अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

सर्वान्नानुमत्यधिकरणम्

सर्वान्नानुमतिः ।
एवंविदि प्राणस्यान्नं सर्वमिति ध्यानवतीत्यर्थः । जग्धं भक्षितम् । अपू­र्व­त्वा­द्वि­ध्य­श्रु­तेश्च संशयः ।

अपू­र्व­त्वा­द्य­ज्ञा­दि­व­द्विधिः कल्प्य इति इति पूर्वपक्षयति -
विधिरिति ।
अत्र भक्ष्या­भ­क्ष्य­नि­य­म­त्या­गस्य विद्या­ङ्ग­त्व­सिद्धिः फलं सिद्धान्ते तु विद्या­स्तु­ति­रिति विवेकः ।

न कलञ्जं भक्ष्येदिति शास्त्रं प्राण­वि­द्व्य­ति­रि­क्त­वि­ष­यम् । यथा ग्राम्यकर्मणि वाम­दे­व्य­सा­मो­पा­स­क­व्य­ति­रि­क्त­वि­षयं पर­स्त्री­नि­षे­ध­शास्त्रं तद्वदिति प्राप्ते सिद्धान्तं सूत्राद्बहिरेव दर्शयति -
नेदमिति ।
प्राण­वि­द्या­वि­धि­सं­नि­धे­र­श­क्य­त्वाच्च स्तुतिरेव न विधिः कल्प्यः निषे­ध­शा­स्त्र­वि­रो­धा­त्कॢप्तो हि विधिः सामा­न्य­शा­स्त्र­बा­धको नतु कल्प्य इति भावः ।

स्वस्थस्य प्राणविदो न सर्वा­न्ना­नु­म­ति­रि­त्यत्र लिङ्गं वदन् सूत्रं योजयति -
तद्दर्शयतीति ।
मटच्यो रक्त­क्षु­द्र­प­क्षि­ण­स्तै­र्ह­तेषु कुरु­दे­श­स्थ­स­स्येषु दुर्भिक्षे जाते बालया सह जायया मुनिर्देशान्तरं गच्छ­न्नि­भ्या­ग्रामे स्थितवानिभ्यो हस्तिपालकस्तेन सामि­खा­दि­ता­न­र्ध­भ­क्षि­तान् कुत्सितमाषान् याचयित्वा भक्षितवान् । इभ्वेन जलं गृहाणेत्युक्ते सत्युच्छिष्टं वै मे पीतं स्यादिति प्रतिषिध्य माषाः किं नोच्छिष्टा इतीभ्येनोक्ते सति माषभक्षणे जलत्यागे च कारणमुवाच । अन्नांशे मम आपदस्ति । जलपानं तु स्वेच्छा­त­स्त­डा­गादौ लभ्यत इति माषान् खादि­त्वा­व­शि­ष्टा­ञ्जा­यायै दत्तवान् । सा चानापद्गता पत्युरापदं ज्ञात्वा माषान्संरक्ष्य प्रातस्तस्मै ददौ । स च तान् खादित्वा राज्ञो यज्ञं गत्वा प्रस्तो­त्रा­दी­ना­क्षिप्य प्राणादिकां प्रास्ता­वा­दि­दे­व­ता­मु­प­दीश्य धनं प्राप्य स्थित इति भावः । अत्रो­च्छि­ष्ट­भ­क्ष­ण­ज­ल­त्या­गा­त्म­क­शि­ष्टा­चा­र­लि­ङ्गा­च्छ्रौ­ता­द­ना­पदि विदु­षा­प्य­भक्ष्यं न भक्षणीयमिति सूच्यत इति भावः ॥२८ ॥ ॥२९॥

सुरापानेनापि जीवनमाशङ्क्य कदापि तन्न कार्यमित्याह -
तथा मद्यं नित्यं ब्रह्मण इति ।
वर्जयोदिति शेषः ।

कुत इत्याशङ्क्य मर­णा­न्त­प्रा­य­श्चि­त्त­वि­धा­ना­दि­त्याह -
सुरापस्येति ।
उष्णामतितप्तां सुरामिति शेषः ।

इतश्च सा न पेयेत्याह -
सुरापा इति ॥३०॥

उदाहृतस्मृतीनां मूलश्रुतिमाह -
शब्दश्चेति ।
कामकारो यथे­ष्ट­प्र­वृत्तिः सोऽपि निषेधोऽपि उपपन्नतरो भवति । न ह वा एवं­वि­दी­त्य­स्या­र्थ­वा­द­त्वात् । यद्ययमपि विधिः स्यात्तर्हि विहि­त­प्र­ति­षि­द्ध­त्वा­त्षो­ड­शि­ग्र­ह­णा­ग्र­ह­ण­व­त्सु­रा­पाने विकल्पः स्यात्स च सर्वस्मृतिभिः शिष्टाचारेण च विरुद्ध इति तात्पर्यार्थः ॥३१॥