अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

यथाश्रयभावाधिकरणम्

संप्र­त्य­ङ्गा­व­ब­द्धो­पा­स्ती­ना­म­नु­ष्ठा­न­क्रमं वक्तुं पूर्वपक्षयति -
अङ्गेष्विति ।

अङ्गा­श्रि­त­त्वा­त्स­फ­ल­त्वाच्च संशयमाह -
किमिति ।
यथा क्रत्वनुष्ठाने तदा­श्रि­ता­ङ्गानां समु­च्चि­त्या­नु­ष्ठा­न­नि­य­म­स्त­था­ङ्गा­नु­ष्ठाने तदा­श्रि­तो­पा­स्तीनां तन्नियम इति सूत्रार्थः । ननु तन्नि­र्धा­र­णा­नि­यम इत्य­त्रा­ङ्गा­श्रि­तानां गोदो­ह­न­व­द­न­ङ्ग­त्व­मुक्तं तत्क­थ­म­न­ङ्गा­ना­म­ङ्ग­व­त्स­मु­च्च­य­श­ङ्के­त्यु­च्यते । अङ्गा­न्य­नु­ष्ठा­प­य­न्प्र­यो­ग­वि­धि­र्य­द्यु­पा­स­नानि नानु­ष्ठा­प­ये­त्तर्हि तेषां तदाश्रितत्वं व्यर्थमिति मन्वानस्य शङ्केति भावः ॥६१॥

तर्हि गोदोहनस्यापि समुच्चयः स्यादित्यत आह -
शिष्टेश्चेति ।
शिष्टिः शासनं विधानमिति यावत् । विहि­त­त्वा­वि­शे­षा­त्स­मु­च्च­योऽ­ङ्ग­त्वा­दि­त्यर्थः । गोदोहनस्य तु नानुष्ठाननियमः, चमसस्थाने विहि­त­त्वा­त्त­न्नि­यमे चम­स­वि­धि­वै­य­र्थ्यात् । उपासनानां तु न कस्यचिदङ्गस्य स्थाने विहितत्वमिति समुच्चयनियमो न विरुध्यत इति भावः ॥६२॥

समुच्चये लिङ्गम् -
समाहारादिति ।
'ऋग्वे­दिनां यः प्रणवः स साम­वे­दि­ना­मु­द्गीथः' इति छान्दोग्ये प्राण­वो­द्गी­थ­यो­रै­क्य­ध्या­न­वि­धि­रस्ति, तस्य फलार्थवादो होतृ­ष­द­ना­दि­त्यादिः । होतुः शंसनस्थलवाचिना होतृषदनशब्देन शंसनं लक्ष्यते । उद्गाता स्वरा­दि­प्र­मा­दा­द्दु­ष्ट­म­प्यु­द्गीथं सम्य­क्कृ­ता­द्धो­तृ­शं­स­ना­द­नु­स­मा­हा­र­त्येव निर्देषं करोत्येव किल, शंस्यमानप्रणवेन स्वीयो­द्गी­थ­स्यै­क्य­ध्या­न­ब­ला­दि­त्यर्थः ।

ततः किं तत्राह -
इति ब्रुवन्निति ।
साम­वे­द­स्थो­द्गी­थ­ध्या­नस्य ऋग्वे­दो­क्त­प्र­ण­व­सं­बन्धो यो दृष्टः स एवाङ्गानां सर्व­वे­दा­न्त­वि­हि­तो­पा­स्ति­स­मु­च्चये लिङ्गं प्रण­व­रू­प­प­दा­र्थ­स्यो­पा­स्तीनां च वेदा­न्त­रो­क्त­त्व­सा­दृ­श्या­द्वे­दा­न्त­रो­क्ता­ङ्ग­सं­ब­न्ध­स्यापि समा­न­त्वा­दि­त्यर्थः ॥६३॥

ओङ्कारस्य ध्येयस्य साधारण्यादपि तदा­श्रि­त­ध्या­नानां समु­च्चि­त्या­नु­ष्ठानं गम्यत इति लिङ्गान्तरमाह -
गुणेति ।
तेनोङ्कारेण, वेदत्रयोक्तं कर्म प्रवर्तत इत्यर्थः ।

अन्व­य­मु­खे­नो­क्त­मे­वार्थं व्यतिरेकतोऽपि व्याचष्टे -
अथवेति ॥६४॥

फलेच्छाया अनि­य­मा­दु­पा­स्त्य­नि­यम एव युक्तः, अङ्ग­व­त्स­मु­च्च­य­नि­यमे मानाभावादिति सिद्धान्तयति -
न वेति ।

प्रयोगविधिः खलु साङ्ग­प्र­धा­ना­नु­ष्ठा­न­नि­या­मको न त्वनङ्गानां सङ्ग्राहक इत्याह -
नेति ब्रूम इति ।
विमतोपास्तयः क्रतौ न समु­च्चि­त्या­नु­ष्ठोयाः, भिन्न­फ­ल­त्वा­द्गो­दो­ह­न­व­दिति भावः ।

शिष्टे­श्चे­त्युक्तं निरस्यति -
अयमेवेति ।

समा­हा­रा­द्गु­ण­सा­धा­र­ण्य­श्रु­ते­श्चे­त्युक्तं लिङ्गद्वयमपि माना­न्त­र­प्रा­प्तस्य द्योतकं न स्वयं साध­क­म­र्थ­वा­द­स्थ­त्वा­दि­त्याह -
परं चेति ।

गुण­सा­धा­र­ण्य­सू­त्रस्य द्वितीयां व्याख्यां दूषयति -
न चेति ।

तत्प्र­यु­क्त­त्वा­भावे तदाश्रितत्वं कथमित्यत आह -
आश्रयेति ।
इदमेव तेषा­म­ङ्गा­श्रि­तत्वं यदङ्गाभावे सत्यसत्त्वं न त्वङ्ग­व्या­प­क­त्व­मि­त्यर्थः ॥६५॥

किञ्च विदुषा ब्रह्म­णा­न्ये­षा­मृ­त्विजां पाल्यत्ववचनान्न सर्वोपास्तीनां सहप्रयोग इत्याह -
दर्शनाच्चेति ।
ऋग्वे­दा­दि­वि­हि­ता­ङ्ग­लोपे व्याहृ­ति­हो­म­प्रा­य­श्चि­त्ता­दि­वि­ज्ञा­न­व­त्त्व­मे­वं­वित्त्वं ब्रह्मण इत्यर्थः ॥६६॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­गो­वि­न्दा­न­न्द­भ­ग­व­त्पा­द­कृतौ शारी­र­क­व्या­ख्यायां भाष्य­र­त्न­प्र­भायां तृतीयाध्यायस्य तृतीयः पादः ॥३॥
॥ इति तृतीयाध्यायस्य परा­प­र­ब्र­ह्म­वि­द्या­गु­णो­प­सं­हा­रा­ख्य­स्तृ­तीयः पादः ॥