भाष्यरत्नप्रभाव्याख्या
अन्तर्याम्यधिकरणम्
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् । बृहदारण्यकवाक्यमुदाहरति
य इति ।
अन्तर्यामिब्रह्मणे प्रतीयमानार्थमाह
अत्रेति ।
'यः पृथिव्याम्' इत्यादिना देवताः पृथिव्याद्या अधिकृत्य यमयिता श्रूयते । तथा 'यः सर्वेषु लोकेषु' इत्यधिलोकम् , 'यः सर्वेषु वेदेषु' इत्यधिवेदम् , 'यः सर्वेषु यज्ञेषु' इत्यधियज्ञम् , 'यः सर्वेषु भूतेषु' इत्यधिभूतम् , 'यः प्राणे तिष्ठन्' इत्यादि 'य आत्मानि' इत्यन्तमध्यात्मं चेति विभागः । अशरीरस्य नियन्तृत्वसम्भवासम्भवाभ्यां संशयः । पूर्वत्रेश्वरस्याक्षिस्थानत्वसिद्धये पृथिव्यादिस्थाननिर्देशो दृष्टान्त उक्तः, तस्य दृष्टान्तवाक्यस्येश्वरपरत्वमत्राक्षिप्य समाधीयत इत्याक्षेपसङ्गतिः । अतः पूर्वफलेनास्य पलवत्त्वम् । अवान्तरफलं तु पूर्वपक्षे अनीश्वरोपास्तिः, सिद्वान्ते प्रत्यग्ब्रह्मज्ञानमिति मन्तव्यम् ।
स्वयमेवारुचिं वदन्पक्षान्तरमाह
अथवेति ।
अनिश्चितार्थे फलाभावेनाफलस्य वेदार्थत्वायोगादिति भावः । तथाच श्रूयते वेदे । पृथिवी यस्य देवस्यायतनं शरीरम् , लोक्यतेऽनेनेति लोकश्चक्षुः, ज्योतिः सर्वार्थप्रकाशकं मन इत्यर्थः ।
उपक्रमादिनान्तर्याम्यैक्यनिश्चयादनेकदेवपक्षो न युक्त इत्यरुचेराह
योगिनो वेति ।
आगन्तुकसिद्धस्यान्तर्यामित्वेऽप्रसिद्धसाधनकल्पनागौरवान्नित्यसिद्ध एवान्तर्यामीति सिद्धान्तयति
एवं प्राप्त इति ।
देवतानिरासे हेत्वन्तरमाह
यं पृथिवीति ।
ईश्वरो न नियन्ता, अशरीरत्वात् , घटवदियुक्तं निरस्यति
नैष दोष इति ।
नियम्यातिरिक्तशरीरशून्यत्वं वा हेतुः, शरीरासम्बन्धित्वं वा । आद्ये, स्वदेहनियन्तरि जीवे व्यभिचारः । द्वितीयस्त्वसिद्धः, ईश्वरस्य स्वाविद्योपार्जितसर्वसम्बन्धित्वादित्याह
यान्नियच्छतीति ।
सशरीरो नियन्तेतिलोकदृष्टिमनुसृत्यैतदुक्तम् । वस्तुतस्तु चेतनसांनिध्याज्जडस्य व्यापारो नियमनं तच्छक्तिमत्त्वं नियन्तृत्वम् । तच्चाचिन्त्यमायाशक्तेश्चिदात्मनः शरीरं विनैवोपपन्नम् ।
ननु देहनियन्तुर्जीवस्यान्यो नियन्ता चेत्तस्याप्यन्य इत्यनवस्थेत्यत आह
तस्यापीति ।
निरङ्कुशं सर्वनियन्तृत्वमीश्वरस्य श्रुतम् , तस्य नियन्त्रन्तरानुमाने श्रुतिबाध दति नानवस्थेत्यर्थः । यद्वा ईश्वराद्भेदकल्पनया जीवस्य नियन्तृत्वोक्तेः सत्यभेदाभावान्नानवस्थेत्यर्थः ॥ १८ ॥
प्रधानं महदादिक्रमेण कथं प्रवर्तत इति तर्कस्याविषय इत्याह
अप्रतर्क्यमिति ।
रूपादिहीनत्वादविज्ञेयम् , सर्वतो दिक्षु प्रसुप्तमिव तिष्ठति जडत्वादित्यर्थः । अतत् अप्रधानं चेतनम् , तस्य धर्माणामभिधानादिति हेत्वर्थः ॥ १९ ॥
उत्तरसूत्रनिरस्याशङ्कामाह
यदि प्रधानमित्यादिना ।
अमृतश्चेति ।
विनाशिनो देहान्तरभोगानुपपत्तेरित्यर्थः ।
यथा देवदत्तकर्तृकगमनक्रियाया ग्रामः कर्म न देवदत्तः, तथात्मकर्तृकदर्शनादिक्रियाया अनात्मा विषयः न त्वात्मा, क्रियायाः कर्तृविषयत्वायोगादित्याह
कर्तरीति ।
क्रियायां गुणः कर्ता, प्रधानं कर्म, तत्रैकस्यां क्रियायामेकस्य गुणत्वप्रधानत्वयोर्विरोधान्न कर्तुः कर्मत्वमित्यर्थः ।
दृष्टेर्द्रष्टारमात्मानं तया दृश्यया दृष्ट्या न विषयीकुर्या इत्यादिश्रुतेश्चादृष्टत्वादिधर्माः शारीरस्येत्याह
नेति ।
अपिशब्दसूचितं हेतुमुक्त्वा कण्ठोक्तं हेतुमाह
अपि चोभयेऽपीति ।
भेदेनेति सूत्रात्तात्त्विकभेदभ्रान्तिं निरसितुं शङ्कते
कथमिति ।
नन्वत्रैको भोक्ता जीवः, ईश्वरस्त्वभोक्तेति न विरोध इति शङ्कते
का पुनरिति ।
तयोर्भेदः श्रुतिविरुद्ध इति पूर्ववाद्याह
नान्य इति ।
स एव श्रुत्यर्थमाह
अत्रेति ।
श्रुतेरर्थान्तरमाशङ्क्य निषेधति
नियन्त्रन्तरेत्यादिना ।
न केवलमप्रसक्तप्रतिषेधः, किन्त्वविशेषेण द्रष्ट्रन्तरनिषेधश्रुतेरन्तर्याम्यन्तरनिषेधार्थत्वे बाधश्चेत्याह
अविशेषेति ।
तस्मात्सूत्रे, 'य आत्मानि तिष्ठन्' इति श्रुतौ च द्रष्टृभेदोक्तिरयुक्ता, 'नान्यः' इति वाक्यशेषे भेदनिरासादिति प्राप्ते, भेद उपाधिकल्पितः श्रुतिसूत्राभ्यामनूद्यत इति समाधत्ते
अत्रोच्यत इति ।
भेदः सत्यः किं न स्यादत आह
एको हीति ।
गौरवेण द्वयोरहन्धीगोचरत्वासम्भावदेक एव तद्गोचरः । तदगोचरस्य घटवदनात्मत्वान्नात्मभेदः सत्य इत्यर्थः ।
ततश्चेति ।
कल्पितभेदाङ्गीकाराद्भेदापेक्षं सर्वं युज्यत इत्यर्थः । तस्मादन्तर्यामिब्राह्मणं ज्ञेये ब्रह्मणि समन्वितमिति सिद्धम् ॥ २० ॥