अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

प्रयोजनवत्त्वाधिकरणम्

न प्रयो­ज­न­व­त्त्वात् ।
परि­तृ­प्ता­द्ब्र­ह्मणो जगत्सर्गं वदन् समन्वयो विषयः ।

स किम­भ्रा­न्त­श्चे­तनो यः स निष्फलं वस्तु न रचयतीति न्यायेन विरुध्यते न वेति सन्देहे पूर्वमदेहस्यापि श्रुतिबलात् शक्तत्वोक्त्या कर्तृत्वमुक्तं तदा­क्षे­प­स­ङ्गत्या पूर्वपक्षसूत्रं व्याचष्टे -
अन्यथेत्यादिना ।

ईश्वरस्य फलाभावेऽपि परप्रयोजनाय सृष्टौ प्रवृ­त्ति­र­स्त्वि­त्या­शङ्क्य श्रुतिमाह -
भवति चेति ।
या प्रेक्षा­व­त्प्र­वृत्तिः सा स्वफलार्थेति लोकप्रसिद्धिः । न च दयालुप्रवृत्तौ व्यभिचारः, तस्यापि पर­दुः­खा­स­ह­न­प्र­यु­क्त­स्व­चि­त्त­व्या­कु­ल­ता­नि­वृ­त्त्य­र्थि­त्वा­दिति भावः ।

किञ्च गुरुतरायासस्य फलं वाच्यमित्याह -
गुरुतरेति ।

तर्ह्य­स्ती­श्व­र­स्यापि प्रवृत्तिः स्वार्थेत्यत आह -
यदीयमपीति ।
अस्वार्थत्वे प्रवृत्त्यभावः पूर्वोक्तः स्यादित्यर्थः ।

ईश्वरः प्रेक्षावान्न भवतीत्याशङ्क्य श्रुतिविरोधमाह -
अथेत्यादिना ।
बुद्धेरपराधो विवेकाभावः ॥३२॥

उक्तन्यायस्य राज्ञां लीलायां व्यभिचार इति सिद्धान्तसूत्रं व्याचष्टे -
तुशब्देनेति ।
व्यतिरिक्तम् । लीलातिरिक्तम् । क्रीडारूपा विहारा येषु रम्यदेशेषु तेष्वित्यर्थः ।

कदा­चि­द्रा­जा­दीनां लीलाया अपि किञ्चित्फलं सुखोल्लासादिकं सम्भाव्येत तथापि निःश्वासादौ प्रेक्षा­व­त्प्र­वृ­त्ति­त्व­मस्ति न तु स्वस्य तत्रोद्देश्यं फलं किञ्चिदस्तीति व्यभि­चा­र­स्थ­ला­न्त­र­माह -
यथा चेति ।
प्राणस्य स्वभावश्चलत्वं प्रारब्धं वोच्छ्वा­सा­दि­हेतुः, ईश्वरस्य स्वभावः कालकर्मसहितमाया ।

नन्वीश्वरस्य जगद्रचनायाः केवललीलात्वं किमित्युच्यते, फलमेव किञ्चित् कल्प्यताम् , तत्राह -
न हीति ।
आप्त­का­म­त्व­व्या­घा­ता­दि­त्यर्थः ।

नन्वी­श्व­र­स्तूष्णीं किमिति न तिष्ठति, किमिति स्वस्याफलां परेषां दुःखावहां सृष्टिं करोति, तत्राह -
न च स्वभाव इति ।
काल­ध­र्मा­दि­सा­माग्र्यां सत्यां सृष्टे­र­प­रि­हा­र्य­त्वा­दि­त्यर्थः ।

यदुक्तं गुरु­त­रा­या­स­त्वा­त्फलं वाच्यमिति, तत्र हेत्वसिद्धिमाह -
यद्यपीत्यादिना ।

अल्प­प्र­वृ­त्ते­रपि फलं वाच्यं लोके तथा­द­र्श­ना­दि­त्या­दि­त­र्क­स्या­ग­म­बा­ध­माह -
यदि नामेति ।
सृष्टि­श्रु­ते­र­प्र­वृ­त्ति­र्नास्ति, सर्व­ज्ञ­त्व­श्रु­ते­रु­न्म­त्तता नास्तीति विभागः ।

स्वप्न­सृ­ष्टि­व­दस्याः सृष्टे­र्मा­या­मा­त्र­त्वान्न फलापेक्षेत्याह -
न चेयमिति ।
न च निष्फ­ल­सृ­ष्टि­श्रु­ती­ना­मा­न­र्थ­क्यम् , सफ­ल­ब्र­ह्म­धी­शे­ष­त्वे­ना­र्थ­व­त्त्वा­दि­त्युक्तं न विस्म­र्त­व्य­मि­त्यर्थः ॥३३॥