भाष्यरत्नप्रभाव्याख्या
अर्थान्तरत्वादिव्यपदेशाधिकरणम्
आकाशो व्यपदेशात् । छान्दोग्यमुदाहरति
आकाश इति ।
यथोपक्रमबलाज्ज्योतिःश्रुतिबाधस्तथाकाशोपक्रमाद्ब्रह्मादिशब्दबाध इति दृष्टान्तेन पूर्वपक्षयति
भूतेति ।
श्रुतैर्गुणैराकाशोपास्तिर्निर्गुणब्रह्मज्ञानं चेत्युभयत्र फलम् ।
'आकाशस्तल्लिङ्गात्’ इत्यनेन पौनरुक्त्यमाशङ्क्य तद्वदत्र स्पष्टलिङ्गाश्रवणादिति परिहरति
स्रष्टृत्वादेश्चेति ।
वै नामेति प्रसिद्धिलिङ्गस्याकाशश्रुतेश्च वाक्यशेषगताभ्यां ब्रह्मात्मश्रुतिभ्यामनेकलिङ्गोपेताभ्यां बाधो युक्तः ।
यत्र बहुप्रमाणसंवादस्तत्र वाक्यस्य तात्पर्यमिति निर्णयादिति सिद्धान्तयति
परमेवेत्यादिना ।
नामरूपे शब्दर्थौ तदन्तःपातिनस्तद्भिन्नत्वे तत्कर्तृत्वं चायुक्तमित्यर्थः ।
नामादिकर्तृत्वं न ब्रह्मलिङ्गम् , जीवस्थत्वादिति शङ्कते
नन्विति ।
'अनेन जीवेन’ इत्यत्र जीवस्य ब्रम्हाभेदेन तत्कर्तृत्वमुच्यते साक्षादयोगादिति परिहरति
बाढमिति ।
यच्चोक्तं स्पष्टं लिङ्गं नास्तीति, तत्राह
नामेति ।
तर्हि पुनरुक्तिः, तत्राह
आकाशेति ।
तस्यैव साधकोऽयं विचारः । अत्राकाशशब्दस्य ब्रह्मणि वृत्तिं सिद्धवत्कृत्य तत्र संशयादिप्रवृत्तेरुक्तत्वादिति न पौनरुक्त्यमिति भावः ॥ ४१ ॥