अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

साम्परायाधिकरणम्

संपराये अन्ये ।
व्यध्वनि अर्धमार्गे ।

पूर्वोक्तं विधूननस्य हानत्वमुपजीव्य हानस्य नदी­त­र­णा­न­न्त­र्य­श्रु­ते­र­श्वैव रोमाणि इत्यादौ देह­त्या­गा­त्प्रा­क्का­ल­त्व­श्रु­तेश्च संशयमाह -
तत्किमिति ।
ब्रह्म­लो­क­मा­र्ग­मध्ये विरजाख्यां नदीमत्येति तत्सु­कृ­त­दु­ष्कृते विधूनुते, इत्यत्र तदि­ति­स­र्व­ना­म­श्रु­त्या­स्ते­ने­त्य­र्थ­तया संनि­हि­त­न­दी­त­र­णस्य कर्म­हा­नि­हे­तु­त्वो­क्ते­र­र्ध­पथे कर्मक्षय इति पूर्वपक्षः ।

तत्र विद्यायाः कर्म­क्ष­य­हे­तु­त्वा­सिद्धेः पूर्वपक्षे, सिद्धान्ते तत्सिद्धिरिति मत्वा सिद्धान्तयति -
सांपराय इति ।
मर­णा­त्प्रा­गि­त्यर्थः । संपरेतस्य मृतस्य कञ्चित्कालं कर्मसत्त्वे फला­भा­वा­द्दे­व­या­न­मा­र्ग­प्र­वे­शा­यो­गा­च्चा­दा­वेव क्षय इत्यर्थः ।

क्षय­हे­तो­र्वि­द्याया मध्ये­मा­र्ग­म­स­त्त्वा­च्चे­त्याह -
विद्या­वि­रु­द्धेति ।

नदी­त­र­णा­न­न्त­र­पा­ठस्तु बाध्यः, अर्थ­वि­रो­धा­दि­त्याह -
तस्मादिति ।
तदिति सर्वनाम्नापि प्रकृ­त­वि­द्यै­वो­च्यत इति भावः ॥२७॥

किञ्च मृतस्य छन्दतो यथाकामं विद्या­नु­ष्ठा­ना­नु­प­प­त्ते­रु­भ्यो­र्वि­द्या­क­र्म­क्ष­ययोः श्रुतो हेतुफलभावो विरुध्यते । किञ्च सति पुष्कलहेतौ न कार्यविलम्ब इति न्यायो­पे­त­ता­ण्ड्या­दि­श्रु­ति­वि­रो­ध­स्तव स्यादस्मत्पक्षे त्वविरोध इत्याह -
छन्दत इति ।
तस्मा­त्क­र्म­हा­नस्य विद्या­फ­ल­त्वा­त्के­व­ल­हा­ना­वु­पा­य­नो­प­सं­हारो विद्यास्तुतय इति सिद्धम् ॥२८॥