अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

कर्मानुस्मृतिशब्दविध्यधिकरणम्

स एव तु कर्मा­नु­स्मृ­ति­श­ब्द­वि­धिभ्यः ।

सुषुप्तौ उपा­धि­ना­शा­त्क­र्मा­नु­स्मृ­त्या­दे­र्द­र्श­नाच्च संशये सत्य­स्मा­द्ब्र­ह्मणो जीव­स्यो­त्था­न­श्रु­ते­र्ब्र­ह्मैव सुषु­प्ति­स्था­न­मि­त्यु­क्त­म­यु­क्तम् । सुप्ता­द­न्य­स्या­प्यु­त्था­न­सं­भ­वेन सुषुप्तस्य नाड्या­दि­स्था­न­त्व­सं­भ­वा­दि­त्या­क्षे­प­सं­गत्या निया­म­का­भा­वा­द­नि­यम इति पूर्वपक्षमाह -
तस्याः पुनरित्यादिना ।
पूर्वपक्षे ज्ञानवैयर्थ्यं सुषु­प्त्यै­वा­पु­न­रा­वृ­त्ति­रू­प­मु­क्ति­सिद्धेः, सिद्धान्ते तु अज्ञा­त­ब्र­ह्मा­त्मना स्थित­स्या­ज्ञा­न­ब­लेन पुन­स्त­स्यै­वो­त्था­ना­व­श्यं­भा­वा­द­ज्ञा­न­ना­शाय ज्ञानापेक्षेति फलम् । ईश्वरो वेत्य­नि­य­म­दा­र्ढ्या­यो­क्तम् । स वान्यो वेत्येव पूर्वपक्षः ।

ज्ञानं विना बुद्ध्या­द्यु­पा­धे­र­त्य­न्त­ना­शा­भा­वा­द्यया बुद्ध्योपहितो जीवः सुषुप्तौ कारणात्मना स्थितस्तस्यैव नाना­क­र्मा­नु­भ­व­सं­स्का­र­व­त्यो­प­हित उत्तिष्ठतीति सिद्धान्तयति -
स एव त्वित्यादिना ।
सामि­कृ­त­स्या­र्ध­कृ­तस्य एकस्यैव ज्योति­ष्टो­मा­दे­र­ने­क­य­ज­मा­न­क­त्वा­पा­तोऽ­ति­प्र­सङ्गः ।

स्मृति­मु­क्त्वा­नु­श­ब्द­सू­चितां प्रत्यभिज्ञामाह -
सोऽहमिति ।
अयनं गमनम् आयः । योनिः तत्त­दि­न्द्रि­य­स्था­नम् । प्रतिनियतं गमनं यथा भवति तथा प्रति­यो­न्या­ग­च्छति जागरणायेति श्रुत्यर्थः । न विन्द­ती­त्य­ज्ञा­न­स­त्त्वा­त्सु­प्त­स्यो­त्था­न­नि­यम उक्तः । इह पूर्वप्रबोधे ये भवन्ति त एव तदोत्तरप्रबोधे भवन्तीत्यर्थः ।

विधिं व्याचष्टे -
कर्मेति ।
स एवोत्तिष्ठतीति निश्चीयते इत्यर्थः ।

अत्रैवोत्सूत्रं युक्त्यन्तरमाह -
अपि चेत्यादिना ।
अन्योत्थाने सुखादेर्न पूर्व­क­र्म­का­र्य­ते­त्य­कृ­त­सु­खा­द्या­गमः पूर्व­सु­प्त­जी­व­कृ­त­क­र्म­ना­श­श्चे­त्यर्थः ।

पूर्व­प­क्ष्युक्तं दृष्टान्तं वैषम्येण दूषयति -
यत्पु­न­रि­त्या­दिना ।

अस्म­दा­द्य­श­क्य­मपि विवेचनं प्राण्य­दृ­ष्टा­पेक्ष ईश्वरः करोतीति मत्वा दृष्टान्तमाह -
दृश्यते चेति ।

ब्रह्माभेदाच्च जीवस्य जल­बि­न्दु­वै­ष­म्य­मि­त्याह -
अपि चेति ।

अभेदे स वान्यो वोत्तिष्ठति इति चिन्तानवकाश इत्याशङ्क्य बुद्धिभेदेन जीव­भे­दा­च्चि­न्ते­त्याह -
एवं सतीति ।

सुषुप्तौ बुद्धिनाशेन प्रत्यहं बुद्ध्यु­पा­धि­भे­दा­दे­क­जी­वस्य व्यवहारो न स्यादित्यत आह -
स एवायमिति ।
स्थूल­सू­क्ष्मा­त्मना तिष्ठ­त्ये­को­पा­धि­रि­त्यर्थः ॥९॥