अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

काम्याधिकरणम्

काम्यास्तु ।

तट­स्थो­पा­स्त­योऽत्र विषयस्तासु किं विकल्प उत यथा­का­म­म­नु­ष्ठा­न­मिति पूर्ववत्संशये सत्यु­पा­स्ति­त्वा­वि­शे­षा­द­ह­ङ्ग्र­ह­व­द्वि­कल्प इति प्राप्तावपवादं सिद्धान्तयति -
अविशिष्टेति ।
स यः कश्चिदेतं वायुमेवं गोत्वेन कल्पितानां दिशां वत्सं वेदोपास्ते नासौ पुत्र­म­र­ण­नि­मित्तं रोदनं रोदिति लभते नित्यमेव जीवत्पुत्रो भवतीत्यर्थः । अह­ङ्ग्र­ह­दृ­ष्टान्ते साक्षा­त्का­र­द्वा­र­त्व­मु­पा­धि­रिति भावः ॥६०॥