भाष्यरत्नप्रभाव्याख्या
कर्मानुस्मृतिशब्दविध्यधिकरणम्
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ।
सुषुप्तौ उपाधिनाशात्कर्मानुस्मृत्यादेर्दर्शनाच्च संशये सत्यस्माद्ब्रह्मणो जीवस्योत्थानश्रुतेर्ब्रह्मैव सुषुप्तिस्थानमित्युक्तमयुक्तम् । सुप्तादन्यस्याप्युत्थानसंभवेन सुषुप्तस्य नाड्यादिस्थानत्वसंभवादित्याक्षेपसंगत्या नियामकाभावादनियम इति पूर्वपक्षमाह -
तस्याः पुनरित्यादिना ।
पूर्वपक्षे ज्ञानवैयर्थ्यं सुषुप्त्यैवापुनरावृत्तिरूपमुक्तिसिद्धेः, सिद्धान्ते तु अज्ञातब्रह्मात्मना स्थितस्याज्ञानबलेन पुनस्तस्यैवोत्थानावश्यंभावादज्ञाननाशाय ज्ञानापेक्षेति फलम् । ईश्वरो वेत्यनियमदार्ढ्यायोक्तम् । स वान्यो वेत्येव पूर्वपक्षः ।
ज्ञानं विना बुद्ध्याद्युपाधेरत्यन्तनाशाभावाद्यया बुद्ध्योपहितो जीवः सुषुप्तौ कारणात्मना स्थितस्तस्यैव नानाकर्मानुभवसंस्कारवत्योपहित उत्तिष्ठतीति सिद्धान्तयति -
स एव त्वित्यादिना ।
सामिकृतस्यार्धकृतस्य एकस्यैव ज्योतिष्टोमादेरनेकयजमानकत्वापातोऽतिप्रसङ्गः ।
स्मृतिमुक्त्वानुशब्दसूचितां प्रत्यभिज्ञामाह -
सोऽहमिति ।
अयनं गमनम् आयः । योनिः तत्तदिन्द्रियस्थानम् । प्रतिनियतं गमनं यथा भवति तथा प्रतियोन्यागच्छति जागरणायेति श्रुत्यर्थः । न विन्दतीत्यज्ञानसत्त्वात्सुप्तस्योत्थाननियम उक्तः । इह पूर्वप्रबोधे ये भवन्ति त एव तदोत्तरप्रबोधे भवन्तीत्यर्थः ।
विधिं व्याचष्टे -
कर्मेति ।
स एवोत्तिष्ठतीति निश्चीयते इत्यर्थः ।
अत्रैवोत्सूत्रं युक्त्यन्तरमाह -
अपि चेत्यादिना ।
अन्योत्थाने सुखादेर्न पूर्वकर्मकार्यतेत्यकृतसुखाद्यागमः पूर्वसुप्तजीवकृतकर्मनाशश्चेत्यर्थः ।
पूर्वपक्ष्युक्तं दृष्टान्तं वैषम्येण दूषयति -
यत्पुनरित्यादिना ।
अस्मदाद्यशक्यमपि विवेचनं प्राण्यदृष्टापेक्ष ईश्वरः करोतीति मत्वा दृष्टान्तमाह -
दृश्यते चेति ।
ब्रह्माभेदाच्च जीवस्य जलबिन्दुवैषम्यमित्याह -
अपि चेति ।
अभेदे स वान्यो वोत्तिष्ठति इति चिन्तानवकाश इत्याशङ्क्य बुद्धिभेदेन जीवभेदाच्चिन्तेत्याह -
एवं सतीति ।
सुषुप्तौ बुद्धिनाशेन प्रत्यहं बुद्ध्युपाधिभेदादेकजीवस्य व्यवहारो न स्यादित्यत आह -
स एवायमिति ।
स्थूलसूक्ष्मात्मना तिष्ठत्येकोपाधिरित्यर्थः ॥९॥