अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

गुहाप्रविष्टाधिकरणम्

अत्तृ­वा­क्या­न­न्त­र­वा­क्य­स्यापि ज्ञेयात्मनि समन्वयमाह
गुहामिति ।
ऋतमवश्यम्भावि कर्मफलं पिबन्तौ भुञ्जानौ, सुकृतस्य कर्मणो लोके कार्ये देहे परस्य ब्रह्मणोऽर्धं स्थानमर्हतीति परार्धं हृदयं परमं श्रेष्ठं तस्मिन्या गुहा नभोरूपा बुद्विरूपा वा तां प्रविश्य स्थितौ छायातपवत् मिथो विरुद्वौ तौ च ब्रह्मविदः कर्मिणश्च वदन्ति । त्रिर्ना­चि­के­तोऽ­ग्नि­श्चितो यैस्ते त्रिणाचिकेताः तेऽपि वदन्तीत्यर्थः । नाचि­के­त­वा­क्या­ना­म­ध्य­य­नम् , तदर्थज्ञानम् , तदनुष्ठानं चेति त्रित्वं बोध्यम् ।

बुद्ध्य­व­च्छि­न्न­जी­वस्य परमात्मनश्च प्रकृ­त­त्वा­त्सं­श­य­माह
तत्रेति ।

पूर्वो­त्त­र­प­क्षयोः फलं स्वयमेवाह
यदीत्यादिना ।
तदपि जीवस्य बुद्वि­वै­ल­क्ष­ण्य­म­पी­त्यर्थः । मनुष्ये प्रेते मृते सति येयं विचिकित्सा संशयः परलोके भोक्ता­स्ती­त्येके, नास्तीत्यन्ये । अत­स्त्व­यो­प­दि­ष्टोऽ­ह­मे­त­दा­त्म­तत्त्वं जानीयामित्यर्थः । तदपि पर­मा­त्म­स्व­रू­प­म­पी­त्यर्थः ।

उभ­यो­र्भो­क्तृ­त्वा­यो­गेन संशयमाक्षिपति
अत्राहेति ।

छत्रिपदेन गन्तार इव पिब­त्प­दे­ना­ज­ह­ल्ल­क्ष­णया प्रवि­ष्टा­वु­च्येते इत्याह
अत्रोच्यत इति ।

पान­क­र्तृ­वा­चि­प­देन पानानुकूलौ वा लक्ष्यावित्याह
यद्वेति ।
निय­त­पू­र्व­भा­वि­कृ­ति­म­त्त्व­रू­प­म­नु­कू­लत्वं कर्तृकारयित्रोः साधारणम् । यः कारयति स करोत्येवेति न्यायादिति भावः । अत्र प्रकृ­ति­र्मु­ख्यार्था शतृप्रत्यये लक्षणा । मिश्रास्तु कृतिः, प्रत्ययार्थो मुख्यः । प्रकृत्या त्वजहल्लक्षणया पायनं लक्ष्यमित्याहुः ।

पूर्वपक्षे 'पिबन्तौ' इति कर्तृ­वा­चि­श­तृ­प्र­त्य­येन बुद्धि­जी­व­सा­धा­रणं कारकत्वं लक्ष्यमित्याह
बुद्वीति ।
एधांसि काष्ठानि पच­न्ती­त्या­ख्या­तेन कारकत्वं लक्ष्यम् , प्रकृतिस्तु मुख्यैवेति भावः ।

मुख्यपातारौ प्रसिद्वपक्षिणौ ग्राह्यावित्यत आह
न चेति ।

ब्रह्म­क्ष­त्र­प­दस्य संनि­हि­त­मृ­त्यु­प­दा­द­नि­त्य­व­स्तु­प­र­त्व­व­दि­हापि पिबत्पदस्य संनि­हि­त­गु­हा­प­दा­द्बु­द्धि­जी­व­प­र­तेति दृष्टान्तेन पूर्वपक्षयति
किं तावदिति ।
गोचरः फलम् ।

एकस्मिञ्जातिमति कॢप्ते सजातीयमेव द्वितीयं ग्राह्यम् , व्यक्ति­मा­त्र­ग्रहे लाघवात् । न विजातीयम् , जाति­व्य­क्त्यु­भ­य­क­ल्प­ना­गौ­र­वात् । न चास्तु कारकत्वेन सजातीया बुद्विरेव जीवस्य द्वितीयेति वाच्यम् , चेतनत्वस्य जीवस्वभावस्य कार­क­त्वा­द­न्त­र­ङ्ग­त्वात् । तथाच लोके द्विती­य­स्या­न्त­र­ङ्ग­जा­ति­म­त्त्व­द­र्श­ना­ज्जी­वस्य द्वितीयश्चेतन एवेति सूत्रार्थमाह
सङ्ख्याश्रवणे चेति ।
गुहायां बुद्वौ स्थितम् , गह्व­रेऽ­ने­का­न­र्थ­स­ङ्कुले देहे स्थितं पुरा­ण­म­ना­दि­पु­रुषं विदित्वा हर्षशोकौ जहाति । परमे श्रेष्ठे, व्योमन् हार्दाकाशे या गुहा बुद्धिः तस्यां निहितं ब्रह्म यो वेद सोऽश्नुते सर्वा­न्का­मा­नि­त्य­न्वयः । अन्विच्छ विचारयेत्यर्थः ॥ ११ ॥

विशेषणं गन्तृ­ग­न्त­व्य­त्वा­दिकं लिङ्गमाह
विशेषणाच्चेति ।
स जीवोऽध्वनः संसारमार्गस्य परमं पारम् , किं तत् , विष्णो­र्व्या­प­न­शी­लस्य परमात्मनः पदं स्वरू­प­मा­प्नो­ती­त्यर्थः । दुर्दर्शं दुर्ज्ञानम् , तत्र हेतुर्गूढं मायावृतं मायानुप्रविष्टं पश्चाद्गुहाहितं गुहाद्वारा गह्वरेष्ठम् , एवं बहि­रा­ग­त­मा­त्मा­नम् , अध्यात्मयोगः स्थूल­सू­क्ष्म­का­र­ण­दे­ह­ल­य­क्र­मेण प्रत्यगात्मनि चित्तसमाधानं तेनाधिगमो महावाक्यजा वृत्तिस्तया विदित्वेत्यर्थः ।

ऋतपानमन्त्रे जीवानुवादेन वाक्या­र्थ­ज्ञा­नाय तत्पदार्थो ब्रह्म प्रतिपाद्यत इत्युपसंहरति
तस्मादिहेति ।

उक्त­न्या­य­म­ति­दि­शति
एष इति ।
द्वा द्वौ । छान्दसो द्विवचनस्याकारः । सुपर्णाविव सहैव युज्येते निय­म्य­नि­या­म­क­भा­वे­नेति सयुजौ । सखायौ चेतनत्वेन तुल्यस्वभावौ । समानमेकं वृक्षं छेदनयोग्यं शरीरमाश्रित्य स्थितावित्यर्थः । गुहां प्रविष्टाविति यावत् ।

एतावात्मानौ, तल्लि­ङ्ग­द­र्श­ना­दि­त्याह
तयोरन्य इति ।

विशे­ष­णा­च्चे­त्याह
अनन्तरे चेति ।

अनीशया स्वस्ये­श्व­र­त्वा­प्र­तीत्या देहे निमग्नः पुरुषो जीवः शोचति । निमग्नपदार्थमाह
मुह्यमान इति ।
नरोऽहमिति भ्रान्त इत्यर्थः । जुष्टं ध्यानादिना सेवितं यदा ध्यान­प­रि­पा­क­द­शा­या­मी­श­मन्यं विशि­ष्ट­रू­पा­द्भिन्नं शोधितचिन्मात्रं प्रत्यक्त्वेन पश्यति तदास्य महिमानं स्वरूपमेति प्राप्नोतीव । ततो वीतशोको भवतीत्यर्थः ।

'द्वा सुपर्णा' इति वाक्यं जीवेश्वरपरं कृत्वा चिन्तितम् । अधु­ना­कृ­त्वा­चि­न्ता­मु­द्धा­ट­यति
अपर इति ।
अन्यथा बुद्धि­वि­ल­क्ष­णत्वं पद­ल­क्ष्य­प­र­त्वे­ने­त्यर्थः ।

सत्त्वं बुद्धिरिति शङ्कते
सत्त्वशब्द इति ।

बुद्धिजीवौ चेत्पू­र्व­प­क्षार्थः स्यादित्यत आह
नापीति ।
पूर्व­प­क्षा­र्थ­स्तदा स्यात् , यद्यत्र बुद्धिभिन्नः संसारी प्रतिपाद्येत । नह्यत्र संसारी विवक्ष्यते किन्तु शोधितस्त्वमर्थो ब्रह्मेत्यर्थः । श्रुति­स्मृ­ति­भ्य­श्चा­य­मर्थो युक्त इति शेषः । तावता मन्त्र­व्या­ख्या­मा­त्रेण । एवमेव जीवस्य ब्रह्म­त्वो­क्ता­वेव । नाहि जीवो बुद्धिभिन्न इति विवे­क­मा­त्रे­णो­प­सं­हारो युक्तः । भेदज्ञानस्य भ्रन्ति­त्वा­द्वै­फ­ल्या­च्चेति भावः । अविद्या विदुषि किमपि स्वकार्यं नाध्वंसते न सम्पादयति, ज्ञानाग्निना स्वस्या एव दग्ध­त्वा­दि­त्यर्थः । अविद्या नागच्छतीति वार्थः ।

जीवस्य ब्रह्मत्वपरमिदं वाक्यमिति पक्षे शङ्कते
कथमिति ।

बुद्धे­र्भौ­क्तृ­त्वो­क्ता­व­ता­त्प­र्या­न्नात्र युक्तिचिन्तया मनः खेदनीयमित्याह
उच्यत इति ।
तदर्थं ब्रह्म­त्व­भो­ध­नार्थं भोक्तृ­त्व­मु­पा­धि­म­स्तके निक्षि­प­ती­त्यर्थः ।

वस्तुतो जीव­स्या­भो­क्तृत्वे भोक्तृत्वधीः कथमित्यत आह
इदं हीति ।
चित्तादात्म्येन कल्पिता बुद्धिः सुखादिरूपेण परिणमते । बुद्ध्य­वि­वे­का­च्चि­दा­त्मनः सुखा­दि­रू­प­वृ­त्ति­व्य­क्त­चै­त­न्य­वत्त्वं भोक्तृत्वं भातीत्यर्थः ।

भोक्तृ­त्व­मा­वि­द्य­कम् , न वस्तुत इत्यत्र मानमाह
तथाचेति ।
यत्राविद्याकाले चैतन्यं भिन्नमिव भवति तदा । द्रष्टृत्वादिकं न वस्तुनि ज्ञात इत्यर्थः । तस्मात् 'ऋतं पिबन्तौ' इति वाक्यमेव गुहाधिकरणविषय इति स्थितम् ॥ १२ ॥