अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

सर्ववेदान्तप्रत्ययाधिकरणम्

उक्त­ना­मा­दि­भि­र­ग्नि­हो­त्रा­दि­क­र्मणां प्रतिशाखं भेदे प्राप्ते शाखा­न्त­रा­धि­क­र­ण­सि­द्धा­न्त­सूत्रं 'एकं वा संयो­ग­रू­प­चो­द­ना­ख्या­वि­शे­षात्' इति । तत्र चोदनाविधायकः शब्दश्चोदितः प्रयत्नो वा । तस्या अविशेषमाह -
यथैकस्मिन्निति ।
एक­धा­त्व­र्थ­हो­मा­व­च्छि­न्न­प्र­य­त्नै­क्या­दु­पा­स्ति­य­त्नै­क्य­मि­त्यर्थः ।

यथा ज्येष्ठ­त्वा­दि­गु­ण­क­प्रा­ण­विद्या सर्वशाखास्वेका तथा पञ्चा­ग्नि­वि­द्या­प्येका फल­सं­यो­गा­द्य­वि­शे­षात्, तथान्यापि विद्याऽ­भि­न्ने­त्याह -
एवं पञ्चाग्नीति ।

पूर्व­प­क्ष­हे­तू­न्नि­रा­चष्टे -
ये त्विति ।
काठ­क­मि­त्या­दि­नाम्ना कर्मभेदो न युक्तः, कुतः अचो­द­ना­भि­धा­न­त्वा­त्का­ठ­का­दि­श­ब्दानां ग्रन्थनामतया कर्म­वा­चि­त्वा­भा­वा­दतो भिन्न­ना­म­क­शा­खा­ग्र­न्थ­भे­देऽपि ताद्विहितं कर्मैकमेव, अल्परूपभेदोऽपि न कर्मैक्यविरोधी, धर्म­वि­शे­ष­स्त्व­ध्य­य­नाङ्गं न कर्माङ्गमतो न कर्मभेदकः, शाखाभेदे पुन­रु­क्ति­र­सिद्धा, निन्दा­न्या­र्थ­द­र्श­न­यो­रपि न भेदकत्वं तत्त­द्वि­धि­स्तु­ति­मा­त्र­त्वा­द्ब­हु­शा­खा­ध्य­य­ना­श­क्ता­वपि स्वशा­खा­नु­क्त­वि­शे­ष­स्या­पे­क्षि­त­स्या­न्यतो ग्रह­ण­सं­भ­वा­द­श­क्ति­र­भे­दिका, एकस्मिन्नपि कर्म­ण्य­ङ्ग­लो­पा­दिना प्रायश्चित्तं संभवति । एवं समा­प्ति­व­च­न­भे­दोऽ­प्य­प्र­यो­जक इत्यैवं कर्मा­भे­द­प्र­मा­ण­प्रा­बल्ये भेदहेतवः परिहृता इत्यर्थः ॥१॥

तर्हि शाखा­न्त­र­न्या­ये­नैव कर्मै­क्य­व­द्वि­द्यै­क्य­सिद्धेः पुनरुक्तिरित्यत आह -
इहापीति ।
रूप­स्यो­त्प­त्ति­शि­ष्टत्वं विशेषः ।

पञ्चा­ग्नी­न्वे­दे­त्या­द्यु­पा­स­नो­त्प­त्ति­वि­धि­स्थ­प­ञ्चा­ग्न्या­दि­रू­प­भे­दा­दु­पा­स­ना­भेदः स्यादा­मि­क्षा­वा­जि­न­रू­प­भे­दा­त्क­र्म­भे­द­व­दि­त्य­धि­का­श­ङ्का­नि­रा­सा­र्थ­त्वान्न पौन­रु­क्त्य­म­स्या­धि­क­र­ण­स्येति मत्वा शङ्कां व्याचष्टे -
स्यादित्यादिना ।
अस्य पृथ­क्शा­स्त्र­त्वा­त्क­र्म­न्या­यानां मानसविद्यासु विना सूत्रं दुर्योजत्वाच्च पुन­रु­क्ति­ग­न्धोऽपि नास्तीति मन्तव्यम् ।

ननु तस्य मृतस्य दाहा­र्थ­म­ग्नि­र­न्त्ये­ष्टि­गतः षष्ठो यः प्रसि­द्ध­व­द्वा­जि­भि­रुक्तः स छान्दोग्ये उपसंहार्य इति न रूपभेदः, तत्राह -
न चात्रेति ।

अस्तु प्रजननगुणवतो रेतसो वाजि­ना­मा­वा­प­श्छ­न्दो­गानां च तस्योद्वापस्ततः किमित्यत आह -
आवापेति ।

छान्दोग्ये षष्ठा­ग्न्य­भा­व­म­ङ्गी­कृ­त्या­ल्प­रू­प­भेदो न विद्यै­क्य­वि­रो­धीति परिहरति -
नैष इत्यादिना ।

अङ्गीकारं त्यजति -
पठ्यतेऽपीति ।
इतोऽ­स्मा­ल्लो­का­दिष्टं लोकान्तरं प्रेतं गतं ज्ञातयोऽग्नये हरन्तीत्यर्थः ।

ननु छान्दो­ग्येऽ­ग्नि­मात्रं श्रुतं वाजिभिस्तु समिदादिविशेषः पठ्यते इति रूप­भे­द­स्त­द­वस्थः, तत्राह -
वाज­स­ने­यि­न­स्त्विति ।
षष्ठा­ग्ने­स्त­द्वि­शे­षस्य चानु­वा­द­मा­त्र­त्वे­ना­नु­पा­स्य­त्वा­त्प­ञ्चा­ग्नय एवोपास्या उभयत्रेति न रूपभेद इत्यर्थः ।

सविशेषस्य षष्ठा­ग्ने­रू­पा­स्य­त्वेऽपि न रूपभेद इत्याह -
अथापीति ।
द्युलोकादीनां पञ्चा­ना­म­न­ग्नी­ना­म­ग्नि­त्व­सं­प­त्ति­वि­धि­नै­वा­र्था­त्प­ञ्चत्वं संप­त्ति­क­ल्पि­ता­ग्नीनां सिद्धमनूद्यते न ध्येयत्वेन विधीयत इत्यर्थः ।

छन्दो­गै­र्वा­जि­शा­खास्थं रेत उप­सं­ह­र्त­व्य­मि­त्यु­क्त्वाऽ­नु­प­सं­हा­रेऽपि न विद्याभेद इत्याह -
न चावापेति ॥२॥

एवं रूपभेदो न विद्याभेदक इत्युक्त्वा धर्मविशेषोऽपि न भेदक इत्याह -
स्वाध्यायस्येति ।
गोदा­न­व­द­ध्य­य­ना­ङ्ग­त्वेन शिरो­व्र­त­मा­थ­र्व­णि­कानां सूत्रे विहितं न विद्या­ङ्ग­मि­त्यर्थः ।

अधिकाराच्चेति व्याचष्टे -
नैतदिति ।
एतत्प्रकृतं मुण्ड­क­म­न­नु­ष्ठि­त­शि­रो­व्रतो नरो नाधीत इति श्रुते­र्मु­ण्ड­का­ध्य­य­ना­ङ्ग­मेव शिरो­व्र­त­मि­त्यर्थः ।

ननु विद्या­ङ्ग­त्वे­नापि इदं व्रतं श्रुतमिति शङ्कते -
नन्विति ।
सर्वशाखासु ब्रह्मविद्यैकैव चेद्वि­द्या­सं­युक्तं व्रतमपि सर्वत्र संबध्येत । नच संबध्यत इति विद्याभेद इत्यर्थः ।

प्रकृ­त­ग्र­न्थ­वा­च्यै­त­च्छ­ब्द­ब­ला­द्ब्र­ह्म­प्र­का­श­ग्र­न्थ­परो ब्रह्म­वि­द्या­शब्द इति परिहरति -
नेति ।
तस्य शिरोव्रतस्य मुण्डकाध्ययने नियम इत्यत्र सववदिति निदर्शननिर्देशः । सवा होमाः । अथर्वणैः स्वसूत्रे उदित एकोऽ­ग्नि­रे­क­र्षि­सं­ज्ञया प्रसि­द्ध­स्त­स्मि­न्नग्नौ कार्या इति यथा नियम्यन्ते तथेत्यर्थः ॥३॥

किञ्च वेद्यैक्येन निर्गु­ण­ब्र­ह्म­वि­द्यैक्यं ताव­च्छ्रु­ति­र्द­र्श­यति, तत्सं­नि­धि­पा­ठा­त्स­गु­ण­वि­द्या­ना­मपि सर्व­शा­खा­स्वै­क्य­सि­द्धि­रि­त्याह सूत्रकारः -
दर्शयति चेति ।

सगुणमप्येकं वेदत्रये वेद्यं दर्शयतीत्याह -
तथेति ।

किञ्च शाखा­न्त­रो­क्त­पा­दा­र्थस्य शाखान्तरे सिद्ध­व­त्प­रा­मर्शो विद्यैक्यं दर्शयतीत्याह -
तथा मह­द्भ­य­मि­त्या­दिना ।
एष नर एत­स्मि­न्न­द्व­येऽ­ल्प­म­प्य­न्तरं भेदं यदा पश्यत्यथ तदा तस्य संसारभयं भवत्येव, यस्माद्विदुषो नरस्य भेददर्शिनस्तदेव ब्रह्म भयङ्करं भवति, ब्रह्मै­वा­ह­मि­त्य­म­न्वा­न­स्ये­त्यर्थः ।

प्रादे­श­मा­त्र­मु­पास्त इति सिद्धवदुपादानं वैश्वा­न­र­वि­द्यैक्यं दर्शयतीत्याह -
तथेति ।

किञ्च सर्वेषु वेदा­न्ते­षू­क्था­दीनां प्रतीयमानत्वेन हेतुनैतदवगम्यते अन्यत्रोक्तानां तेषा­म­न्य­त्रो­पा­स्त्य­र्थ­मु­पा­दा­न­मिति । तत­स्त­दु­पा­स्ती­ना­मपि सर्व­वे­दा­न्त­प्र­मा­ण­क­त्वे­नैक्यं बाहुल्येन सिध्यतीत्याह -
तथेति ।
ब्रह्म­वि­द्यै­क्य­व­दु­क्था­दि­वि­द्यै­क्य­मि­त्यर्थः ॥४॥