भाष्यरत्नप्रभाव्याख्या
पराधिकरणम्
यदुक्तं नेति नेतीत्यादिश्रुतिभिः ब्रह्मातिरिक्तं वस्तु निषिध्यत इति, तदयुक्तम् । सेत्वादिश्रुतिभिर्वस्त्वन्तरास्तित्वभानादित्याक्षिपति -
परमत इति ।
यद्यपि द्युभ्वाद्यधिकरणे सेतुशब्दो विधारकत्वेन गौणो व्याख्यातस्तथाप्युन्मानादिश्रुतीनां गतिमजानतोऽयं पूर्वपक्षः, तत्रोन्मानादिश्रुतीनां मुख्यत्वात्, सद्वयं ब्रह्मेति फलं सिद्धान्ते तूक्ताद्वितीयतत्पदलक्ष्यसिद्धिरिति विवेकः ।
ब्रह्म सद्वयं, सेतुत्वात्, लौकिकसेतुवत् । तीर्णत्वश्रुतेश्चेत्याह -
सेतुं तीर्त्वेति ।
जाङ्गलं वातभूयिष्ठमिति वैद्योक्तेः वातप्रचुरो देशो जाङ्गलं, इह तु देशमात्रं ग्राह्यम् । दिशश्चतस्रः कलाः प्रकाशवान्नाम पादः, पृथिव्यन्तरिक्षं द्यौः समुद्र इत्यनन्तवान्नाम पादः, अग्निः सूर्यश्चन्द्रो विद्युदिति ज्योतिष्मान्नाम पादः, चक्षुः श्रोत्रं वाङ्मन इत्यायतनवान्नाम पाद इति चतुष्पाद्ब्रह्मेति पादानामर्धानि अष्टौ शफा अस्येत्यष्टाशफं, पादेषु चतुर्षु प्रत्येकं चतस्रः कला इति षोडशकलमित्यर्थः । षोडशपणपरिमितं ताम्रं कार्षापणसंज्ञं भवति तद्वत्सद्वयं ब्रह्म, परिमितत्वादित्यर्थः ।
संबन्धित्वाच्च नगरवदित्याह -
तथा संबन्धेति ।
अन्यदमितमिति असङ्ख्यातमित्यर्थः । अन्यस्पर्शे अल्पत्वेन मितत्वनियमादिति मन्तव्यम् ।
भेदेनोक्तत्वाच्च घटवदित्याह -
भेदव्यपदेशश्चेति ।
अस्याक्षिस्थस्यामुनादित्यस्थेन सहेति यावत् ।
आधारतोऽतिदेशतश्च भेदमुक्त्वावधितोऽपि तमाह -
सावधिकं चेति ॥३१॥
सिद्धान्तसूत्रं व्याचष्टे -
तुशब्देनेत्यादिना ।
यदन्यत्तत्किं साद्यनादि वा, नाद्यः मानाभावात्कार्यस्य ब्रह्मानन्यत्वनिर्गुणयाच्चेत्युक्त्वा न द्वितीयः प्रागुत्पत्तेरद्वयत्वावधारणादित्याह -
न च ब्रह्मव्यतिरिक्तमिति ।
उक्तानुमानानामागमबाध इति भावः ।
उक्तं स्मारयित्वा हेतुनामसिद्धिमाह -
ननु सेत्वित्यादिना ।
किं सेतुश्रुत्या परसिद्धिरर्थाद्वा, नाद्य इत्युक्त्वा द्वितीयं शङ्कते -
तत्र परस्मिन्निति ।
सेतुत्वलिङ्गेनाद्वितीयत्वश्रुतिबाधनमन्याय्यमित्याह -
न चेति ।
लिङ्गं चासिद्धमित्याह -
अपि चेति ।
विधारकत्वं तु कल्पितद्वितीयापेक्षयापि युज्यत इति भावः ।
तीर्णत्वहेतुरप्यसिद्ध इत्याह -
सेतुं तीर्त्वेति ॥३२॥
परिमितत्वमप्यसिद्धमित्याह -
बुद्ध्यर्थ इति ।
वाक्प्राणचक्षुःश्रोत्राणि मनसः पादा अग्निवाय्वादित्यदिश आकाशस्य पादा ध्यानार्थं कल्पितास्तद्वद्ब्रह्मण उन्मानमित्यर्थः ।
लौकिकं दृष्टान्तमाह -
अथवेति ।
पादकल्पनां विनापि व्यवहारः किं न स्यादित्यत आह -
न हीति ।
कार्षापणस्य व्यवहाराय पादकल्पनावत्मन्दधियां ध्यानव्यवहाराय ब्रह्मण उन्मानकल्पनेत्यर्थः ॥३३॥
संबन्धभेदौ कल्पितौ न सत्यद्वितीयसाधकावित्याह -
स्थानेति ।
स्थानमुपाधिबुद्ध्यादिः । एकस्यैवोपाधिना भिन्नस्योपाधिशान्तौ सत्यां संबन्ध उपचर्यते । यथा सौरालोकादेरङ्गुल्याद्युपाधिना भिन्नस्योपाधिवियोगे महालोकाद्यात्मना संबन्धोपचारस्तद्वत्तथादित्य चक्षुषोः स्थानयोर्भेदाद्धिरण्मयपुरुषभेदकल्पनेत्यर्थः ॥३४॥
मुख्यावेव संबन्धभेदौ किं न स्यातामित्यत्र सूत्रम् -
उपपत्तेश्चेति ॥३५॥
स्वरूपेण ब्रह्मणा जीवस्य संबन्धो भेदनिवृत्तिरूपो युज्यते न मुख्यः संयोगादिः वस्तुद्वयासत्त्वात्तथा भेदोऽपि न स्वत एकत्वश्रुतेरित्यर्थः ॥३६॥
ननु द्वितीयाभावे सर्वगतत्वश्रुतिविरोध इत्यत आह -
अनेन सर्वगतत्वमिति ।
द्वितीयं सत्यं चेत्सेत्वादिवद्ब्रह्मणोऽल्पतास्यात् 'यत्रान्यत्पश्यति तदल्पम्' इति श्रुतेः किञ्च निरवयवासंगब्रह्मणः सत्यप्रपञ्चसंबन्धायोगात्तवैव सर्वगतत्वश्रुतिविरोध इति भावः अधिष्ठानेनाध्यस्तं जगद्व्याप्तमध्यस्तत्वात् रज्ज्वा व्याप्तसर्पवत्, इति न्यायः ॥३७॥