अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

अग्नीन्धनाद्यधिकरणम्

एव­मा­द्या­धि­क­र­ण­प्र­मेयं विद्या­स्वा­त­न्त्र्य­म­धि­क­र­ण­त्र­येण दृढी­कृ­त्या­द्या­धि­क­र­णस्य फलमाह -
अत एव चेति ।

ब्रह्मविद्या स्वफले मोक्षे जनयितव्ये सहकारित्वेन कर्माण्यपेक्षते न वेति वादि­वि­वा­दा­त्सं­शये तेनैति ब्रह्म­वि­त्पु­ण्य­कृ­त्तै­जस इत्यादिश्रुत्या ज्ञान­क­र्म­स­मु­च्च­येन मोक्ष­प्रा­प्ति­क­थ­ना­द­पे­क्षत इति प्राप्ते विद्याया मुक्ति­हे­तु­त्वा­द­वि­द्या­नि­वृ­त्त्या­ख्य­मुक्तौ न कर्मापेक्षेति सिद्धान्तयति -
पुरुषार्थ इति ।
अग्नीन्धनपदेन तत्साध्यकर्माणि लक्ष्यन्ते । पुण्यकृत्तैजसः शुद्धसत्वे ब्रह्म­वि­द्भूत्वा तेन वेदनेनैति ब्रह्म प्राप्नोतीति श्रुति­र्व्या­ख्ये­येति भावः ।

मुक्तावेव कर्म­णा­म­सा­म­र्थ्या­द­न­पेक्षा विद्यायां त्वस्ति चित्त­शु­द्धि­द्वारा तेषा­म­पे­क्षे­त्य­धिकं वक्तुमयमुपसंहार इत्यु­प­सं­हा­र­सू­त्रस्य फलमाह -
अधिकेति ॥२५॥