अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

विद्याज्ञानसाधनत्वाधिकरणम्

यदेव विद्ययेति हि ।

उक्तनित्यादिकं विषयमुपजीव्य सबीजं संशयमुक्त्वा पूर्वपक्षमाह -
विद्या­सं­यु­क्त­मे­वेति ।
अत्र पूर्वपक्षे कर्मा­ङ्गो­पा­स्ति­ही­न­क­र्मणो ज्ञाना­र्थ­त्वा­सिद्धिः, सिद्धान्ते तत्सिद्धिरिति भेदः । भवतु विद्या­वि­शि­ष्टस्य कर्मणो ज्ञानं प्रति शीघ्र­का­रि­त्वाख्यः कश्चिदतिशयो विद्या­सा­म­र्थ्यात् । नैतावता केवलस्य वैयर्थ्यं विवि­दि­षा­श्रु­ति­वि­रो­धात् । न च तत्र श्रुतौ यज्ञादिशब्दानां विद्यो­पे­त­क­र्म­प­र­तया सङ्कोचो युक्तः । हि यतः । 'यदेव विद्यया' इति श्रुतिः केवलस्यापि वीर्यवत्त्वं गमयतीति सिद्धा­न्त­ग्र­न्थार्थः ॥१८॥