भाष्यरत्नप्रभाव्याख्या
अक्षराधिकरणम्
अक्षरमम्बरान्तधृतेः । बृहदारण्यकं पठति
कस्मिन्न्विति ।
यद्भूतं भवच्च भविष्यच्च तत्सर्वं कस्मिन्नोतमिति गार्ग्या पृष्टेन मुनिना याज्ञवल्क्येनाव्याकृताकाशः कार्यमात्राश्रय उक्तः । आकाशः कस्मिन्नोत इति द्वितीयप्रश्ने स मुनिरुवाच, तदव्याकृतस्याधिकरणमेतदक्षरमस्थूलादिरूपमित्यर्थः । उभयत्राक्षरशब्दप्रयोगात्संशयः । यथा सत्यशब्दो ब्रह्मणि रूढ इति ब्रह्म भूमेत्युक्तं तथाक्षरशब्दो वर्णे रूढ इति दृष्टान्तेन पूर्वपक्षः । तत्र ओङ्कारोपास्तिः फलम् , सिद्धान्ते निर्गुणब्रह्मधीरिति विवेकः ।
ननु न क्षरतीत्यचलत्वानाशित्वयोगाद्ब्रह्मण्यप्यक्षरशब्दो मुख्य इत्यत आह
प्रसिद्ध्यतिक्रमस्येति ।
'रूढिर्योगमपहरति' इति न्यायादित्यर्थः ।
वर्णस्य ओङ्कारस्य सर्वाश्रयत्वं कथमित्याशङ्क्य ध्यानार्थमिदं यथा श्रुत्यन्तरे सर्वात्मत्वमित्याह
ओङ्कार इति ।
प्रश्नप्रतिवचनाभ्यामाकाशान्तजगदाधारत्वे तात्पर्यनिश्चयान्न ध्यानार्थता, अतस्तल्लिङ्गबलाद्रूढिं बाधित्वा योगवृत्तिर्ग्राह्येति सिद्वान्तयति
एवमित्यादिना ॥ १० ॥
आकाशं भूतं कृत्वा शङ्कते
स्यादेतदिति ।
चेतनकर्तृकशिक्षाया अत्र श्रुतेर्मैवमित्याह
सा चेति ।
सूत्रं व्याचष्टे
सा चेति ।
चकार आकाशस्य भूतत्वनिरासार्थः । भूताकाशस्य कार्यन्तःपातिनः श्रुतसर्वकार्याश्रयत्वायोगादव्याकृतमज्ञानमेवाकाशः प्रधानशब्दित इति तदाश्रयत्वाच्चाक्षरं न प्रधानमित्यर्थः । विधृतौ विषयत्वेन धृतौ ॥ ११ ॥
प्रश्नपूर्वकं सूत्रं व्याकरोति
किमिदमिति ।
घटत्वाद्व्यावृत्तिरिति भ्रान्तिं निरस्यति
एतदिति ।
अम्बरान्तस्याधारमक्षरं श्रुतिरचेतनत्वाद्व्यावर्तयतीत्यर्थः ।
जीवनिरासपरत्वेनापि सूत्रं योजयति
तथेति ।
अन्यभावो भेदस्तन्निषेधादिति सूत्रार्थः ।
तर्हि शोधितो जीव एवाक्षरं न पर इत्यत आह
नहीति ।
शोधिते जीवत्वं नास्तीत्यर्थः । तस्माद्गार्गिब्राह्मणं निर्गुणाक्षरे समन्वितमिति सिद्धम् ॥ १२ ॥