अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

सर्वोपेताधिकरणम्

सर्वोपेता ।

मायाशक्तिमतो ब्रह्मणो जगत्सर्गं वदतः सम­न्व­य­स्या­श­री­रस्य न मायेति न्यायेन विरोधोऽस्ति न वेति सन्देहे न्याय­स्या­ना­भा­स­त्वा­द­स्तीति पूर्वपक्षे पूर्वो­क्त­श­क्ति­म­त्त्व­स­म­र्थ­ना­दे­क­वि­ष­यत्वं सङ्गतिं वदन् सिद्धान्तसूत्रं व्याचष्टे -
एकस्येत्यादिना ।
पूर्वो­त्त­र­प­क्ष­यो­र्वि­रो­धा­वि­रोधौ फल­मि­त्यु­क्त­मे­वा­पा­द­स­मा­प्ते­र­व­ग­न्त­व्यम् । अभ्यात्तः अभितो व्याप्तः । अवाकी वागि­न्द्रि­य­शून्यः । अनादरो निष्कामः ॥३०॥

पूर्व­प­क्ष­न्या­य­म­नूद्य दूषयति -
विकरणत्वादिति ।
देवादिचेतनानां शक्तानामपि देहाभिमाने सत्येव कर्तृत्वं दृष्टं तदभावे सुषुप्ते तन्न दृष्टम् , अतो ब्रह्मणः शक्त­त्वेऽ­प्य­दे­ह­त्वान्न कर्तृत्वम् । नाप्यदेहस्य शक्तिः सम्भवतीति शङ्कार्थः । विकरणस्य जीवस्य कर्तृ­त्वा­स­म्भ­वेऽ­पी­श्व­रस्य सम्भवतीति, 'देवा­दि­व­दपि लोके' इत्यत्रोक्तम् । तत्र शरीरस्य कल्पितस्य माया­श्र­य­त्वा­यो­गा­न्नि­र्वि­शे­ष­चि­न्मा­त्र­स्यैव मायाधिष्ठानत्वं युक्तमिति समाधानार्थः ॥३१॥