अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

चतुर्थाध्याये तृतीयः पादः

चतुर्थेऽध्याये तृतीयः पादः ।
एवमुत्क्रान्तिं निरूप्य तत्साध्यं मार्गं गन्तव्यं च निरूपयितुं पादमारभते -
अर्चिरादिना तत्प्रथितेः ।

वृत्ता­नु­वा­द­पू­र्व­क­मा­द्या­धि­क­र­णस्य विषयं मार्गमाह -
आसृतीति ।
विरजा विरजसः निष्पापा इत्यर्थः । श्रुति­वि­प्र­ति­पत्त्या संशयः । पूर्वं यदा­क­दा­चि­न्मृ­त­स्यापि फल­प्रा­प्ति­रुक्ता तद्वद्येन केनचिन्मार्गेण गतिरिति पूर्वपक्षफलं विकल्पः, सिद्धान्ते मार्गैक्यमिति विवेकः । उपा­स­ना­भे­दा­त्त­च्छे­ष­त्वेन ध्येयानां मार्गाणां भेदः, एवकाराच्च । किञ्च मार्गभेदे सत्यस्मादयं मार्गस्त्वरया प्रापक इति युक्तं न मार्गैक्य इत्यर्थः ।

उपा­स­ना­भे­देऽ­प्यु­पा­स्य­ब्र­ह्मै­क्य­व­न्मा­र्गै­क्य­म­वि­रु­द्ध­मिति सिद्धान्तयति -
एवमिति ।
तस्य मार्गस्य प्रसि­द्ध­त्वा­दिति हेत्वर्थः ।