम् । एतत्तुल्यार्थं छान्दोग्यवाक्यमाह
असदेवेति ।
किं शून्यमेव, नेत्याह
तत्सदिति ।
अबाधितं ब्रह्मैवासीदित्यर्थः । तद्ब्रह्मात्मना स्थितं जगत्सृष्टिकाले सम्यगभिव्यक्तमभवत् । प्रक्रिया सृष्टिः । तत्तत्र कारणे । एके बाह्याः ।
तेषां मतं श्रुतिरेव दूषयति
कुत इति ।
कुत एवंपदयोरर्थमाह
कथमिति ।
स्वमतमाह
सदिति ।
तदिदं जगद्ध किल तर्हि प्राक्कालेऽव्याकृतं कारणात्मकमासीत् ।
श्रुतीनां विरोधमुपसंहरति
एवमिति ।
किमत्र न्याय्यमित्याशङ्क्य मानान्तरसिद्धप्रधानलक्षकत्वं वेदान्तानां न्याय्यमित्याह
स्मृतीति ।
तत्र सृष्टौ विरोधमङ्गीकृत्य स्रष्टरि विरोधं परिहरति
सत्यपीति ।
आकाशादिषु ब्रह्मणः कारणत्वे विरोधो नैवास्तीति प्रतिज्ञायां हेतुमाह
कुत इति ।
यथाभूतत्वमेवाह
सर्वज्ञ इति ।
कारणस्य सर्वज्ञत्वादिकं प्रतिवेदान्तं दृश्यत इत्याह
तद्यथेत्यादिना ।
तद्विषयेण ब्रह्मविषयेण । चेतनं सर्वज्ञम् । 'तदात्मानं स्वयमकुरुत' इति श्रुतेरपरप्रयोज्यत्वम् । 'तस्माद्वा एतस्मादात्मनः' इति प्रत्यगात्मत्वम् । स्वस्य बहुरूपत्वकामनया स्थितिकालेऽप्यद्वितीयत्वम् ।
यथा तैत्तिरीयके सर्वज्ञत्वादिकं कारणस्य तथा छान्दोग्यादावपि दृश्यत इत्याह
तदत्र यल्लक्षणमिति ।
मिषत्सव्यापारम् । अविगीतार्थत्वादविरुद्धार्थकत्वात्कारणे नास्ति विप्रतिपत्तिरिति शेषः ।
तथापि कार्ये विरोधात्कारणेऽपि विरोधः स्यादित्याशङ्क्य निषेधति
कार्यविषयं त्वित्यादिना ।
स्वप्नसृष्टीनां प्रत्यहमन्यथात्वेन सोऽहमिति प्रत्यभिज्ञायमाने द्रष्टर्यपि नानात्वं प्रसज्येतेत्याह
अतिप्रसङ्गादिति ।
सृष्टिविरोधमङ्गीकृत्य स्रष्टरि न विरोध इत्युक्तम् । अधुनाङ्गीकारं त्यजति
समाधास्यति चेति ।
किमर्थं तर्हि श्रुतयः सृष्टिमन्यथान्यथा वदन्तीत्याशङ्क्य सृष्टावतात्पर्यज्ञापनायेत्याह
भवेदित्यादिना ।
अतात्पर्यार्थविरोधो न दोषायेत्यतात्पर्यं साधयति
नहीति ।
फलवद्ब्रह्मवाक्यशेषत्वेन सृष्टिवाक्यानामर्थवत्त्वसम्भवान्न स्वार्थे पृथक्फलं कल्प्यम् , वाक्यभेदापत्तेरित्याह
नच कल्पयितुमिति ।
न्यायादेकवाक्यत्वं सिद्धं श्रुतिरपि दर्शयतीत्याह
दर्शयति चेति ।
शुङ्गेन कार्येण लिङ्गेन कारणब्रह्मज्ञानार्थत्वं सृष्टिश्रुतीनामुक्त्वा कारणस्याद्वयत्वज्ञानं फलान्तरमाह
मृदादीति ।
एवं निष्फलायामन्यार्थायां सृष्टौ तात्पर्याभावाद्विरोधो न दोष इत्यत्र वृद्धसंमतिमाह
तथाचेति ।
अन्यथान्यथेति वीप्सा द्रष्टव्या । अवताराय ब्रह्माधिजन्मने । अतस्तदन्यथात्वेऽपि ब्रह्मणि न भेदः । ज्ञेये न विगानमित्यर्थः ।
ब्रह्मज्ञानस्य सृष्टिशेषित्वमुक्तम् , तन्निर्वाहाय तस्य फलमाह
ब्रह्मेति ।
मृत्युमत्येतीत्यन्वयः ॥ १४ ॥
एवं सृष्टिद्वारकं विरोधमुत्सूत्रं समाधाय कारणस्य सदसत्त्वादिना साक्षाच्छ्रुतिविरोधनिरासार्थं सूत्रमादत्ते
यत्पुनरिति ।
यतोऽस्तित्वलक्षणं ब्रह्म निर्धार्य तस्मिन्नेव श्लोकमुदाहरति, अतोऽत्र श्लोके निरात्मकमसन्न श्राव्यत इति योजना । तत्तत्र सदात्मनि श्लोको मन्त्रो भवति ।
सदात्मसमाकर्षादतीन्द्रियार्थकासत्पदेन ब्रह्म लक्ष्यत इत्याह
तस्मादिति ।
नच प्रधानमेव लक्ष्यतामिति वाच्यम् । चेतनार्थकब्रह्मादिशब्दानामनेकेषां लक्षणागौरवादिति भावः ।
तैत्तिरीयकश्रुतौ सूत्रं योजयित्वा छान्दोग्यादौ योजयति
एषैवेति ।
सदेकार्थकतत्पदेन पूर्वोक्तासतः समाकर्षान्न शून्यत्वमित्यर्थः ।
नन्वसत्पदलक्षणा न युक्ता, श्रुतिभिरेव स्वमतभेदेनोदितानुदितहोमवद्विकल्पस्य दर्शितत्वादित्यत आह
तद्धैक इति ।
एके शाखिन इत्यर्थो न भवति, किन्तु अनादिसंसारचक्रस्था वेदबाह्या इत्यर्थः । शून्यनिरासेन श्रुतिभिः सद्वादस्यैवेष्टत्वात्तासां विरोधस्फूर्तिनिरासाय लक्षणा युक्तेति भावः ।
यदुक्तं क्वचिदकर्तृका सृष्टिः कथितेति, तन्नेत्याह
तद्धेदमिति ।
अध्यक्षः कर्ता ।
ननु कर्त्रभाव एव परामृश्यत इत्यत आह
चेतनस्य चायमिति ।
चक्षुर्द्रष्टा, श्रोत्रं श्रोता, मनो मन्तेत्युच्यत इत्यर्थः ।
आद्यकार्यं सकर्तृकम् , कार्यत्वात् , घटवदित्याह
अपिचेति ।
अद्यत्वे इदानीम् ।
ननु कर्मकारकादन्यस्य कर्तुः सत्त्वे कर्मण एव कर्तृवाचिलकारो विरुद्ध इत्यत आह
व्याक्रियत इति ।
अनायासेन सिद्धिमपेक्ष्य कर्मणः । कर्तृत्वमुपचर्यत इत्यर्थः ।
व्याक्रियते जगत्स्वयमेव निष्पन्नमिति व्याख्याय केनचिद्व्याकृतमिति व्याचष्टे
यद्वेति ।
अतः श्रुतीनामविरोधात्कारणद्वारा समन्वय इति सिद्धम् ॥ १५ ॥