अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

वागधिकरणम्

सूत्रे वृत्ति­प­दा­ध्या­हारः कथमिति शङ्कते -
कथमिति ।
उत्तरत्र हि सूत्र­कृ­त्त­त्त्व­विद इन्द्रियाणां स्वरूपलयं वक्ष्यति तद्ब­ला­दि­हा­ध्या­हार उचितः । अज्ञस्यापि इन्द्रि­य­ल­य­साम्ये वक्ष्य­मा­ण­वि­शे­षो­क्त्य­यो­गा­दिति समाध्यर्थः ।

प्रकृतावेव विकारलय इति न्याय­वि­रु­द्धार्थं श्रुतिरपि न ब्रूत इति सिद्धान्तयति -
अत­त्प्र­कृ­ति­त्वा­दिति ।
न्यायस्य निर­व­का­श­त्वा­द्ब­ली­यस्त्वं शब्दस्य तूक्तिर्वागिति व्युत्पत्त्या लक्षणया वा सावकाशत्वमिति द्योतयितुं शब्दा­च्चे­त्यु­क्तम् ॥१॥

वाच्युक्तं न्यायं चक्षु­रा­दि­ष्व­ति­दि­शति -
अत एवेति ।
उप­शा­न्त­दे­हौ­ष्ण्य­स्त­स्मा­दु­त्क्र­म­णा­दूर्ध्वं पुनर्भवं प्रतिपद्यत इति श्रुत्यर्थः । इन्द्रियशब्दस्य श्रुतिस्थस्य वृत्ति­प­र­त­यो­प­पत्तेः ।

सर्वे­न्द्रि­य­वृ­त्ति­ल­य­श्चे­दि­ष्ट­स्तर्हि वाङ्मनसीति पृथक्सूत्रं किमर्थमित्यत आह -
सर्वेषां करणानामिति ॥२॥