अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

आसृत्युपक्रमाधिकरणम्

एवं बाह्ये­न्द्रि­याणां मनसि प्रथमं वृत्ति­ल­य­ला­भा­त्ततो मनोवृत्तेः प्राणे लयः प्राण­वृ­त्ते­र्भू­तो­प­हि­त­जीवे लय इत्यु­त्क्रा­न्ति­व्य­व­स्थोक्ता । सा च सर्वप्राणिषु तुल्येत्याह -
समाना चानुपोष्य ।

'पुरुषस्य प्रयतो वाङ्मनसि' इत्य­वि­शे­ष­श्रुतेः 'विद्य­या­मृ­त­म­श्नुते' इति श्रुतेश्च संशयमाह -
सेयमिति ।
विशयानानां सन्दि­हा­ना­ना­मि­त्यर्थः । पूर्वपक्षे सगु­ण­ब्र­ह्म­वि­द­स­म्ब­न्धि­त्व­मु­त्क्रा­न्ते­र्वि­शेषः साध्यते । ततोऽनूत्क्रान्त उपासको मुक्तिमश्नुत इति फलम् , सिद्धान्ते तूत्क्रान्तो ब्रह्मलोकभागीति फलभेदः ।

पूर्व­प­क्ष­मा­क्षिप्य समाधत्ते -
ननु विद्येत्यादिना ।

विद्ययामृतमिति श्रुति­नि­र्गु­ण­वि­द्या­व­त्परा । न तस्य प्राणा उत्क्रामन्तीति प्रतिषेधोऽपि तद्विषयः । अतः सगु­ण­वि­दोऽ­प्य­ज्ञ­स्यै­वो­त्क्रा­न्ति­रिति सिद्धान्तयति -
एवमिति ।
सृति­र्मा­र्ग­स्त­स्यो­प­क्र­मोऽ­र्चिः­प्रा­प्ति­स्ततः प्राक्तना उत्क्रा­न्ति­स्तुल्या, तत उपासको मूर्ध­न्य­ना­डी­द्वा­रा­र्चि­रा­दि­मार्गं प्राप्नोति नान्य इति विशेषः ।

यत्तु दह­रो­पा­स­क­स्या­मृ­तत्वं श्रुतं 'तयो­र्ध्व­मा­य­न्न­मृ­त­त्व­मेति' इति तदापेक्षिकमेव न मुख्यं 'यं कामं कामयते सोऽस्य सङ्कल्पादेव समु­त्ति­ष्ठति' इति भोग­श्र­व­णा­दि­त्याह -
अनुपोष्य चेदमिति ।
उष दाह इति धातोरिदं रूपम् ॥७॥