भाष्यरत्नप्रभाव्याख्या
प्रयोजनवत्त्वाधिकरणम्
न प्रयोजनवत्त्वात् ।
परितृप्ताद्ब्रह्मणो जगत्सर्गं वदन् समन्वयो विषयः ।
स किमभ्रान्तश्चेतनो यः स निष्फलं वस्तु न रचयतीति न्यायेन विरुध्यते न वेति सन्देहे पूर्वमदेहस्यापि श्रुतिबलात् शक्तत्वोक्त्या कर्तृत्वमुक्तं तदाक्षेपसङ्गत्या पूर्वपक्षसूत्रं व्याचष्टे -
अन्यथेत्यादिना ।
ईश्वरस्य फलाभावेऽपि परप्रयोजनाय सृष्टौ प्रवृत्तिरस्त्वित्याशङ्क्य श्रुतिमाह -
भवति चेति ।
या प्रेक्षावत्प्रवृत्तिः सा स्वफलार्थेति लोकप्रसिद्धिः । न च दयालुप्रवृत्तौ व्यभिचारः, तस्यापि परदुःखासहनप्रयुक्तस्वचित्तव्याकुलतानिवृत्त्यर्थित्वादिति भावः ।
किञ्च गुरुतरायासस्य फलं वाच्यमित्याह -
गुरुतरेति ।
तर्ह्यस्तीश्वरस्यापि प्रवृत्तिः स्वार्थेत्यत आह -
यदीयमपीति ।
अस्वार्थत्वे प्रवृत्त्यभावः पूर्वोक्तः स्यादित्यर्थः ।
ईश्वरः प्रेक्षावान्न भवतीत्याशङ्क्य श्रुतिविरोधमाह -
अथेत्यादिना ।
बुद्धेरपराधो विवेकाभावः ॥३२॥
उक्तन्यायस्य राज्ञां लीलायां व्यभिचार इति सिद्धान्तसूत्रं व्याचष्टे -
तुशब्देनेति ।
व्यतिरिक्तम् । लीलातिरिक्तम् । क्रीडारूपा विहारा येषु रम्यदेशेषु तेष्वित्यर्थः ।
कदाचिद्राजादीनां लीलाया अपि किञ्चित्फलं सुखोल्लासादिकं सम्भाव्येत तथापि निःश्वासादौ प्रेक्षावत्प्रवृत्तित्वमस्ति न तु स्वस्य तत्रोद्देश्यं फलं किञ्चिदस्तीति व्यभिचारस्थलान्तरमाह -
यथा चेति ।
प्राणस्य स्वभावश्चलत्वं प्रारब्धं वोच्छ्वासादिहेतुः, ईश्वरस्य स्वभावः कालकर्मसहितमाया ।
नन्वीश्वरस्य जगद्रचनायाः केवललीलात्वं किमित्युच्यते, फलमेव किञ्चित् कल्प्यताम् , तत्राह -
न हीति ।
आप्तकामत्वव्याघातादित्यर्थः ।
नन्वीश्वरस्तूष्णीं किमिति न तिष्ठति, किमिति स्वस्याफलां परेषां दुःखावहां सृष्टिं करोति, तत्राह -
न च स्वभाव इति ।
कालधर्मादिसामाग्र्यां सत्यां सृष्टेरपरिहार्यत्वादित्यर्थः ।
यदुक्तं गुरुतरायासत्वात्फलं वाच्यमिति, तत्र हेत्वसिद्धिमाह -
यद्यपीत्यादिना ।
अल्पप्रवृत्तेरपि फलं वाच्यं लोके तथादर्शनादित्यादितर्कस्यागमबाधमाह -
यदि नामेति ।
सृष्टिश्रुतेरप्रवृत्तिर्नास्ति, सर्वज्ञत्वश्रुतेरुन्मत्तता नास्तीति विभागः ।
स्वप्नसृष्टिवदस्याः सृष्टेर्मायामात्रत्वान्न फलापेक्षेत्याह -
न चेयमिति ।
न च निष्फलसृष्टिश्रुतीनामानर्थक्यम् , सफलब्रह्मधीशेषत्वेनार्थवत्त्वादित्युक्तं न विस्मर्तव्यमित्यर्थः ॥३३॥