अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

अक्षराधिकरणम्

अक्ष­र­म­म्ब­रा­न्त­धृतेः । बृहदारण्यकं पठति
कस्मिन्न्विति ।
यद्भूतं भवच्च भविष्यच्च तत्सर्वं कस्मिन्नोतमिति गार्ग्या पृष्टेन मुनिना याज्ञ­व­ल्क्ये­ना­व्या­कृ­ता­काशः कार्यमात्राश्रय उक्तः । आकाशः कस्मिन्नोत इति द्वितीयप्रश्ने स मुनिरुवाच, तद­व्या­कृ­त­स्या­धि­क­र­ण­मे­त­द­क्ष­र­म­स्थू­ला­दि­रू­प­मि­त्यर्थः । उभ­य­त्रा­क्ष­र­श­ब्द­प्र­यो­गा­त्सं­शयः । यथा सत्यशब्दो ब्रह्मणि रूढ इति ब्रह्म भूमेत्युक्तं तथाक्षरशब्दो वर्णे रूढ इति दृष्टान्तेन पूर्वपक्षः । तत्र ओङ्कारोपास्तिः फलम् , सिद्धान्ते निर्गु­ण­ब्र­ह्म­धी­रिति विवेकः ।

ननु न क्षर­ती­त्य­च­ल­त्वा­ना­शि­त्व­यो­गा­द्ब्र­ह्म­ण्य­प्य­क्ष­र­शब्दो मुख्य इत्यत आह
प्रसि­द्ध्य­ति­क्र­म­स्येति ।
'रूढि­र्यो­ग­म­प­ह­रति' इति न्यायादित्यर्थः ।

वर्णस्य ओङ्कारस्य सर्वाश्रयत्वं कथमित्याशङ्क्य ध्यानार्थमिदं यथा श्रुत्यन्तरे सर्वा­त्म­त्व­मि­त्याह
ओङ्कार इति ।

प्रश्न­प्र­ति­व­च­ना­भ्या­मा­का­शा­न्त­ज­ग­दा­धा­रत्वे तात्प­र्य­नि­श्च­यान्न ध्यानार्थता, अत­स्त­ल्लि­ङ्ग­ब­ला­द्रूढिं बाधित्वा योग­वृ­त्ति­र्ग्रा­ह्येति सिद्वान्तयति
एवमित्यादिना ॥ १० ॥

आकाशं भूतं कृत्वा शङ्कते
स्यादेतदिति ।

चेत­न­क­र्तृ­क­शि­क्षाया अत्र श्रुते­र्मै­व­मि­त्याह
सा चेति ।

सूत्रं व्याचष्टे
सा चेति ।
चकार आकाशस्य भूत­त्व­नि­रा­सार्थः । भूताकाशस्य कार्यन्तःपातिनः श्रुत­स­र्व­का­र्या­श्र­य­त्वा­यो­गा­द­व्या­कृ­त­म­ज्ञा­न­मे­वा­काशः प्रधानशब्दित इति तदा­श्र­य­त्वा­च्चा­क्षरं न प्रधानमित्यर्थः । विधृतौ विषयत्वेन धृतौ ॥ ११ ॥

प्रश्नपूर्वकं सूत्रं व्याकरोति
किमिदमिति ।

घट­त्वा­द्व्या­वृ­त्ति­रिति भ्रान्तिं निरस्यति
एतदिति ।
अम्ब­रा­न्त­स्या­धा­र­म­क्षरं श्रुति­र­चे­त­न­त्वा­द्व्या­व­र्त­य­ती­त्यर्थः ।

जीव­नि­रा­स­प­र­त्वे­नापि सूत्रं योजयति
तथेति ।
अन्यभावो भेद­स्त­न्नि­षे­धा­दिति सूत्रार्थः ।

तर्हि शोधितो जीव एवाक्षरं न पर इत्यत आह
नहीति ।
शोधिते जीवत्वं नास्तीत्यर्थः । तस्मा­द्गा­र्गि­ब्रा­ह्मणं निर्गुणाक्षरे समन्वितमिति सिद्धम् ॥ १२ ॥