अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

द्वितीयाध्याये द्वितीयः पादः

साङ्ख्य­ता­र्कि­क­बौ­द्धाश्च जैनाः पाशुपतादयः ।
यस्य तत्त्वं न जानन्ति तं वन्दे रघुपुङ्गवम् ॥१॥

ब्रह्मणि सर्व­ध­र्मो­प­प­त्ति­व­त्प्र­धा­नेऽपि तदु­प­प­त्ति­मा­शङ्क्य निराचष्टे -
रचनानुपपत्तेश्च नानुमानम् ।

ननु मुमुक्षूणां वाक्या­र्थ­नि­र्ण­य­प्र­ति­ब­न्ध­नि­रा­साय वेदान्तानां तात्पर्यं निश्चेतुमिदं शास्त्रमारब्धं तच्च निर्देषतया निश्चितम् , ततः पर­प­क्ष­नि­रा­सा­त्म­कोऽयं पादोऽस्मिन् शास्त्रे न सङ्गतः, तन्निरासस्य मुम­क्ष्व­न­पे­क्षि­त­त्वा­दि­त्या­क्षि­पति -
यद्यपीति ।

परपक्षनिराकरणं विना­स्व­प­क्ष­स्थै­र्या­यो­गा­त्त­त्क­र्त­व्य­मि­त्याह -
तथापीति ।

तर्हि स्वप­क्ष­स्था­प­ना­त्प्रा­गेव पर­प­क्ष­प्र­त्या­ख्यानं कार्यमित्यत आह -
वेदान्तार्थेति ।
वेदा­न्त­ता­त्प­र्य­नि­र्ण­यस्य फल­व­ज्ज्ञा­न­क­र­णा­न्त­र्भा­वा­द­भ्य­र्हि­त­त्वम् ।

ननु राग­द्वे­ष­क­र­ण­त्वा­त्प­र­म­त­नि­रा­क­रणं न कार्यमिति शङ्कते -
नन्विति ।

तत्त्व­नि­र्ण­य­प्र­धाना खल्वियं कथा­र­ब्धा,त­त्त्व­नि­र्ण­यश्च पर­म­ते­ष्व­श्रद्धां विना न सिध्यति, सा च तेषु भ्रान्ति­मू­ल­त्व­नि­श्चयं विना न सिध्यति, स च इमं पादं विना नेति स्वसि­द्धा­न्त­सं­र­क्ष­णा­र्थ­त्वा­त्प्र­धा­न­सि­ध्य­र्थ­त्वा­दयं पादोऽस्मिन् शास्त्रे सङ्गतः, सङ्ग­त­त्वा­द्वी­त­रा­गे­णापि कर्तव्य इत्य­भि­स­न्धा­यो­क्ता­ङ्गी­का­रेण समाधत्ते -
बाढमित्यादिना ।
अपदेशेन व्याजेन । मन्दमतीनां तेषु श्रद्धा­नि­मि­त्तानि बहूनि सन्तीति तन्निरासाय यत्नः क्रियत इत्यर्थः । स्वम­त­श्र­द्धा­प­र­म­त­द्वेषौ तु प्रधा­न­सि­द्ध्य­र्थ­त्वा­द­ङ्गी­कृतौ । नाप्ययं द्वेषः । पर­प­क्ष­त्व­बुद्ध्या हि निरासो द्वेषमावहति न तु तत्त्व­नि­र्ण­ये­च्छया कृत इति मन्तव्यम् ।

पौनरुक्त्यं शङ्कते -
नन्वीक्षतेरिति ।

पूर्वं साङ्ख्यादीनां श्रुत्य­र्था­नु­ग्रा­ह­क­त­र्क­नि­रा­सा­द­श्रौ­त­त्व­मु­क्तम् , सम्प्रति श्रुत्य­न­पे­क्षा­स्त­दीयाः स्वतन्त्रा युक्तयो निरस्यन्त इत्यर्थभेदान्न पुन­रु­क्ति­रि­त्याह -
तदुच्यत इति ।