भाष्यरत्नप्रभाव्याख्या
चमसाधिकरणम्
चमसवदविशेषात् । अत्राजापदं विषयः, तत्किं प्रधानपरं मायापरं वेति रूढ्यर्थासम्भवात्संशये पूर्वत्राव्यक्तशब्दमात्रेण प्रधानस्याप्रत्यभिज्ञायामप्यत्र त्रिगुणत्वादिलिङ्गोपेतादजापदात्प्रत्यभिज्ञास्तीति प्रत्युदाहरणेन पूर्वपक्षयति
पुनरपीति ।
फलं पूर्वपक्षे ब्रह्मणि समन्वयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति पूर्ववद्द्रष्टव्यम् ।
रागहेतुत्वादिगुणयोगात् लोहितादिशब्दै रजआदिगुणलाभेऽपि कथं प्रधानलाभः, तत्राह
तेषां साम्येति ।
अवयवाः प्रधानस्य रजआदयस्तेषां धर्मा रञ्जकत्वादयः तैर्निमित्तैर्लोहितादिशब्दैः प्रधानमुच्यत इत्यर्थः । गुणाभेदात्प्रधानलाभ इति भावः ।
तत्राजाशब्दं योजयति
नेति ।
'रूढिर्योगमपहरति' इति न्यायेन शङ्कते
नन्विति ।
रूढ्यसम्भवाद्योग आश्रयणीय इत्याह
बाढमिति ।
अजाशब्दितप्रकृतित्वपुरुषभेदलिङ्गाभ्यामपि प्रधानप्रत्यभिज्ञेत्याह
सा चेत्यादिना ।
प्रजायन्त इति प्रजा महदादयः । त्रैगुण्यं सुखदुःखमोहाः ।
अनुशयनं विवृणोति
तामेवाविद्ययेति ।
अविवेकेनेत्यर्थः । विषयधीर्भोगः । गुणभिन्नात्मख्यातिरपवर्गः ।
सिद्धान्तयति
एवं प्राप्त इति ।
मायादावपि साधारणान्मन्त्राद्विशेषार्थग्रहो न युक्तः, विशेषग्रहहेतोः प्रकरणादेरभावादिति हेतुं व्याख्याय दृष्टान्तं व्याचष्टे
चमसवदिति ।
सर्वत्र गिरिगुहादावपि ॥ ८ ॥
उत्तरसूत्रव्यावर्त्यां शङ्कामाह
तत्र त्विदमिति ।
चतुर्विधस्येति ।
जरायुजाण्डजस्वेदजोद्भिज्जरूपस्येत्यर्थः ।
स्मृत्युक्ता कुतो न ग्राह्येति शङ्कते
कस्मादिति ।
श्रुतेः श्रुत्यन्तरादर्थग्रहो युक्तः, साजात्यान्मूलानपेक्षत्वाच्चेत्याह
तथा हीति ।
शाखिनश्छन्दोगाः ।
किञ्च लोहितादिशब्दैरपि द्रव्यलक्षणा न्याय्या अव्यवधानात्न तु रञ्जनीयत्वादिगुणव्यवहिता सत्त्वादिगुणलक्षणेत्याह
लोहितादीनां चेति ।
ननु शाखान्तरेण शाखान्तरस्थमन्त्रस्य निर्णयः कथमित्यत आह
असन्दिग्धेनेति ।
सर्वशाखाप्रत्ययन्यायादिति भावः ।
यथा शाखान्तरवाक्यान्न प्रधानग्रहस्तथेहापि श्वेताश्वतरोपनिषदि मायाप्रकरणान्न तद्ब्रह्म इत्याह
तथेति ।
सृष्ट्यादौ किंसहायं ब्रह्मेति विमृश्यते । ब्रह्मवादिनो ध्यानाख्ययोगेन परमात्मानमनुप्रविष्टाः सन्तः तत्रैव देवस्यात्मभूतामैक्येनाध्यस्तां शक्तिं परतन्त्रां मायां सत्त्वादिगुणवतीं ब्रह्मणः सहायमपश्यन्नित्यन्वयः । मायाया एकत्वेऽपि तदंशानां जीवोपाधीनां तत्तत्सङ्घातयोनीनामविद्याख्यानां भेदाद्वीप्सा । अव्याकृते अनभिव्यक्ते नामरूपे यस्यां सा । अनेन 'तद्धेदं तर्ह्यव्याकृतमासीत्' इति श्रुत्यन्तरप्रसिद्धिरुक्ता ।
तस्यां शक्तौ व्यक्ताव्यक्तकार्यलिङ्गकानुमानं सूचयति
नामेति ।
मायाया रोहितादिरूपवत्त्वं कथमित्यत आह
तस्या इति ।
विषय आश्रयः ॥ ९ ॥
एवं प्रकरणबलान्मायैवाजेति भाष्यकृन्मतम् । छान्दोग्यश्रुत्या तेजोऽबन्नलक्षणावान्तरप्रकृतिरजेति सूत्रकृन्मतेनोत्तरसूत्रव्यावर्त्यं शङ्कते
कथमिति ।
किं तेजोबन्नेष्वजाशब्दो रूढो, न जायत इति यौगिको वा । नाद्यः, तेष्वजात्वजातेरसत्त्वादित्याह
यावतेति ।
यत इत्यर्थः । अतो न रूढ इति शेषः ।
न द्वितीय इत्याह
नचेति ।
जातिर्जन्म । अजातिरजन्म ।
लौकिकाजाशब्दसादृश्यकल्पनया तेजोऽबन्नानामजात्वोपदेशाद्गौणोऽयं शब्द इति परिहरति
कल्पनेति ।
अनियमो यदृच्छा । बर्करो बालपशुः ।
यदुक्तं जीवभेदेन प्रधानवादप्रत्यभिज्ञेति, तन्नेत्याह
न चेदमिति ।
व्यवस्थार्थो भेदोऽप्यर्थात्प्रतिपाद्यत इत्याह
प्रसिद्धं त्विति ।
सत्य एव प्रसिद्ध इत्यत आह
भेदस्त्विति ।
कल्पनोपदेशे दृष्टान्तं व्याचष्टे
मध्विति ।
नच योगस्य मुख्यवृत्तित्वात्तेन प्रधानग्रहो न्याय्य इति वाच्यम् , रूढार्थानपेक्षाद्योगात्तदाश्रितगुणलक्षणाया बलीयस्त्वात् । गुणवृत्तौ हि रूढिराश्रिता भवति । तथाच रोहितादिशब्दसमभिव्याहारानुगृहीतया रूढ्याश्रितया गुणवृत्त्या प्रधाने योगं बाधित्वावान्तरप्रकृतिरजाशब्देन ग्राह्या, यथा मध्वादिशब्दैः प्रसिद्धमध्वाद्याश्रितगुणलक्षणया आदित्यादयो गृह्यन्ते तद्वत् । तस्मादशब्दं प्रधानमिति सिद्धम् ॥ १० ॥