भाष्यरत्नप्रभाव्याख्या
साम्परायाधिकरणम्
संपराये अन्ये ।
व्यध्वनि अर्धमार्गे ।
पूर्वोक्तं विधूननस्य हानत्वमुपजीव्य हानस्य नदीतरणानन्तर्यश्रुतेरश्वैव रोमाणि इत्यादौ देहत्यागात्प्राक्कालत्वश्रुतेश्च संशयमाह -
तत्किमिति ।
ब्रह्मलोकमार्गमध्ये विरजाख्यां नदीमत्येति तत्सुकृतदुष्कृते विधूनुते, इत्यत्र तदितिसर्वनामश्रुत्यास्तेनेत्यर्थतया संनिहितनदीतरणस्य कर्महानिहेतुत्वोक्तेरर्धपथे कर्मक्षय इति पूर्वपक्षः ।
तत्र विद्यायाः कर्मक्षयहेतुत्वासिद्धेः पूर्वपक्षे, सिद्धान्ते तत्सिद्धिरिति मत्वा सिद्धान्तयति -
सांपराय इति ।
मरणात्प्रागित्यर्थः । संपरेतस्य मृतस्य कञ्चित्कालं कर्मसत्त्वे फलाभावाद्देवयानमार्गप्रवेशायोगाच्चादावेव क्षय इत्यर्थः ।
क्षयहेतोर्विद्याया मध्येमार्गमसत्त्वाच्चेत्याह -
विद्याविरुद्धेति ।
नदीतरणानन्तरपाठस्तु बाध्यः, अर्थविरोधादित्याह -
तस्मादिति ।
तदिति सर्वनाम्नापि प्रकृतविद्यैवोच्यत इति भावः ॥२७॥
किञ्च मृतस्य छन्दतो यथाकामं विद्यानुष्ठानानुपपत्तेरुभ्योर्विद्याकर्मक्षययोः श्रुतो हेतुफलभावो विरुध्यते । किञ्च सति पुष्कलहेतौ न कार्यविलम्ब इति न्यायोपेतताण्ड्यादिश्रुतिविरोधस्तव स्यादस्मत्पक्षे त्वविरोध इत्याह -
छन्दत इति ।
तस्मात्कर्महानस्य विद्याफलत्वात्केवलहानावुपायनोपसंहारो विद्यास्तुतय इति सिद्धम् ॥२८॥